पशुहौत्रम्
विश्वास-प्रस्तुतिः
अ॒ग्निर्होता॑ नो अध्व॒रे ।
वा॒जी सन्परि॑णीयते ।
दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ।
मूलम्
अ॒ग्निर्होता॑ नो अध्व॒रे ।
वा॒जी सन्परि॑णीयते ।
दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ।
भट्टभास्कर-टीका
1पर्यग्निकरणे मैत्रावरुणः प्रेषितो ब्रवीति - अग्निर्होता न इति ॥ तिस्रो गायत्र्यः ॥ अयमग्निः होता देवानां आह्वाता अध्वरे निमित्ते यज्ञसिद्धये वाजी अन्नवान् हविर्लक्षणस्यान्नस्य होता सन् शोभनः परिणीयते परितो नीयते । देवः दानादियुक्तः देवेषु मध्ये यज्ञियः यज्ञसम्पादनार्हः ॥
विश्वास-प्रस्तुतिः
परि॑त्रिवि॒ष्ट्य॑ध्व॒रम् ।
यात्य॒ग्नी र॒थीरि॑व ।
आ दे॒वेषु॒ प्रयो॒ दध॑त् ।
मूलम्
परि॑त्रिवि॒ष्ट्य॑ध्व॒रम् ।
यात्य॒ग्नी र॒थीरि॑व ।
आ दे॒वेषु॒ प्रयो॒ दध॑त् ।
भट्टभास्कर-टीका
2परित्रिविष्टीति ॥ त्रिविष्टि त्रिव्याप्ति त्रिबेष्टनं वा परियाति परिगच्छति अयमग्निः अध्वरं अध्वरसाधनं पशुं रथीरिव रथवानिव शीघ्रं गच्छति । ‘छन्दसीवनिपौ’ इति मत्वर्थीय ईकारः । किमर्थं परियाति? देवेषु प्रय अन्नं हविर्लक्षणं आदधत् आदधात्विति एवमर्थं परियाति ॥
विश्वास-प्रस्तुतिः
परि॒ वाज॑पतिᳵ क॒विः ।
अ॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥11॥
मूलम्
परि॒ वाज॑पतिᳵ क॒विः ।
अ॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥11॥
भट्टभास्कर-टीका
3पीरिवाजपतिरिति ॥ व्याख्यातेयं ‘इमामगृभ्णम्’ इत्यत्र ॥
-
परि॒ वाज॑पतिᳵ क॒विर॒ग्निर्ह॒व्या न्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ।- टीका कल्पः—“ अपादाय हिरण्यं परि वाजपतिः कविरिति तिसृभिरभ्रिया मृत्खनं परिलिखति बाह्यां वर्षीयसीम् ” इति। तत्र प्रथमामाह— परि वाजपतिरिति। अयमग्निर्हव्यानि परितोऽक्रमीत्स्वीकृतवान्। कीदृशोऽग्निः, वाजपतिरन्नस्य पालयिता। किं कुर्वन्, दाशुषे हविर्दत्तवते यजमानाय रत्नानि दधद्रमणीयानि धनानि संपादयन्।
इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे पशुहौत्रे चतुर्थोऽनुवाकः ॥