विश्वास-प्रस्तुतिः
अजै॑द॒ग्निः ।
अस॑न॒द्वाज॒न्नि ।
मूलम्
अजै॑द॒ग्निः ।
अस॑न॒द्वाज॒न्नि ।
भट्टभास्कर-टीका
1उपप्रेष्येति प्रतिष्ठितः स एव ब्रवीति - अजैदिति ॥ अजैत् जयतु संज्ञपनार्थं नीयमानस्य पशोः अग्रतः गच्छन् उल्मुकाख्यः अग्निः जयतु । छान्दसे लुङि सिचि वृद्धौ इडभावे रूपम् । हविस्संपादनसामर्थ्यवत्त्वं जयः । वाजं अन्नं हविर्लक्षणं न्यसनत् नियमेन संभजतु ।
विश्वास-प्रस्तुतिः
दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॑ट् ।
प्राञ्जो॑भिर्हिन्वा॒नः ।
धेना॑भि॒ᳵ कल्प॑मानः ।
य॒ज्ञस्यायु॑ᳶ प्रति॒रन् ।
मूलम्
दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॑ट् ।
प्राञ्जो॑भिर्हिन्वा॒नः ।
धेना॑भि॒ᳵ कल्प॑मानः ।
य॒ज्ञस्यायु॑ᳶ प्रति॒रन् ।
भट्टभास्कर-टीका
देवो दानादियुक्तः देवेभ्यो हव्यानि अवाट् वहतु । लुङि हलन्तलक्षणा वृद्धिः । अञ्जोभिः ऋत्विग्भिः प्रहिन्वानः अग्रतः गच्छन् धेनाभिः प्रीणयित्रीभिः दीप्तिभिः धारणादिभिर्वा कल्पमानः संपद्यमानः यज्ञस्य यज्ञवतो यजमानस्य आयुः प्रतिरन् वर्षयन् एवंगुणो जयत्विति ॥
मूलम्
उप॒ प्रेष्य॑ होतः । ह॒व्या दे॒वेभ्यः॑ ॥12॥
विश्वास-प्रस्तुतिः
उप॒ प्रेष्य॑ होतो ह॒व्या दे॒वेभ्यः॑ ॥12॥
मूलम्
उप॒ प्रेष्य॑ होतो ह॒व्या दे॒वेभ्यः॑ ॥12॥
भट्टभास्कर-टीका
2अथोपप्रेष्येति संप्रेषो मैत्रावरुणस्य ॥ हे होतः! उपप्रेष्य मया प्रेषितस्त्वं उपप्रेष्य ज्ञापय हव्या देवेभ्य इति ॥
इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे पशुहौत्रे पञ्चमोऽनुवाकः ॥