०३ आप्रियः प्रयाजानां याज्याः

पशुहौत्रम्

विश्वास-प्रस्तुतिः

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे ।
दे॒वो दे॒वान् य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् ।
त्वन्दू॒तᳵ क॒विर॑सि॒ प्रचे॑ताः ।

मूलम्

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे ।
दे॒वो दे॒वान् य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् ।
त्वन्दू॒तᳵ क॒विर॑सि॒ प्रचे॑ताः ।

भट्टभास्कर-टीका

1अथाप्रियः प्रयाजानां याज्याः इह पाठात्सर्वार्थाः समिद्धो अद्येत्याद्याः ॥ सर्वास्त्रिष्टुभः । समिद्धः संदीप्तः अद्य अस्मिन्कर्मणि मनुषो मनुष्यस्य यजमानस्य दुरोणे गृहे अग्न्यगारे देवः देवनशीलः त्वं यजसि यज हविषा तर्पय । हे जातवेदः! जातानां वेदितः! तदर्थं आवह च देवान् हे मित्रमहः! मित्राणां सुहृदां पूजयितः! चिकित्वान् जानन् स्वाधिकारम् । कितेर्लिटः क्वसुरादेशः । त्वं खलु देवानां दूतः हितकारी कविः क्रान्तदर्शनः प्रचेताः प्रकृष्टज्ञानश्चासि ॥

विश्वास-प्रस्तुतिः

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॑न् ।
मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् ।
दे॒व॒त्रा च॑ कृणुह्यध्व॒रन्नः॑ ।

मूलम्

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॑न् ।
मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् ।
दे॒व॒त्रा च॑ कृणुह्यध्व॒रन्नः॑ ।

भट्टभास्कर-टीका

2तनूनपात्पथ इति ॥ हे तनूनपात्! अग्ने! पथः मार्गान् कीदृशान् ऋतस्य यज्ञस्य यानान् यज्ञः यैः याति समाप्तिं गच्छति तानि मार्गस्थानि हवींषि मध्वा मधुरसेन समञ्जन् निम्रक्षयन् अभिव्यक्तरसानि कुर्वन् स्वदय स्वादूकुरु । सांहितिकं दीर्घत्वम् । हे सुजिह्व सुज्वाल! मन्मानि मननानि अस्मदभिप्रेतानि धीभिः कर्मभिः आत्मीयैः ऋन्धन् ऋद्धानि कुर्वन् । ऋधेर्व्यत्ययेन श्नम् । यज्ञं वा अस्मदीयं ऋन्धन् फलसमृद्धं कुर्वन् अस्माकं अध्वरं देवत्रा देवेषु कुणुहि कुरु । ‘उतश्च प्रत्ययात् छन्दो वा वचनम्’ इति हेर्लोपाभावः। ‘देवमनुष्य’ इति त्रप्रत्वयः ॥

विश्वास-प्रस्तुतिः

नरा॒शँस॑स्य महि॒मान॑मेषाम् ।
उप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ॥6॥
ते सु॒क्रत॑व॒श्शुच॑यो धिय॒न्धाः ।
स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या ।

मूलम्

नरा॒शँस॑स्य महि॒मान॑मेषाम् ।
उप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ॥6॥
ते सु॒क्रत॑व॒श्शुच॑यो धिय॒न्धाः ।
स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या ।

भट्टभास्कर-टीका

3नराशंसस्येति ॥ नराशंसस्य नरैः शंसनयिस्य अग्नेः यजतस्य यजनीयस्य महिमानं माहात्म्यं उपस्तोषाम उपेत्य स्तुमः । लेट्याडागमः । ‘सिब्बहुलं लेटि’ इति सिप् । एषां ऋत्विग्यजमानानां यज्ञैः यजनप्रकारैः स्तुमः । किमर्थमिति चेत्? एवं स्तुते ते देवाः सुक्रतवः शोभनप्रज्ञानाः शुचयः शुद्धाः धियंधाः कर्मणां ज्ञानानां वा धातारः दातारः । दधातेः छान्दसः खच् । ‘इच एकाचः’ इत्यम्भावः । स्वदन्तु आस्वदन्तां उभयानि आज्यपुरोडाशलक्षणानि । सोमे चेत् सोमात्मकानि हव्या हवींषि । ‘शेश्छन्दसि’ इति लोपः ॥

२८ आजुह्वानऽईड्यो वन्द्यश्चायाह्यग्ने ...{Loading}...

आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श् च+
+आया॑ह्य्
अग्ने॒ वसु॑भिः स॒जोषाः॑।
त्वं दे॒वाना॑म् असि यह्व॒ होता॒
सऽए॑नान् यक्षीषि॒तो यजी॑यान् ॥२८ ॥

२८ आजुह्वानऽईड्यो वन्द्यश्चायाह्यग्ने ...{Loading}...
पदपाठः - दयानन्दादि

आ॒जुह्वा॑न॒ इत्या॒ऽजुह्वा॑नः। ईड्यः॑। वन्द्यः॑। च॒। आ। या॒हि॒। अ॒ग्ने॒। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। त्वम्। दे॒वाना॑म्। अ॒सि॒। य॒ह्व॒। होता॑। सः। ए॒ना॒न्। य॒क्षि॒। इ॒षि॒तः। यजी॑यान्। २८।

महीधरः

म०. हे अग्ने, त्वमायाहि आगच्छ । कीदृशस्त्वम् । आजुह्वानः आह्वयते आह्वयति देवानित्याजुह्वानः । ह्वयतेः शपः श्लुः ‘ह्वः संप्रसारणम्’ (पा० ६ । १ । ३२) इत्यभ्यासस्य संप्रसारणं शानचि । ईड्यः स्तुत्यः। वन्द्यः नमनीयः । वसुभिः देवैः, सजोषाः समानप्रीतिः । किंच हे यह्व महन् , यः त्वं देवानां होता आह्वाता असि च त्वमेनान् यक्षि यज । कीदृशस्त्वम् । इषितः प्रेषितः अभीष्टो वा । यजीयान् यजतीति यष्टा अत्यन्तं यष्टा यजीयान् । ईयसुनि ‘तुरिष्टेमेयःसु’ (पा० ६ । ४ । १५४ ) इति तृचो लोपः ॥ २८॥
एकोनविंशी।

अधिमन्त्रम् (VC)
  • अग्निर्देवता
  • भार्गवो जमदग्निर्ऋषिः
  • स्वराड्बृहती
  • मध्यमः
मूलम् - तैत्तिरीयम्

आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च ।
आया॑ह्यग्ने॒ वसु॑भिस्स॒जोषाः॑ ।
त्वन्दे॒वाना॑मसि यह्व॒ होता॑ ।
स ए॑नान् यक्षीषि॒तो यजी॑यान् ।

भट्टभास्कर-टीका

4आजुह्वान इति ॥ आजुह्वानः देवानामाह्वानकुशलः । लिटः कानचि संप्रसारणम् । ईड्यः स्तुत्यः वन्द्यः नमस्कार्यश्च । ‘ईडवन्द’ इति उभयत्राद्युदात्तत्वम् । हे अग्ने! ईदृशस्त्वं आयाहि अस्मद्यज्ञं आगच्छ वसुभिः देवैः सजोषाः समानप्रीतिः त्वं खलु देवानां होता आह्वाता असि, हे यह्व! प्रभूत! स त्वं एनान् देवान् यक्षि यज । यजेर्लेटि शपो लुक् । इषितः अस्माभिरध्येषितः यजीयान् यष्टृतमः मनुष्ययष्टुः । ‘तुश्छन्दसि’ इति ईयसुन्प्रत्ययः ॥

दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (यह्व) बड़े उत्तम गुणों से युक्त (अग्ने) अग्नि के तुल्य पवित्र विद्वन् ! जो (त्वम्) आप (देवानाम्) विद्वानों के बीच (होता) दानशील (यजीयान्) अति समागम करने हारे (असि) हैं, (इषितः) प्रेरणा किये हुए (एनान्) इन विद्वानों का (यक्षि) सङ्ग कीजिए (सः) सो आप (वसुभिः) निवास के हेतु विद्वानों के साथ (सजोषाः) समान प्रीति निबाहनेवाले (आजुह्वानः) अच्छे प्रकार स्पर्द्धा ईर्ष्या करते हुए (ईड्यः) प्रशंसा (च) तथा (वन्द्यः) नमस्कार के योग्य इन विद्वानों के निकट (आ) (याहि) आया कीजिए ॥२८ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य पवित्रात्मा प्रशंसित विद्वानों के सङ्ग से आप पवित्रात्मा होवें, तो वे धर्मात्मा हुए सर्वत्र सत्कार को प्राप्त होवें ॥२८ ॥

दयानन्द-सरस्वती (सं) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे यह्वाग्ने ! यस्त्वं देवानां होता यजीयानसि। इषितः सन्नेनान् यक्षि, स त्वं वसुभिः सह सजोषा आजुह्वान ईड्यो वन्द्यश्चैतानायाहि ॥२८ ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - यदि मनुष्याः पवित्रात्मनां प्रशसितानां विदुषां सङ्गेन स्वयं पवित्रात्मानो भवेयुस्ते धर्मात्मानः सन्तः सर्वत्र सत्कृताः स्युः ॥२८ ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - जी माणसे पवित्र व प्रशंसित विद्वानांच्या संगतीत राहून पवित्र बनतात त्यांचा धर्मात्मा म्हणून सर्वत्र सत्कार होतो.

विश्वास-प्रस्तुतिः

प्रा॒चीन॑म्ब॒र्हिᳶ प्र॒दिशा॑ पृथि॒व्याः ।
वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
व्यु॑ प्रथते वित॒रव्ँवरी॑यः ।
दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥7॥

मूलम्

प्रा॒चीन॑म्ब॒र्हिᳶ प्र॒दिशा॑ पृथि॒व्याः ।
वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
व्यु॑ प्रथते वित॒रव्ँवरी॑यः ।
दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥7॥

भट्टभास्कर-टीका

5प्राचीनं बर्हिरिति ॥ प्राचीनं प्रागायतस्तरणम् । ‘विभाषाऽञ्चेः’ इति खः । बर्हिः दर्भमयः । पृथिव्याः प्रदिशा प्रथमदिशा प्राच्या परिनिष्पादितम् । यद्वा - प्रदिशा मन्त्रेण ‘आच्छेत्ता’ इत्यनेन पृथिव्या अस्याः वेद्याः वस्तोः छादनार्थम् । ‘छन्दस्युभयथा’ इति तोसुन् । सार्वधातुकत्वादिडभावः । यद्वा - देवेभ्यो अदितये च वस्तोः वासार्थं प्राच्या दिशो वृज्यते आह्रियते । ‘त आवहन्ति कवयः पुरस्तात्’ इति दर्शनात् । ‘अथो यदेतदुक्त्वा यतः कुतश्चाहरति । तत्प्राच्या एव दिशो भवति’ इति ब्राह्मणम् । कदेत्याह - अग्रे अह्नां पूर्वेद्युः पृर्वाह्णे वा तच्च व्युप्रथते । उकारोऽवधारणे । विविधमेव प्रथते वितरं अतिशयेन विप्रथते । ‘अमु च छन्दसि’ इत्यमुपत्ययः । वरीयः उरुतरं देवार्थं अदित्यर्थं च यथा स्योनं सुख भवति तथा वितरं विप्रथत एव ॥

विश्वास-प्रस्तुतिः

व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् ।
पति॑भ्यो॒ न जन॑य॒श्शुम्भ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वाः ।
दे॒वेभ्यो॑ भवथ सुप्राय॒णाः ।

मूलम्

व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् ।
पति॑भ्यो॒ न जन॑य॒श्शुम्भ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वाः ।
दे॒वेभ्यो॑ भवथ सुप्राय॒णाः ।

भट्टभास्कर-टीका

6व्यचस्वतीरिति ॥ विविधगमनाः, गसागमवत्त्वात्, उर्विया उरु क्रियाविशेषणम् । ‘इयाडियाच्’ इतीयाजादेशः । विश्रयन्तां विविधावकाशा भवन्तु । पतिभ्यो जनयो न जाया इव मैथुने शुम्भमानाः शोभमानाः हे देवीः! देवनवत्यः! हे द्वारः! द्वारभूता अग्निविशेषाः! हे बृहतीः! बृहत्यः! हे विश्वमिन्वाः! विश्वस्य प्रीणयित्र्यः! । मीञ् प्रीणने । विश्वव्यापिन्यो वा । इवि व्याप्तौ । ता यूयं देवेभ्यो सुप्रायणाः सुखेन प्रापणीया भवथ भूयास्त ॥

विश्वास-प्रस्तुतिः

आसु॒ष्वय॑न्ती यज॒ते उपा॑के ।
उ॒षासा॒नक्ता॑ सदता॒न्नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे ।
अधि॒ श्रियँ॑ शुक्र॒पिश॒न्दधा॑ने ।

मूलम्

आसु॒ष्वय॑न्ती यज॒ते उपा॑के ।
उ॒षासा॒नक्ता॑ सदता॒न्नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे ।
अधि॒ श्रियँ॑ शुक्र॒पिश॒न्दधा॑ने ।

भट्टभास्कर-टीका

7आसुष्वयन्तीति ॥ सुष्ठु आयन्त्यौ गच्छन्त्यौ अविच्छेदेन वर्तमाने । छान्दसष्ठकारलोपः । इ गतौ, भौवादिकः । यद्वा - शोभनं स्मयमाने । छान्दसं वर्णान्यत्वं, परस्मैपदं च । परस्परमुपजातहर्षस्मिते । यद्वा - स्वयन्त्यौ शोभया वर्धमाने । छान्दसं व्यञ्जनान्यत्यम् । सर्वत्र ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । यजते यजनीये उपाके प्रत्यासन्ने उपक्रान्ते वा जनान्रक्षितुं उषासानक्ता अहोरात्रे दिव्ये दिविभवे योषणे योषिताविव प्रीणयित्र्यौ मिश्रयित्र्यौ वाऽभिमतस्य वृहती महत्यौ सुरुक्मे सुष्ठु दीप्ते श्रियं शुक्रपिशं निर्मलरूपम् । पिश अवयवे, क्विप् । अधिदधाने अधिकं धारयन्त्यौ ईदृश्यौ एते योनौ कारणभावे आनिषदताम् । छान्दसे लङि ऌदित्वादङ् । लेटि वा छान्दसस्सीदादेशः॥

विश्वास-प्रस्तुतिः

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॑ ।
मिमा॑ना य॒ज्ञम्मनु॑षो॒ यज॑ध्यै ॥8॥
प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू ।
प्रा॒चीन॒ञ्ज्योति॑ᳶ प्र॒दिशा॑ दि॒शन्ता॑ ।

मूलम्

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॑ ।
मिमा॑ना य॒ज्ञम्मनु॑षो॒ यज॑ध्यै ॥8॥
प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू ।
प्रा॒चीन॒ञ्ज्योति॑ᳶ प्र॒दिशा॑ दि॒शन्ता॑ ।

भट्टभास्कर-टीका

8दैव्या होतारेति ॥ दैव्यौ देवेषु भवौ । सर्वत्र ‘सुपां सुलुक्’ इत्याकारः । होतारौ प्रथमा प्रधानौ मनुष्यहोतुः । सुवाचा शोभनस्तोत्रौ यज्ञं मिमाना उत्सादयन्तौ मनुषो मनुष्यस्य यजमानस्य यजध्यै यजमानाय यजमानेन यष्टुम् । तुमर्थे अध्यैप्रत्ययः । मनुशब्दपर्यायो मनुश्शब्दः । प्रचोदयन्तौ सर्वान् ऋत्विजः स्वयं च कारू कर्तारौ करणकुशलौ विदथेषु यज्ञेषु । ‘कृपावाजि’ इत्युण्प्रत्ययः । प्राचीनं प्राच्यां दिशि प्रणीतं ज्योतिः अग्निं प्रदिशा प्रकृष्टया दिशा मार्गेण दिशन्ता अतिसृजन्तौ एवगुणकौ मदीयेऽपि यागे भवतामिति शेषः ॥

विश्वास-प्रस्तुतिः

आ नो॑ य॒ज्ञम्भार॑ती॒ तूय॑मेतु ।
इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स्यो॒नम् ।
सर॑स्वती॒ स्वप॑सस्सदन्तु ।

मूलम्

आ नो॑ य॒ज्ञम्भार॑ती॒ तूय॑मेतु ।
इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स्यो॒नम् ।
सर॑स्वती॒ स्वप॑सस्सदन्तु ।

भट्टभास्कर-टीका

9आ नो यज्ञमिति ॥ नः अस्माकं यज्ञं भारती आदित्यप्रभाभिमानिनी देवी तूयं क्षिप्रं एतु आगच्छतु । इडा च अग्निप्रभाभिमानिनी देवी तूयं क्षिप्रं एत्वित्येव । कीदृशी? इह अस्मित् यज्ञे मनुष्वत् मनुष्यवत् चेतयन्ती इदं मयाऽस्योपकर्तव्यमिति निपुणो मनुष्य इव जानाना । सरस्वती च देवी एत्वित्येव । एवं एताः तिस्रो देव्यः इदं स्योनं सुखं बर्हिः आस्तीर्णं आसादयन्तु आसीदन्तु । लोटि शपो लुक् । स्वपसः शोभनकर्माणः । ‘सोर्मनसी’ इत्युत्तरपदान्तोदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री ।
रू॒पैरपिँ॑श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यान् ।
दे॒वन्त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥9॥

मूलम्

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री ।
रू॒पैरपिँ॑श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यान् ।
दे॒वन्त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥9॥

भट्टभास्कर-टीका

10य इमे इति ॥ इमे द्यावापृथिव्यौ जनयित्री जनयित्र्यौ प्रजानां यो देवः रूपैः अपिंशत् विचित्रभूतजातपेशले अकरोत्, भुवनानि च विश्वानि अपिंशदित्येव । तं देवं त्वष्टारं अद्य अस्मिन्नह्नि इह कर्मणि यक्षि यज । लेटि शपो लुक् । हे होतः! त्वं अस्माभिः इषितः अध्येषितः यजीयान् यष्टृतमः मनुष्यहोतुः । यष्टृशब्दात् । ‘तुश्छन्दसि’ इति ईयसुन् प्रत्ययः । विद्वान् स्वाधिकारज्ञः ॥

विश्वास-प्रस्तुतिः

उ॒पाव॑सृज॒त्त्मन्या॑ सम॒ञ्जन् ।
दे॒वाना॒म्पाथ॑ ऋतु॒था ह॒वीँषि॑ ।
वन॒स्पति॑श्शमि॒ता दे॒वो अ॒ग्निः ।
स्वद॑न्तु ह॒व्यम्मधु॑ना घृ॒तेन॑ ।

मूलम्

उ॒पाव॑सृज॒त्त्मन्या॑ सम॒ञ्जन् ।
दे॒वाना॒म्पाथ॑ ऋतु॒था ह॒वीँषि॑ ।
वन॒स्पति॑श्शमि॒ता दे॒वो अ॒ग्निः ।
स्वद॑न्तु ह॒व्यम्मधु॑ना घृ॒तेन॑ ।

भट्टभास्कर-टीका

11उपावसृजदिति ॥ त्मन्या आत्मनैव अन्यनिरपेक्ष एव । ‘सुपां सुलुक्’ इति तृतीयाया यादेशः । समञ्जन् सम्यक् प्रकाशयन् देवानां पाथः अन्नं पशुलक्षणं ऋतुथा ऋतावृतौ वसन्ते वसन्ते हवींषि च अन्यानि पृषदाज्यादीनि समञ्जन् । अयं वनस्पतिः अस्मभ्यं उपावसृजत् उपावसृजतु प्रथतु । छान्दसो लुङ् । किञ्चायं वनस्पतिः शमिता च देवः देव्याः शमिता अग्निश्च देव इदं हव्यं घृतेन मधुना मपुरसेन तद्वत्कृतरसं स्वदन्तु स्वादूकुर्वन्तु ॥

विश्वास-प्रस्तुतिः

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् ।
अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒स्य होतु॑ᳶ प्र॒दिश्यृ॒तस्य॑ वा॒चि ।
स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ॥10॥

मूलम्

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् ।
अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒स्य होतु॑ᳶ प्र॒दिश्यृ॒तस्य॑ वा॒चि ।
स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ॥10॥

भट्टभास्कर-टीका

12सद्यो जात इति ॥ सद्यो जातमात्र एव अयमग्निः यज्ञं व्यमिमीत उत्पादयति । अत एवायमग्निः देवानां पुरोगाः पुरोगामी प्रधानः अभवत् । ‘जनसन’ इति विट्प्रत्ययः, ‘विड्वनोः’ इत्यात्वम् । अस्य अग्नेः देवस्य होतुः ऋतस्य यज्ञस्य प्रदिशि प्राच्यां दिशि स्थितस्याहवनीयस्य । यद्वा - प्रदिशि वाचि प्रादेशप्रमाणे आस्ये स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं हविः देवाः अदन्तु, आज्यादि पिबन्तु, पश्वादिकमश्नन्तु ॥

इति तैत्तिरीये ब्राह्मणे तृतीये षष्ठे पशुहौत्रे तृतीयोऽनुवाकः ॥