पशुहौत्रम् - वैश्वदेवं काण्डम् ।
विश्वास-प्रस्तुतिः
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ ।
वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।
यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् ।
यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ।
मूलम्
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ ।
वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।
यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् ।
यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ।
भट्टभास्कर-टीका
1अथ पशुहौत्रमारभ्यते वैश्वदेवं काण्डम् । तत्र ‘यूपायाज्यमानय’ इत्युक्ते अन्वाह - अञ्जन्तीति त्रिष्टुबेषा ॥ हे वनस्पते! यूप! विकारे प्रकृतिशब्दकः । त्वामञ्जन्ति म्रक्षयन्ति स्निग्धत्वाय, अध्वरे अध्वरनिमित्तं अध्वरः सिद्ध्येदिति, देवयन्तः देवानिच्छन्तः मधुना मधुरसेन याज्येन दैव्येन देवानां सम्बन्धिना । उक्तं च - ‘एतद्वै देवानां मधु । यद्धृतम्’ इति । किमर्थमञ्जन्ति - यदूर्ध्वः उच्छ्रितः तिष्ठात् तिष्ठेः स्थास्यसि, लेट्याडागमः । यदिदं प्रयोजनं एतदर्थमञ्जन्ति । यद्वा - हेतौ । द्रविणानि धनानि यागसिद्धिद्वारेण इह कर्मणि अस्माकं धत्तात् दध्याः उत्पादयेः दास्यसि वा, एतदर्थं चाञ्जन्ति । यद्वा - यतश्च हेतोः अस्याः मातुः निर्मात्र्याः श्रेयसां वेदेः उपस्थे पार्श्वदेशे क्षयः निवसेः निवत्स्यसि वा तदनुरूपं चाञ्जन्ति । क्षियतेः लेटि शपो लुकि अडागमः ॥
विश्वास-प्रस्तुतिः
उच्छ्र॑यस्व वनस्पते ।
वर्ष्म॑न्पृथि॒व्या अधि॑ ।
सुमि॑ती मी॒यमा॑नः ।
वर्चो॑धा य॒ज्ञवा॑हसे ।
मूलम्
उच्छ्र॑यस्व वनस्पते ।
वर्ष्म॑न्पृथि॒व्या अधि॑ ।
सुमि॑ती मी॒यमा॑नः ।
वर्चो॑धा य॒ज्ञवा॑हसे ।
भट्टभास्कर-टीका
2यूपायोच्छ्रीयमाणायानुब्रूहीत्युक्तोन्वाह - उच्छ्रयस्वेति ॥ अनुष्टुबेषा । हे वनस्पते! यूप! ऊच्छ्रयस्व उत्तिष्ठ पृथिव्यास्सम्बन्धिनि वर्ष्मन् प्रधानभूते अस्मिन् देशे अधि उपरि सुमिती सुमित्या शोभनेन प्रक्षेपेण । ‘सुपां सुलुक्’ इति पूर्वसवर्णदीर्घत्वं तृतीयायाः । मीयमानः प्रक्षिप्यमाणः स्थाप्यमानः वर्चोधाः दीप्तेर्धाता दाता वा कस्मै? यज्ञवाहसे यज्ञस्य वोढ्रे यजमानाय ॥
विश्वास-प्रस्तुतिः
समि॑द्धस्य॒ श्रय॑माणᳶ पु॒रस्ता॑त् ।
ब्रह्म॑ वन्वा॒नो अ॒जरँ॑ सु॒वीर॑म् ॥1॥
आ॒रे अ॒स्मदम॑ति॒म्बाध॑मानः ।
उच्छ्र॑यस्व मह॒ते सौभ॑गाय ।
मूलम्
समि॑द्धस्य॒ श्रय॑माणᳶ पु॒रस्ता॑त् ।
ब्रह्म॑ वन्वा॒नो अ॒जरँ॑ सु॒वीर॑म् ॥1॥
आ॒रे अ॒स्मदम॑ति॒म्बाध॑मानः ।
उच्छ्र॑यस्व मह॒ते सौभ॑गाय ।
भट्टभास्कर-टीका
3समिद्धस्येति त्रिष्टुप् ॥ समिद्धस्य दीप्तस्य आहवनीयस्य पुरस्तात् पूर्वस्यां दिशि श्रयमाणः तिष्ठन् ब्रह्म परिबृढं इदं कर्म वन्वानः संभजमानः अजरं अविनाशि फलं सुवीरं कल्याणपुत्रादिसमृद्धिहेतुं आरे अन्तिके क्षिप्रमेव अस्मत् अस्मत्सकाशात् अमतिं अज्ञानं बाधमानः नाशयन् उच्छ्रयस्व उत्तिष्ठ महते सौभगाय सुश्रीकत्वाय । ‘सुभगान्मत्रे’ इत्यञ् ॥
विश्वास-प्रस्तुतिः
ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये॑ ।
तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ ।
वा॒घद्भि॑र्वि॒ह्वया॑महे ।
मूलम्
ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये॑ ।
तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ ।
वा॒घद्भि॑र्वि॒ह्वया॑महे ।
भट्टभास्कर-टीका
4ऊर्ध्व ऊषुण इति त्रिष्टुप्प्रकारः ‘संते वायुः’ इत्यत्र व्याख्यातः ॥
-
मन्त्रः
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे । -
टीका अथ द्वितीयागाह— उर्ध्व ऊ ष्विति। हेऽग्ने नोऽस्माकमूतये रक्षणायोर्ध्व ऊ षु तिष्ठोर्ध्व एव कन्नवस्थितो भव। क इव। देवो न सविता, यथा सविता देव ऊर्ध्व एव सन्न-स्मान्रक्षति तद्वत्। यस्त्वमूर्ध्वः स त्वं वाजस्य सनिताऽन्नस्य दाता भव। यद्यस्मा-त्कारणादञ्जिभिमन्त्राभिव्यञ्जकैर्वाधद्भिर्हव्यवाहकैर्ऋत्विग्भिर्विह्वयामहे वयं त्वां विविधमाह्वयामस्तस्मादूर्ध्व एव तिष्ठेति सर्वत्रान्वयः। एतन्मन्त्रद्वयं विनियुङ्क्ते— “वारुणो वा अग्निरुपनद्ध उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीम्यामुत्तिष्ठति सवितृप्रसूत एवास्योर्ध्वां यरुणमेनिमुत्सृजति” (सं. का. ५ प्र. १ अ. ५) इति।
योऽयमग्निरत्र कृष्णाजिंनेनोपनद्धः सोऽयं वारुण उपद्रवकारिणो वरुणस्याधीनः। अतस्तत्परिहाराय सवितृलिङ्गकाभ्यामेताभ्यामृग्भ्यां वद्धमग्निं गृहीत्वोत्तिष्ठेत्। द्वितीयमन्त्रे देवो न सवितेत्युक्तत्वादेते सावित्र्यौ, एताभ्यामुत्थाने सवित्रैवानुज्ञातोऽस्याग्नेर्वर्रुणमेनिं वरुणकृतां वाधां परिहरति।
१७८८ मन्त्रद्वित्वं प्रशंसति— ‘द्वाभ्यां प्रतिष्ठित्यै’ [सं. का. ५ प्र. १ अ. ५] इति।
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वो न॑ᳶ पा॒ह्यँह॑सो॒ नि के॒तुना॑ ।
विश्वँ॒ सम॒त्रिण॑न्दह ।
कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे॑ ।
वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥2॥
मूलम्
ऊ॒र्ध्वो न॑ᳶ पा॒ह्यँह॑सो॒ नि के॒तुना॑ ।
विश्वँ॒ सम॒त्रिण॑न्दह ।
कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे॑ ।
वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥2॥
भट्टभास्कर-टीका
5ऊर्ध्वो नः इति सतः पङ्क्तिः ॥ ऊर्ध्वः उच्छ्रितः त्वं अस्मान् पाहि अंहसः पापात् निपाहि नियतं रक्ष, केतुना प्रज्ञया विश्वं च अत्त्रिणं भक्षणशीलं रक्षःप्रभृति संदह समूहीकृत्य दह । किञ्च - अस्मानपि ऊध्वान् उस्स्छ्रितान् कृधि कुरु । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति धिभावः । ‘बहुलं छन्दसि’ इति शपो लुक् । ऊर्ध्वनित्यस्य अम्परे ‘नच्छव्यप्रशान्’ इति व्यत्ययेन न क्रियते । रथाय रंहणाय गमनाय जीवसे जीवितुं जीवनाय वा । किञ्च - देवेषु नः अस्माकं दुवः परिचर्यां विदाः वेदय । विदेर्लोटि व्यत्ययेन आडागमश्च ॥
विश्वास-प्रस्तुतिः
जा॒तो जा॑यते सुदिन॒त्वे अह्ना॑म् ।
सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।
पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा ।
दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ।
मूलम्
जा॒तो जा॑यते सुदिन॒त्वे अह्ना॑म् ।
सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।
पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा ।
दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ।
भट्टभास्कर-टीका
6जातो जायते इति त्रिष्टुप् ॥ जातः नित्यप्रादुर्भूतः आजायते पुनरप्यस्मदाभिमुख्येन प्रादुर्भवति । अह्नां सुदिनत्वे अह्नां मध्ये शोभने यागार्हे दिवसे । स्वार्थिको भावप्रत्ययः । यद्वा - अह्नां सुदिनत्वाय यागनिर्वृत्त्या शोभनाय पुनराजायते क्व? विदथे यज्ञग्रहे कीदृशे? समर्थे सहारणस्थाने ऋत्विजाम् । अधिकरणे यत् । मर्त्यसहिते वा । तत्र वर्धमानः उच्छ्रयमाणः । यद्वा - सः त्वं मर्ये मर्त्येषु वर्धमानः । स इत्युदात्त उपपन्नो भवति । किञ्च - तमिमं पुनन्ति शोधयन्ति प्रक्षालनादिना अपसः अपस्विनः कर्मिणः ऋत्विजो यजमाना वा धीराः धीमन्तः मनीषा मनीषया प्रज्ञया । ‘सुपां सुलुक्, इत्याकारः । किञ्च - देवया देवेच्छया, क्यजन्तादकारप्रत्ययः । देवगामी वा, यातेः विच् । विप्रः विशेषेण पूरयिता । प्रातेः ‘आतश्चोपसर्गे’ इति कः । वाचं स्तुतिलक्षणां उदियर्ति उद्गमयति स्तुतिं जनयति, स्तुत्यो भवतीति यावत् । ऋसृ गतौ, शपः श्लौ ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम् । यद्वा - त्वामधिकृत्य अयं विप्रः होता वाचं स्तुतिलक्षणां उदियर्ति उच्चारयति त्वां स्तौति, स त्वं उच्छ्रयस्वेति ॥
विश्वास-प्रस्तुतिः
युवा॑ सु॒वासा॒ᳶ परि॑वीत॒ आगा॑त् ।
स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।
तन्धीरा॑सᳵ क॒वय॒ उन्न॑यन्ति ।
स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ।
मूलम्
युवा॑ सु॒वासा॒ᳶ परि॑वीत॒ आगा॑त् ।
स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।
तन्धीरा॑सᳵ क॒वय॒ उन्न॑यन्ति ।
स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ।
भट्टभास्कर-टीका
7यूपाय परिवीयमाणायानुब्रूहीत्युक्तेऽन्वाह - युवा सुवासा इति त्रिष्टुप् ॥ यथा कश्चित् युवा सुवासाः शोभनवासाः एति अग्रतः आगच्छति एवमयं परिवीतः रशनया वेष्टितः आगात् आगतः संपन्न इति यावत् । स एव हि जायमानो दिनेदिने निष्पद्यमानः श्रेयान् प्रशस्यतरः भवति । तं खलु धीरासः धीमन्तः कवयः क्रान्तदर्शिनः उन्नयन्ति ऊर्ध्वं नयन्ति गुणैः उच्छ्रितं स्तुत्यं कुर्वन्ति स्वाधियः स्वाधीयमानाः स्वयमेव ध्यायन्तीति स्वाधियः छान्दसं दीर्घत्वम् । मनसा देवयन्तः देवान् प्राप्तुमिच्छन्तः यजमानाः इति यावन् । तस्मात् वयमपि तथा कुर्म इति ॥
विश्वास-प्रस्तुतिः
पृ॒थु॒पाजा॒ अम॑र्त्यः ।
घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ।
मूलम्
पृ॒थु॒पाजा॒ अम॑र्त्यः ।
घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ।
भट्टभास्कर-टीका
8समिद्ध्यमानवतीं समिद्धवतीं चान्तरेण पृथुवाजिवत्यौ धाय्ये दधाति - पृथुपाजा इति, गायत्र्यौ ॥ पृथुपाजाः विस्तीर्णबलः अमर्त्यः अमरणधर्मा घृतनिर्णिक् घृतरूपः त्वाहुतः सम्यगाहुतः अग्निः अयं यज्ञस्य हव्यवाट् हविषां वोढा भवति यथोक्तगुणः तस्मादेनं तादृशं कुर्म इति ॥
विश्वास-प्रस्तुतिः
तँ स॒बाधो॑ य॒तस्स्रु॑चः ।
इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
आच॑क्रुर॒ग्निमू॒तये॑ ।
मूलम्
तँ स॒बाधो॑ य॒तस्स्रु॑चः ।
इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
आच॑क्रुर॒ग्निमू॒तये॑ ।
भट्टभास्कर-टीका
9तमिति ॥ तमिमं अग्निं सबाधः ऋत्विजः यतस्रुचः सदा व्यापृतस्रुचः इत्था इत्थं अनेन प्रकारेण धिया प्रज्ञया कर्मणा वा यज्ञवन्तः सम्यग्यजमानाः आचक्रुः आकुर्वन्ति ऊतये तर्पणाय आत्मनः रक्षणाय अस्माकं, वयमपि तथा कुर्मः ॥
विश्वास-प्रस्तुतिः
त्वव्ँवरु॑ण उ॒त मि॒त्रो अ॑ग्ने ।
त्वाव्ँव॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥3॥
मूलम्
त्वव्ँवरु॑ण उ॒त मि॒त्रो अ॑ग्ने ।
त्वाव्ँव॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥3॥
भट्टभास्कर-टीका
10परिधानीया - त्वं वरुण इति ॥ इष्टिहौत्रे व्याख्याता । अत्र पाठात् सर्वेषामियं परिधानीया ॥
- टीका 12अथ वसिष्ठराजन्यानां परिधानीया - त्वं वरुण इति त्रिष्टुप् ॥ हे अग्ने! त्वमेव वरुणः मित्रोऽपि त्वमेव तत्कारित्वात्त्वां, वर्धन्ति वर्धयन्ति । ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वात् णिलेपः । ‘अणावकर्मकात्’ इति परस्मैपदम् । मतिभिः प्रज्ञाभिः वसिष्ठाः प्रशस्यतमाः त्वामेव स्तुत्या वर्धयन्ति । स्तुत्या हि स्तोतव्यो वर्धते, मतिमतां हि स्तुतिः समीचीना प्रवर्तते, अतः ते त्वां वर्धयन्ति । तस्मात् त्वामेव स्तुवतां अस्माकं त्वे त्वया हेतुना ‘सुपां सुलुक्’ इति शे आदेशः । वसु वसूनि धनानि । तेनैव जप्तो लुक् । सुषणनानि शोभनदानानि । सुषामादित्वात् षत्वम् । अस्माकं सन्तु । यद्वा - त्वे त्वयि । सप्तम्याश्शे आदेशः । सुष्ठु सननानि यानि हविर्लक्षणानि वसूनि अस्माकं धनानि त्वयि सन्तु । यूपं पातेति व्याख्यातम् । पूजार्थमेकस्मिन्बहुवचनम् ॥
इति तैत्तिरीये ब्राह्मणे तृतीये पशुहौत्रे प्रथमोऽनुवाकः ॥