विश्वास-प्रस्तुतिः
दे॒वम्ब॒र्हिः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वो नरा॒शँसः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
मूलम्
दे॒वम्ब॒र्हिः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वो नरा॒शँसः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
भट्टभास्कर-टीका
1देवं बर्हिरिति ॥ सौत्रामण्यां व्याखातः । एवमुत्तरौ द्रष्टव्यौ ।
-
दे॒वम्ब॒र्हिरिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् ।
गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् ।तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।- (SB) 1एकोनविंशे वपापुरोडाशहविषां याज्यानुवाक्या उक्ताः । अथ विंशेऽनूयाजानां मैत्रावरुणप्रैषा उच्यन्ते । तत्र प्रथममन्त्रमाह - बर्हिश्शब्देन प्रथमानूयाजदेवस्वरूपमुच्यते । तच्च देवं द्योतनशीलम् । योऽयमिन्द्रो वयोधा आयुष्याधारकः तं देवमिन्द्रं पूर्वोक्तदेवनशीलं बर्हिस्स्वरूपमवर्धयद्वर्धितवत् । तच्च गायत्र्याख्येन छन्दसा सहितं सत् इन्द्रियं चक्षुरादिपाटवं तेजः शरीरकान्तिः वय आयुष्यं च दधत् संपादयति । वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
-
दे॒वो नरा॒शँसो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् ।
वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥93॥- 8अथाष्टममन्त्रमाह - नराशंसाख्यो यो देवोऽस्ति स देवो द्योतमानं वयोधसमिन्द्रं देवं वर्धितवान् । स च विराजा छन्दसा युक्त इन्द्रियं रेतो वयांसीन्द्रे संपादयति ॥
विश्वास-प्रस्तुतिः
सु॒द्रवि॑णा म॒न्द्रᳵ क॒विः ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
स॒त्यम॑न्माय॒जी होता॑ ।
होतु॑र्होतु॒राय॑जीयान् ।
अग्ने॒ यान्दे॒वानया॑ट् ।
मूलम्
सु॒द्रवि॑णा म॒न्द्रᳵ क॒विः ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
स॒त्यम॑न्माय॒जी होता॑ ।
होतु॑र्होतु॒राय॑जीयान् ।
अग्ने॒ यान्दे॒वानया॑ट् ।
भट्टभास्कर-टीका
सुद्रविणाः शोभनधनः सकारान्तं शब्दान्तरमिदम् । मन्द्रः मन्दनशीलः मन्दयिता वा सर्वेषां, कविः क्रान्तदशनः, सत्यमन्मा सत्यमनसः, अमोघमतिः, आयजी मर्यादया यथाविधानं यष्टा, होतुर्होतुः सर्वस्मात् अन्यस्माद्धोतुः आयजीयान् अतिशयेनायष्टा, ‘तुश्छदसि’ इति आयष्टृशब्दात् ईयसुन् । हे अग्ने! ईदृशस्त्वं यान् दवान् अयाट् अयाक्षीः । पूर्वदिडभावो वृद्धिश्च । यानित्यस्य रुत्वानुनासिकावुक्तौ ।
मूलम्
याँ अपि॑प्रेः ।
ये ते॑ हो॒त्रे अम॑त्सत ।
ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒माम् ।
दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।
विश्वास-प्रस्तुतिः
याँ अपि॑प्रे॒र् ये ते॑ हो॒त्रे अम॑त्सत॒ ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान् दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।
मूलम्
याँ अपि॑प्रे॒र् ये ते॑ हो॒त्रे अम॑त्सत॒ ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान् दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।
भट्टभास्कर-टीका
यांश्च देवान् अपिप्रेः अप्रीणयः । प्रीणतेर्लङि ‘बहुलं छन्दसि’ इति शपः श्लुः । ये च ते तव होत्रे होतृकृत्ये याजमाने अमत्सत अमाद्यन् तेषु देवेषु दिवि स्थितेषु तां त्वदीयां ससजुषीं हवींषि देवेभ्यो दत्तवतीम् । सनेतेः लिटः क्वसुरादेशः । होत्रां होतृकृत्यां देवंगमां देवानेव गच्छन्तीम् । ‘गमश्च ’ इति खच् । तां इमां एरय आभिमुख्येन प्रापय, इमं च यज्ञं एरय देवानां भोगाय कुरु ।
विश्वास-प्रस्तुतिः
स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ ।
मूलम्
स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ ।
भट्टभास्कर-टीका
हे अग्ने! स्विष्टकृत् शोभनयजनकारी च होता अभूः अभवः छान्दसो लुङ् । ‘चवायोगे प्रथमा’ इति निघाताभावे आट उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥19॥
मूलम्
व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥19॥
भट्टभास्कर-टीका
इदं चास्तु - वसुवने वसुनो वननाय नमसः अन्नस्य वाकाय वक्तव्यत्वाय दानभोगादौ वश्यत्वाय हे अग्ने! इदमाज्यं वीहि पिब । वनोतेः क्किपि तादर्थ्ये चतुर्थी । दधातेः भावे अचो यत् । चतुर्थ्यर्थे ‘बहुळं छन्दसि’ इति षष्ठी । वचेर्घञ्, निमित्तात्सप्तमी ॥
इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे नवमोऽनुवाकः ॥