०२ आप्रियः प्रयाजानां याज्याः

पशुहौत्रम्

विश्वास-प्रस्तुतिः

होता॑ यक्षद॒ग्निँ स॒मिधा॑ सुष॒मिधा॒ समि॑द्ध॒न्नाभा॑ पृथि॒व्यास्स॑ङ्ग॒थे वा॒मस्य॑ ।
वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्षद॒ग्निँ स॒मिधा॑ सुष॒मिधा॒ समि॑द्ध॒न्नाभा॑ पृथि॒व्यास्स॑ङ्ग॒थे वा॒मस्य॑ ।
वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

1प्रयाजप्रैषान् मैत्रावरुण आह - होता यक्षदग्निमित्यादि ॥ ऋचो यजूंषि व्यामिश्रिताश्च मन्त्राः सौत्रामण्यां गतप्रायाः । होता दैव्यो यक्षत् यजतु अग्निं समिधा समिदाख्यया प्रयाजदेवतया सह सुषमिधा शोभनसमिन्धनेन समिद्धं नाभा नाभौ पृथिव्याः वेद्याः उतरनाभौ, सर्वस्या वा पृथिव्याः नाभिस्थानीयायां वेद्यां, किमर्थम्? सङ्गथे सङ्गमनार्थं वामस्य वननीयस्य धनस्य हविराख्यस्य अस्माकं वा वननीयस्य धनस्य अभिमतस्य प्राप्त्यर्थं दिवोपि वर्ष्मन् उच्छ्रिते तत्र स्थाने । यद्वा - द्युलोकवासिनामुच्छ्रयार्थं इडः अन्नस्य वृष्टेर्वा पदे उत्पत्तिस्थाने अग्निं यजतु, स चाग्निः वेतु पिबतु आज्यस्य अस्य समिद्भिस्सह, होतः! मानुष! त्वमपि यज ॥

विश्वास-प्रस्तुतिः

होता॑ यक्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भ॒म्भुव॑नस्य गो॒पाम् ।
मध्वा॒द्य दे॒वो दे॒वेभ्यो॑ देव॒याना॑न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भ॒म्भुव॑नस्य गो॒पाम् ।
मध्वा॒द्य दे॒वो दे॒वेभ्यो॑ देव॒याना॑न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

2होता यक्षत्तनूनपातं तनूनपान्नामानं प्रयाजदेवतां अदितेः देवमातुः पृथिव्या वा गर्भं भुवनस्य भूतजातस्य गोप्तारं, स चाग्निः देवः मध्वा मधुसदृशेनाज्येन अद्य अस्मिन्नह्नि देवयानान् पथोमार्गान् पानीयानि भक्ष्याणि हवींषि अनक्तु स्वादु करोतु । वेत्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्ष॒न्नरा॒शँस॑न्नृश॒स्त्रन्नॄँᳶ प्र॑णेत्रम् ।
गोभि॑र्व॒पावा॒न्त्स्याद्वी॒रैश्शक्ती॑वा॒न्रथै॑ᳶ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्ष॒न्नरा॒शँस॑न्नृश॒स्त्रन्नॄँᳶ प्र॑णेत्रम् ।
गोभि॑र्व॒पावा॒न्त्स्याद्वी॒रैश्शक्ती॑वा॒न्रथै॑ᳶ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

3होता यक्षत् यजतु नराशंसं नराशंसाख्यं अग्निं नृशस्त्रं नृभिः शस्तं स्तुतं नॄः प्रणेत्रं नृषु प्रकृष्टं नयनं यस्य तादृशं, विभक्तिव्यत्ययेन द्वितीयाया अलुक् । ‘नॄन्वे’ इति रुत्वानुनासिकौ । सचाग्निः अस्मिन् यजमाने गोभिः वपावान् अकृशः स्यात् भवतु । गोसमृद्धिहेतुर्भवत्विति यावत् । वीरैः पुत्रादिभिः शक्तीवान् कर्मवान् स्यात् सर्वार्थसाधनसमर्थो वा । छान्दसं दीर्घत्वम् । ‘छन्दसीरः’ इति वत्वम् । रथैः प्रथमयावा प्रथमयायी रथयायिनां प्रधानः स्यात् । ‘आतो मनिन्’ इति वनिप् । हिरण्यैः चन्द्री आह्लादी स्यात् । हितरमणीयैर्वां कर्मभिः हिरण्यवान् स्यात् । वेत्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाँ आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः ।
उपे॒मय्ँ य॒ज्ञमुपे॒मान्दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाँ आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः ।
उपे॒मय्ँ य॒ज्ञमुपे॒मान्दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

4होता यक्षत् यजतु अग्निमिडः इट्संज्ञकं, स च देवः सर्वैरीडितः देवान् आवक्षत् आवहतु, दूतः हितकारी हव्यवाट् हविषां वोढा, अमूरः अमूढः, मुर्छेरन्त्यलोपः । इमं यज्ञं उपावतु उपेत्य रक्षतु, इमां च देवहूतिं देवाह्वानं उपावतु उपेत्य फलवतीं करोतु । देवहूतिः दासीभारादिर्द्रष्टव्यः । वेत्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्षद्ब॒र्हिस्सु॒ष्टरी॒मोर्ण॑म्म्रदा अ॒स्मिन् य॒ज्ञे वि च॒ प्र च॑ प्रथताँ स्वास॒स्थन्दे॒वेभ्यः॑ ।
एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दि॒त्यास्स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्याज्य॑स्य॒ होत॒र्यज॑ ॥4॥

5होता यक्षत् यजतु अग्निं बर्हिस्संज्ञिकं, सुष्टरीम शोभनस्तरणं, औणादिक इमनिच् दीर्घत्वम् । यद्बा - तृजन्तात् ‘तुश्छन्दसि’ इति इमनिच् । ऊणम्रदाः ऊर्णावत् मृदु, मृद क्षोदे असुनि लिङ्गव्यत्ययः । उपमानपूर्वपदप्रकृतिस्वरत्वम् । तच्च अस्मिन् यज्ञे विप्रथता विविधं प्रथतां प्रप्रथतां प्रकर्षेण प्रथतां च, स्वासस्थं शोभनासनाय पर्याप्तं देवेभ्यो देवार्थं ईमिति अवधारणे । एनत् बर्हिः अद्य अस्मिन्नह्नि वस्वादयः आसदन्तु । छान्दसः शपो लुक् । प्रियमस्त्विन्द्रस्य । वेत्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्ष॒द्दुर॑ ऋ॒ष्वाᳵ क॑व॒ष्यो को॑षधावनी॒रुदाता॑भि॒र्जिह॑ताव्ँ॒वि पक्षो॑भिश्श्रयन्ताम् ।
सु॒प्रा॒य॒णा अ॒स्मिन् य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्ष॒द्दुर॑ ऋ॒ष्वाᳵ क॑व॒ष्यो को॑षधावनी॒रुदाता॑भि॒र्जिह॑ताव्ँ॒वि पक्षो॑भिश्श्रयन्ताम् ।
सु॒प्रा॒य॒णा अ॒स्मिन् य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

6होता यक्षत् यजतु दुरः द्वारसंज्ञिकमग्निं, ऋष्वाः महतीः हिंस्रा वा कवष्यः कवाटवतीः सुषिरव्यापिनीर्वा । अकोषधावनीः याः कोषैः छिद्रैः धावन्ति ताः कोषधावन्यः अतथाविधाः ताः द्वाराः आताभिः दिग्भिः दीप्तिभिर्वा उज्जिहतां उद्गच्छन्तु । महाकाशाः महादीप्तयो वा भवन्त्यः उत्तिष्ठन्तु । पक्षोभिः पार्श्वैः विश्रयन्तां विविधं श्रयन्तां, अस्मिंश्च यज्ञे सुप्रायणाः सुखेन प्रापणीयाः । ‘छन्दसि गत्यर्थेभ्यः’ इति युच् । ऋतावृधः ऋतस्य सत्यस्य व। वर्धयित्र्यः विश्रयन्तां विविधं श्रयन्तां सेवन्ताम् । वियन्त्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄँᳶ पति॑भ्यो॒ योनि॑ङ्कृण्वा॒ने ।
सँ॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदम्ब॒र्हिस्सी॑दताव्ँ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄँᳶ पति॑भ्यो॒ योनि॑ङ्कृण्वा॒ने ।
सँ॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदम्ब॒र्हिस्सी॑दताव्ँ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

7होता यक्षत् यजतु उषासानक्ता अहश्च रात्रिश्च महत्यौ सुपेशसा सुपेशसौ कल्याणरूपे । पूर्ववदाकारः । नॄन् पतिभ्यो नृणां पतिभ्यो देवेभ्यः, षष्ठीस्थाने पर्वूवद्द्वितीया, पूर्ववद्रुत्वानुनासिकौ । योनिं कारणं यागकालं कृण्वाने कुर्वाणे संस्मयमाने संभूय हर्षेण स्मितं कुर्वाणे इन्द्रेण देवैश्च स्मयेन वा हर्षो लक्ष्यते । तथाविधे इदं बर्हिः यज्ञमासीदताम् । वीतामित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा ।
स्वि॑ष्टम॒द्यान्यᳵ क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मय्ँ य॒ज्ञन्दि॒वि दे॒वेषु॑ धत्ताव्ँ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।

8होता यक्षत् यजतु दैव्यौ होतारौ मन्द्रौ तर्पणौ पोतारौ शोधयितारौ कवी क्रान्तदर्शिनौ प्रचेतसा प्रकृष्टज्ञानौ तयोः अन्यः एकः अद्य अस्मिन्कर्मणि अह्नि स्विष्टं शोभनयागसंबन्धं इषा अन्नेन हविषा करत् करोतु । छान्दसे लुङि ‘कृमृदृरुहिभ्यः’ इत्यच् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । अन्यश्च स्वभिगूर्तं शोभनाभिप्रेतफलसंबन्धं करदित्येव । ऊर्जा रसेन सतवसा सबलया सवृद्धिकया वा इमं च यज्ञं दिवि देवेषु धत्तां स्थापयताम् । वीतामित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् ।
दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् ।
दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

9होता यक्षत् तिस्रो देवीरपसामपस्तमाः । उभयत्र मत्वर्थीयो लुप्यते । कर्मवतां मध्ये कर्मवत्तमाः इदं अस्मदीयं अपः कर्म यागं अच्छिद्रं अविगुणं तन्वतां कुर्वतां अद्य अस्मिन्नहनि । इदं देवेभ्यो देवार्थमपः कर्म देवं देवनशीलं अभिमतफलप्रदानसमर्थं च कुर्वतां देवीः देव्यः देवनशीलाः । वियन्त्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑कँ रेतो॒धाव्ँविश्र॑वसय्ँयशो॒धाम् ।
पु॒रु॒रूप॒मका॑मकर्शनँ सु॒पोष॒ᳶ पोषै॒स्स्यात्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑कँ रेतो॒धाव्ँविश्र॑वसय्ँयशो॒धाम् ।
पु॒रु॒रूप॒मका॑मकर्शनँ सु॒पोष॒ᳶ पोषै॒स्स्यात्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

10होता यक्षत् यजतु त्वष्टारं अचिष्टुं अञ्चनेन गमनेन स्तुत्यं शोभनाञ्जनं, छान्दसी रूपसिद्धिः । यद्वा - अचिष्टुं चेष्ठनरहितं स्थिरं अपाकं अबालं प्राज्ञं अतो रेतोधां रेतसः उदकस्य धातारं दातारं वा विश्रवसं विविधान्नं विविधयशसं वा यशोधां यशसो दातारं पुरुरूपं बहुरूपं अकामकर्शनं कामानामनाशयितारं सः अस्मिन्यजमाने पोषैः धनादिसमृद्धिभिः सुपोषः स्यात् तद्धेतुरस्य भवतु, वीरैः पुत्रादिभिश्च सुवीरोऽस्तु । वेत्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्ष॒द्वन॒स्पति॑मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारँ॑ श॒शम॒न्नरः॑ ।
स्वदा॒त्स्वधि॑तिर् ऋतु॒थाद्य दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

मूलम्

होता॑ यक्ष॒द्वन॒स्पति॑मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारँ॑ श॒शम॒न्नरः॑ ।
स्वदा॒त्स्वधि॑तिर् ऋतु॒थाद्य दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।

भट्टभास्कर-टीका

11होता यक्षत् वनस्पतिं वानस्पत्यं यूपाधारं कीदृशं? धियः जोष्टारं बुद्धेः प्रीणयितारं सेवितारं वा, हृदयंगमं उपावस्रक्षत्, उपावसृजतु । लेटि सिच्प्रत्ययः । पश्वर्थं विसृजतु । कः? शशमत् शमयन् शमिता पशोर्यजमानः नरः नेता । शमेः व्यत्ययेन शप श्लुः । किञ्च - स ऋतुथा काले क्रियमाणः अद्य अस्मिन्नह्नि स्वदात् स्वदयतु हव्यानि स्वधितिः स्वधितिमान् स्वधितिसंस्कृतः । यद्वा - स्वस्मिन् आत्मनि निहितः देवार्थं नियुक्तत्वात्, देवेभ्यो हव्यानि स्वादूकरोतु, यथाकृत्वा देवेभ्यो हव्या हव्यानि अवाट् वहतु । वहेश्छान्दसे लुङि वृद्धाविडभावे रूपम् । देवः देवनशीलः । वेत्वित्यादि गतम् ॥

विश्वास-प्रस्तुतिः

होता॑ यक्षद॒ग्निँ स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒स्स्वाहा॑ स्तो॒कानाँ॒ स्वाहा॒ स्वाहा॑कृतीनाँ॒ स्वाहा॑ ह॒व्यसू॑क्तीनाम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान्त्स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ॥5॥

12होता यक्षत् यजतु अग्निं स्वाहाकारदेवताश्च आज्यादीनि यजन्तु । अग्निं च स्विष्टकृतं होत्रार्थं यज्ञस्य स्विष्टकृतत्वाय । हे अग्ने! आज्यस्य वियन्तु पिबन्तु । हे होतः! त्वमपि यज । ‘होता यक्षत् समिधेन्द्रम्’ इत्यत्र सौत्रामण्यां व्याख्यातम् । शिष्टं तत एव द्रष्टव्यम् ॥

इति तैत्तिरीये ब्राह्मणे तृतीये षष्ठे द्वितीयोऽनुवाकः ॥