११ शंयुवाकः

भास्करोक्त-विनियोगः

1शंयुवाकाय प्रेषितो ब्रवीति - तच्छंयोरित्यादि ॥

विश्वास-प्रस्तुतिः

+++(फलं)+++ त᳓च् छंयो᳓र् +++(बार्हस्पत्याद्)+++ आ᳓वृणीमहे -
+++(देवान् प्रति)+++ गातुं᳓ +++(=गमनं [हविषाम्])+++ - यज्ञा᳓य,
गातुं᳓+++(=गमनम्)+++ यज्ञ᳓पतये ।

मूलम्

तच्छय्ँ॒योरावृ॑णीमहे ।
गा॒तुय्ँ य॒ज्ञाय॑ ।
गा॒तुय्ँ य॒ज्ञप॑तये ।

भट्टभास्कर-टीका

तत् तादृशं प्रशस्तफलं शंयोः बार्हस्पत्य्-आदौ [देः] आवृणीमहे प्रार्थयामहे, किं पुनस्तत्? गातुं गमनं देवान्प्रति यज्ञाय यज्ञस्य, यज्ञपतये यजमानस्य च गातुं देवस्थानं प्रति गमनं वृणीमहे ।

विश्वास-प्रस्तुतिः

दै᳓वी स्वस्ति᳓रस्तु नः ।
स्वस्ति᳓र् मा᳓नुषेभ्यः ।

मूलम्

दैवी॑ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।

भट्टभास्कर-टीका

अत्रैवं संपत्स्यमाना नः अस्माकं दैवी स्वस्तिः देवनिमित्तं विघ्नोपशमनमस्माकमस्तु । मानुषेभ्यश्च होतृभ्यः या स्वस्तिः सा चास्माकमस्तु ।

विश्वास-प्रस्तुतिः

ऊर्ध्व᳓ञ् जिगातु+++(=गच्छतु)+++ भेषज᳓म् ।
श᳓न् नो अस्तु द्विप᳓दे ।
श᳓ञ् च᳓तुष्पदे ॥25॥

मूलम्

ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे॑ ।
शञ्चतु॑ष्पदे ॥25॥

भट्टभास्कर-टीका

किंच - ऊर्ध्वं जिगातु उद्गच्छतु भेषजं सर्वानिष्टशमनमेतत्कर्म सर्वोच्छ्रितमस्तु । किंच अस्माकं सम्बन्धिने द्विपदे मनुष्यादये चतुष्पदे च गवादये शं सुखं अस्तु । द्विपदोऽन्तोदात्तत्वमुक्तम् ॥

इत्येकादशोऽनुवाकः ॥