१३ पत्नीसंयाजे सोमाह्वानम्

विषयः

इष्टिहौत्रम्॥

विश्वास-प्रस्तुतिः

उ᳓पहूतँ रथन्तरँ᳓ सह᳓ पृथिव्या᳓ ।
उ᳓प मा रथन्तरँ᳓ सह᳓ पृथिव्या᳓ ह्वयताम् ।

मूलम्

उप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्या ।
उप॑ मा रथन्त॒रँ स॒ह पृ॑थि॒व्या ह्व॑यताम् ।

भट्टभास्कर-टीका

1अथेडोपाह्वानम् - उपहूतं रथन्तरमित्यादि ॥ रथन्तरादीनां साम्नां प्राथम्यादिना पृथिव्यादिभिः उपहूतवम् । यद्वा - रममाणानां तरं तारकं रथंतरं अन्नं तत्पृथिव्या सह उपहूतमित्यर्थः । शिष्टं स्पष्टम् ॥

विश्वास-प्रस्तुतिः

उ᳓पहूतव्ँ वामदेव्यँ᳓ सहा᳓न्त᳓रिक्षेण ।
उ᳓प मा वामदेव्यँ᳓ सहा᳓न्त᳓रिक्षेण ह्वयताम् ।

मूलम्

उप॑हूतव्ँ वामदे॒व्यँ स॒हान्तरि॑क्षेण ।
उप॑ मा वामदे॒व्यँ स॒हान्तरि॑क्षेण ह्वयताम् ।

विश्वास-प्रस्तुतिः

उ᳓पहूतम् बृह᳓त् सह᳓ दिवा᳓ ।
उ᳓प मा बृह᳓त् सह᳓ दिवा᳓ ह्वयताम् ।

मूलम्

उप॑हूतम्बृ॒हत्स॒ह दि॒वा ।
उप॑ मा बृ॒हत्स॒ह दि॒वा ह्व॑यताम् ।

विश्वास-प्रस्तुतिः

उ᳓पहूतास् सप्त᳓ हो᳓त्राः ।
उ᳓प मा सप्त᳓ हो᳓त्रा ह्वयन्ताम् ।

मूलम्

उप॑हूतास्स॒प्त होत्राः॑ ।
उप॑ मा स॒प्त होत्रा॑ ह्वयन्ताम् ।

विश्वास-प्रस्तुतिः

उ᳓पहूता धेनु᳓स् सह᳓र्षभा ।
उ᳓प मा धेनु᳓स् सह᳓र्षभा ह्वयताम् ॥16॥

मूलम्

उप॑हूता धे॒नुस्स॒हर्ष॑भा ।
उप॑ मा धे॒नुस्स॒हर्ष॑भा ह्वयताम् ॥16॥

विश्वास-प्रस्तुतिः

उ᳓पहूतो भक्ष᳓स् स᳓खा ।
उ᳓प मा भक्ष᳓स् स᳓खा ह्वयताम् ।

मूलम्

उप॑हूतो भ॒क्षस्सखा॑ ।
उप॑ मा भ॒क्षस्सखा॑ ह्वयताम् ।

विश्वास-प्रस्तुतिः

उ᳓पहूताँ᳓ (4) हो᳓ ।

मूलम्

उप॑हू॒ताँ (4) हो ।

विश्वास-प्रस्तुतिः

इ᳓डो᳓पहूता ।
उ᳓पहूते᳓डा ।
उ᳓पो अस्माँ᳓ इ᳓डा ह्वयताम् ।

मूलम्

इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
उपो॑ अ॒स्माँ इडा॑ ह्वयताम् ।

विश्वास-प्रस्तुतिः

इ᳓डो᳓पहूता ।
उ᳓पहूते᳓डा ।
मानवी᳓ घृत᳓पदी मैत्रावरुणी᳓ ।

मूलम्

इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी ।

विश्वास-प्रस्तुतिः

ब्र᳓ह्म देव᳓-कृतम् उ᳓पहूतम् ॥17॥

मूलम्

ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥17॥

विश्वास-प्रस्तुतिः

दै᳓व्या अध्वर्य᳓व उ᳓पहूताः ।
उ᳓पहूता मनुष्याः᳙ ।
य᳓ इमय्ँ᳓ यज्ञ᳓म᳓वान् ।
ये᳓ यज्ञ᳓पत्नीव्ँ व᳓र्धान् ।

मूलम्

दैव्या॑ अध्व॒र्यव॒ उप॑हूताः ।
उप॑हूता मनु॒ष्याः॑ ।
य इ॒मय्ँ य॒ज्ञमवा॑न् ।
ये य॒ज्ञप॑त्नीव्ँ॒वर्धा॑न् ।

विश्वास-प्रस्तुतिः

उ᳓पहूते द्या᳓वापृथिवी᳓ ।
पूर्वजे᳓ ऋता᳓वरी ।
देवी᳓ देव᳓पुत्रे ।

मूलम्

उप॑हूते॒ द्यावा॑पृथि॒वी ।
पू॒र्व॒जे ऋ॒ताव॑री ।
दे॒वी दे॒वपु॑त्रे ।

विश्वास-प्रस्तुतिः

उ᳓पहूतेयय्ँ᳓ य᳓जमाना ।
इन्द्रा᳓णी᳓वाऽविधवा᳓ ।
अ᳓दितिरिव सुपुत्रा᳓ ।

मूलम्

उप॑हूते॒यय्ँयज॑माना ।
इ॒न्द्राणीवा॑ऽविध॒वा ।
अदि॑तिरिव सुपु॒त्रा ।

विश्वास-प्रस्तुतिः

उ᳓त्तरस्यान्देवयज्या᳓यामु᳓पहूता ।
भू᳓यसि हविष्क᳓रण उ᳓पहूता । दिव्ये᳓ धा᳓मन्नु᳓पहूता ।
इद᳓म्मे देवा᳓ हवि᳓र्जुषन्तामि᳓ति त᳓स्मिन्नु᳓पहूता ।

मूलम्

उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूता ।
भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता । दि॒व्ये धाम॒न्नुप॑हूता ।
इ॒दम्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूता ।

विश्वास-प्रस्तुतिः

वि᳓श्वमस्याᳶ प्रिय᳓मु᳓पहूतम् ।
वि᳓श्वस्य प्रिय᳓स्यो᳓पहूतस्यो᳓पहूता ॥30॥

मूलम्

विश्व॑मस्याᳶ प्रि॒यमुप॑हूतम् ।
विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूता ॥30॥

भट्टभास्कर-टीका

1अथ पत्नीसंयाजे सोमाह्वानम् - उपहूतं रथन्तरमित्यादि ॥ पूर्वमेव व्याख्याता । यज्ञपत्नीमित्यादि स्त्रीलिङ्गतो विशेषः । गतमन्यत् ॥

इति श्री भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये तृतीयेऽष्टके पञ्चमप्रश्ने इष्टिहौत्रं नाम त्रयोदशोऽनुवाकः ॥

प्रश्नश्च समाप्तः ॥

सायण-टीका

(अत्र द्रष्टव्यम्।)