०६ होतुरध्रिगुप्रैषः

विश्वास-प्रस्तुतिः

दैव्या॑श्शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् ।

मूलम्

दैव्या॑श्शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् ।

भट्टभास्कर-टीका

1एवं मैत्रावरुणेन प्रेषितोऽन्वाह - दैव्याश्शमितार इति ॥ हे दैव्याः! देवेषु भवाः! देवात्मानः! शमितारः! उत अपि मनुष्याः! मनुष्यात्मानः! शमितारः! यूयं उभयेऽपि आरभध्वं वक्ष्यमाणमुपनयनादि कर्तुम् । ‘शमिता यज्ञे’ इति णिलोपो निपात्यते ।

मूलम्

उप॑नयत॒ मेध्या॒ दुरः॑ ।
आ॒शासा॑ना॒ मेध॑पतिभ्या॒म्मेध॑म् ।

विश्वास-प्रस्तुतिः

उप॑नयत॒ मेध्या॒ दुर॑ आ॒शासा॑ना॒ मेध॑पतिभ्या॒म्मेध॑म् ।

मूलम्

उप॑नयत॒ मेध्या॒ दुर॑ आ॒शासा॑ना॒ मेध॑पतिभ्या॒म्मेध॑म् ।

भट्टभास्कर-टीका

उपनयत सन्निधापयत मेध्याः मेधार्हाः दुरः द्वारः हविर्मार्गान् आशासानाः प्रार्थयमानाः यूयं मेधं यज्ञं मेधपतिभ्यां इन्द्राग्निभ्यां पत्नीयजमानार्थं वा ।

विश्वास-प्रस्तुतिः

प्रास्मा॑ अ॒ग्निम्भ॑रत ।

मूलम्

प्रास्मा॑ अ॒ग्निम्भ॑रत ।

भट्टभास्कर-टीका

एवं ‘अन्तरा चात्वालोत्करौ’ इत्यनेन क्रमेण संज्ञपनस्थानमुपनीयमानाय अस्मै पशवे अग्निं उल्मुकारव्यं प्रभरत प्रहरत अग्रतो हरत श्रपणार्थम् ।

विश्वास-प्रस्तुतिः

स्तृ॒णी॒त ब॒र्हिः ।

मूलम्

स्तृ॒णी॒त ब॒र्हिः ।

भट्टभास्कर-टीका

अथ स्थानं नीतस्यास्य बर्हिरुपाकरणयोरन्यतरत् स्तृणीत अधस्तादुपास्यत ।

विश्वास-प्रस्तुतिः

अन्वे॑नम्मा॒ता म॑न्यताम् ।
अनु॑ पि॒ता ।
अनु॒ भ्राता॒ सग॑र्भ्यः ।
अनु॒ सखा॒ सयू॑थ्यः ।

मूलम्

अन्वे॑नम्मा॒ता म॑न्यताम् ।
अनु॑ पि॒ता ।
अनु॒ भ्राता॒ सग॑र्भ्यः ।
अनु॒ सखा॒ सयू॑थ्यः ।

भट्टभास्कर-टीका

अथ एनं संज्ञप्यमानं माता प्रथमं अनुमन्यतां मातुः प्राधान्यात्तदनुज्ञानं प्रथमं प्रार्थ्यते । पिता चानुमन्यताम् । भ्राता च सगर्भ्योऽनुमन्यतां समाने गर्भे वासस्सगर्भः । ‘सगर्भसयूथसनुताद्यत्’ सखा च सयूथ्यः, समाने यूथे भवः अनुमन्यताम् ॥

विश्वास-प्रस्तुतिः

उ॒दी॒चीनाँ॑ अस्य प॒दो निध॑त्तात् ॥13॥
सूर्य॒ञ्चक्षु॑र्गमयतात् ।

मूलम्

उ॒दी॒चीनाँ॑ अस्य प॒दो निध॑त्तात् ॥13॥
सूर्य॒ञ्चक्षु॑र्गमयतात् ।

भट्टभास्कर-टीका

2एवमेतैरनुमतस्य स्थानं नीतस्य संज्ञप्यमानस्य पदः पादान् उदीचीनान् उदग्गातान् निधत्तात् निधत्त सारयत । ‘तस्य तात्’ इति तादादेशः । अस्य चक्षुः सूर्यं गमयतात् संज्ञपयतेत्युक्तं भवति । मारणस्य च न्याय्यतां प्रतिपादयितुमेवमुक्तम्, सर्वेषां म्रियमाणानां सूर्यमेव चक्षुर्गच्छति । तथा पितृमेधे - ‘सूर्यं ते चक्षुर्गच्छतु वातमात्मा’ इति । एवं वातादिष्वपि योज्यम् ।

विश्वास-प्रस्तुतिः

वात॑म्प्रा॒णम॒न्वव॑सृजतात् ।

मूलम्

वात॑म्प्रा॒णम॒न्वव॑सृजतात् ।

भट्टभास्कर-टीका

अस्य प्राणं वातमनु लक्षीकृत्य अवसृजतात् तमनु प्रवेशयत ।

विश्वास-प्रस्तुतिः

दिश॒श्श्रोत्र॑म् +++(अवसृजत)+++।

मूलम्

दिश॒श्श्रोत्र॑म् +++(अवसृजत)+++।

भट्टभास्कर-टीका

दिशः अनु अस्य श्रोत्रमवसृजतेत्येव । ऐन्द्रियकस्य तेजस एकत्वात् सर्वत्रैकवचनम् ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्ष॒मसु॑म् +++(अवसृजत)+++।

मूलम्

अ॒न्तरि॑क्ष॒मसु॑म् +++(अवसृजत)+++।

भट्टभास्कर-टीका

अन्तरिक्षमनु अस्य असुं अवसृजत ।

विश्वास-प्रस्तुतिः

पृ॒थि॒वीँ शरी॑रम् +++(अवसृजत)+++।

मूलम्

पृ॒थि॒वीँ शरी॑रम् +++(अवसृजत)+++।

भट्टभास्कर-टीका

पृथिवीमनु शरीरं अस्यावसृजत ।

विश्वास-प्रस्तुतिः

ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् ।

मूलम्

ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् ।

भट्टभास्कर-टीका

एकधा एकया विधया अविच्छेदेन अस्य त्वचं आच्छ्यतात् आच्छिन्दत । छो छेदने, दैवादिकः ।

विश्वास-प्रस्तुतिः

पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् ।

मूलम्

पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् ।

भट्टभास्कर-टीका

नाभ्या अपिशसः छेदात् पूर्वमेव वपामुत्खिवदतात् उद्धरत । शसु हिंसायाम् संपदादिलक्षणः क्विप् खिद दैन्ये ।

विश्वास-प्रस्तुतिः

अ॒न्तरे॒वोष्माणव्ँ॑ वारयतात् ।

मूलम्

अ॒न्तरे॒वोष्माणव्ँ॑ वारयतात् ।

भट्टभास्कर-टीका

अन्तरेव अस्य ऊष्माणं उच्छ्वासं वारयतात् पिहितास्यं संज्ञपयत । वपोद्धारणस्यानगतमूष्माणमिति केचित् । पच्यमानमूष्माणमित्यन्ये ।

विश्वास-प्रस्तुतिः

श्ये॒नम॑स्य॒ वक्ष॑ᳵ कृणुतात् ।

मूलम्

श्ये॒नम॑स्य॒ वक्ष॑ᳵ कृणुतात् ।

भट्टभास्कर-टीका

पशुकुम्भ्या आस्यं स्थगयित्वा पचतीति । श्येनं श्येनाकृति अस्य वक्षः कृणुतात् कुरुत ।

विश्वास-प्रस्तुतिः

प्र॒शसा॑ बा॒हू +++(कृणुतात्)+++॥14॥

मूलम्

प्र॒शसा॑ बा॒हू +++(कृणुतात्)+++॥14॥

भट्टभास्कर-टीका

प्रशसा प्रकृष्टच्छेदनौ बाहू कृणुतादित्येव । शमु हिंसायां क्विप् ।

विश्वास-प्रस्तुतिः

श॒ला दो॒षणी॑ +++(कृणुतात्)+++।

मूलम्

श॒ला दो॒षणी॑ +++(कृणुतात्)+++।

भट्टभास्कर-टीका

शला शलाकाकारे । ‘सुपां सुलुक्’ इत्याकारः । दोषणी कुरुत ।

विश्वास-प्रस्तुतिः

क॒श्यपे॒वाँसा॑ +++(कृणुतात्)+++।

मूलम्

क॒श्यपे॒वाँसा॑ +++(कृणुतात्)+++।

भट्टभास्कर-टीका

अंसा कश्यपा उभावप्यंसौ कच्छपाकारौ कुरुत ।

विश्वास-प्रस्तुतिः

अच्छि॑द्रे॒ श्रोणी॑ +++(कृणुतात्)+++।

मूलम्

अच्छि॑द्रे॒ श्रोणी॑ +++(कृणुतात्)+++।

भट्टभास्कर-टीका

श्रोणी उभे अपि अच्छिद्रे अन्यूने कुरुत ।

विश्वास-प्रस्तुतिः

क॒वषो॒रू स्रे॒कप॑र्णाष्ठी॒वन्ता॑ +++(कृणुतात्)+++।

मूलम्

क॒वषो॒रू स्रे॒कप॑र्णाष्ठी॒वन्ता॑ +++(कृणुतात्)+++।

भट्टभास्कर-टीका

कवषा कवाटाकारौ ऊरू कुरुत । स एवाकारः । स्रेकपर्णा करवीरपत्राकारौ आष्ठीवन्तौ कुरुत । शुकपर्णाकारावित्येके । अण्डाकारावित्यन्ये । स एवाकारः ।

विश्वास-प्रस्तुतिः

षड्विँ॑शतिरस्य॒ वङ्क्र॑यः ।

मूलम्

षड्विँ॑शतिरस्य॒ वङ्क्र॑यः ।

भट्टभास्कर-टीका

अस्य षड्विंशतिर्वङ्क्रयः पर्शवो भवन्ति पार्श्वास्थीनि ।

विश्वास-प्रस्तुतिः

ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् ।

मूलम्

ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् ।

भट्टभास्कर-टीका

ताः सर्वाः अनुष्ठ्या स्थानानुक्रमेण उच्च्यावयतात् उद्धरत । अनुक्रमेण स्थानमनुष्ठा । ‘सुपां सुलुक्’ इति तृतीयाया याडादेशः ।

विश्वास-प्रस्तुतिः

गात्र॑ङ्गात्रम॒स्यानू॑नङ्कृणुतात् ।

मूलम्

गात्र॑ङ्गात्रम॒स्यानू॑नङ्कृणुतात् ।

भट्टभास्कर-टीका

गात्रंगात्रं सर्वं अस्य गात्रं अवदानीयं अनूनं अविकलं कुरुत ।

विश्वास-प्रस्तुतिः

ऊ॒व॒ध्य॒गो॒हम्पार्थि॑वङ्खनतात् ।

मूलम्

ऊ॒व॒ध्य॒गो॒हम्पार्थि॑वङ्खनतात् ।

भट्टभास्कर-टीका

ऊवध्यगूहं पुरीषगूहनं पार्थिवं पृथिव्यां भवं अवटं खनतात् ।

विश्वास-प्रस्तुतिः

अ॒स्ना रक्ष॒स्सँसृ॑जतात् ।

मूलम्

अ॒स्ना रक्ष॒स्सँसृ॑जतात् ।

भट्टभास्कर-टीका

अस्ना रुधिरेण । पद्दन्नादिना असृजो असन्भावः । रक्षः पिशितलोलुपं संसृजतात् संयोजयत तर्पयत ।

विश्वास-प्रस्तुतिः

व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ॥15॥

मूलम्

व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ॥15॥

भट्टभास्कर-टीका

अस्य वनिष्ठं गुदसदृशमार्द्रमांसं माराविष्ट माच्छिन्दत । कपिलकादित्वाल्लत्वविकल्पः ।

विश्वास-प्रस्तुतिः

उरू॑क॒म्मन्य॑मानाः ।

मूलम्

उरू॑क॒म्मन्य॑मानाः ।

भट्टभास्कर-टीका

उरूकं उरुं महान्तमिमं मन्यमानाः अवगच्छन्तः अल्पं मा कार्ष्ट । केचिदाहुः - उलूकाकारं मन्यमानाः मा राविष्ट शब्दनं मा कार्ष्ट उलूकशब्दवदमङ्गल्योऽस्य शब्द इति बोधयितुं एवमुक्तम् । पूर्ववल्लत्वविकल्पः ॥

मूलम्

नेद्व॑स्तो॒के तन॑ये ।
रवि॑ता॒रव॑च्छमितारः ।
अध्रि॑गो शमी॒ध्वम् ।

विश्वास-प्रस्तुतिः

नेद्व॑स्तो॒के तन॑ये॒ रवि॑ता॒ रव॑त् ।

मूलम्

नेद्व॑स्तो॒के तन॑ये॒ रवि॑ता॒ रव॑त् ।

भट्टभास्कर-टीका

3एवं कुर्वतां युष्माकं लाभः श्रूयतामित्याह - नेत् नैव युष्माकं संबन्धिनि तोके पुत्रे तनये तत्पुत्रे च निमित्ते कश्चिदपि रविता शब्दयिता रोदिता रवत् रूयात् मैव रोदीत् अस्य छेदनं शब्दनं वा तादृशहेतुस्स्यादिति दर्शितं भवति । तत्परिहारार्थं मा राविष्टेति । रौतेर्लेटि शपो लुक् अडागमः ‘निपातैर्यद्यत्’ इति निघाताभावः ।

विश्वास-प्रस्तुतिः

शमितार॒ अध्रि॑गो शमी॒ध्वम् ।

मूलम्

शमितार॒ अध्रि॑गो शमी॒ध्वम् ।

भट्टभास्कर-टीका

हे शमितारः! दैव्या मानुषाश्च! हे च अध्रिगो! यूयं इमं यथोक्तगुणकं पशुं शमीध्वं विशसनादिना संस्कुरुध्वम् । लेटि छान्दसश्शपो लुक् इडागमश्च । इटो वा दीर्घत्वम् । ‘सुशमी शमीष्व’ इति दर्शनात् ।

अध्रिगुर्नाम देवानां शमिता तस्य पुनर्वचनं प्राधान्यार्थम् । आध्रियन्ते गावोऽस्मिन्नित्यध्रिगुः अनुक्रान्तानां संशासनशब्दानामाधार इत्यर्थः । इदमेवास्य प्राधान्यं यदस्मिन् पूर्वमाध्रियन्ते ।

विश्वास-प्रस्तुतिः

सु॒शमि॑ शमीध्वम् ।

मूलम्

सु॒शमि॑ शमीध्वम् ।

भट्टभास्कर-टीका

इदानीं विशेषविधानार्थमाह - सुशमि सुष्ठु शाम्यतीति सुशमि । ‘शमित्यष्टाभ्यः’ इति घिनुण्प्रत्ययः । शोभनत्वं च शास्त्रविहितत्वं शमीध्वमिति तृतीयं वचनं आदरार्थं अवधारणार्थं च, शमीध्वमेव न गुणकल्पनाऽङ्गीकार्येति ।

विश्वास-प्रस्तुतिः

श॒मी॒ध्वम॑ध्रिगो ।

मूलम्

श॒मी॒ध्वम॑ध्रिगो ।

भट्टभास्कर-टीका

अध्रिगोः पुनरामन्त्रणं संशासनाधारत्वात् त्वयाऽत्र विशेषेणावधातव्यमिति ख्यापनार्थं - शमीध्वं सर्वे यूयं, हे अध्रिगो! त्वं तु विशेषणावधत्स्वेति ॥

मूलम्

अध्रि॑गु॒श्चापा॑पश्च ।
उ॒भौ दे॒वानाँ॑ शमि॒तारौ॑ ।
तावि॒मम्प॒शुँ श्र॑पयताम्प्रवि॒द्वाँसौ॑ ।
यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ॥16॥

विश्वास-प्रस्तुतिः

अध्रि॑गु॒श्चापा॑पश्चो॒भौ दे॒वानाँ॑ शमि॒तारौ॒ तावि॒मम्प॒शुँ श्र॑पयताम्प्रवि॒द्वाँसौ॒ यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ॥16॥

मूलम्

अध्रि॑गु॒श्चापा॑पश्चो॒भौ दे॒वानाँ॑ शमि॒तारौ॒ तावि॒मम्प॒शुँ श्र॑पयताम्प्रवि॒द्वाँसौ॒ यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ॥16॥

भट्टभास्कर-टीका

4कः पुनरध्रिगोः विशेष इत्याह - अध्रिगुश्चापापश्च द्वाविमौ महानुभावौ देवानां शमितारौ, तस्मात् तावेवागत्य इमं पशुं श्रपयतां संस्कुरुतां प्रविद्वांसौ प्रकर्षेण श्रपणज्ञौ तस्मात् यथायथाऽस्य गात्राणां श्रपणं येनयेन प्रकारेण युज्यते तथा तथा तेनतेन प्रकारेण प्रविद्वांसौ तावेव श्रपयताम् ॥

इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे पशुहौत्रे षष्ठोऽनुवाकः ॥