विषयः
इष्टिहौत्रम्॥
विश्वास-प्रस्तुतिः
उ᳓पहूतँ रथन्तरँ᳓ सह᳓ पृथिव्या᳓ ।
उ᳓प मा रथन्तरँ᳓ सह᳓ पृथिव्या᳓ ह्वयताम् ।
मूलम्
उप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्या ।
उप॑ मा रथन्त॒रँ स॒ह पृ॑थि॒व्या ह्व॑यताम् ।
भट्टभास्कर-टीका
1अथेडोपाह्वानम् - उपहूतं रथन्तरमित्यादि ॥ रथन्तरादीनां साम्नां प्राथम्यादिना पृथिव्यादिभिः उपहूतवम् । यद्वा - रममाणानां तरं तारकं रथंतरं अन्नं तत्पृथिव्या सह उपहूतमित्यर्थः । शिष्टं स्पष्टम् ॥
विश्वास-प्रस्तुतिः
उ᳓पहूतव्ँ वामदेव्यँ᳓ सहा᳓न्त᳓रिक्षेण ।
उ᳓प मा वामदेव्यँ᳓ सहा᳓न्त᳓रिक्षेण ह्वयताम् ।
मूलम्
उप॑हूतव्ँ वामदे॒व्यँ स॒हान्तरि॑क्षेण ।
उप॑ मा वामदे॒व्यँ स॒हान्तरि॑क्षेण ह्वयताम् ।
विश्वास-प्रस्तुतिः
उ᳓पहूतम् बृह᳓त् सह᳓ दिवा᳓ ।
उ᳓प मा बृह᳓त् सह᳓ दिवा᳓ ह्वयताम् ।
मूलम्
उप॑हूतम्बृ॒हत्स॒ह दि॒वा ।
उप॑ मा बृ॒हत्स॒ह दि॒वा ह्व॑यताम् ।
विश्वास-प्रस्तुतिः
उ᳓पहूतास् सप्त᳓ हो᳓त्राः ।
उ᳓प मा सप्त᳓ हो᳓त्रा ह्वयन्ताम् ।
मूलम्
उप॑हूतास्स॒प्त होत्राः॑ ।
उप॑ मा स॒प्त होत्रा॑ ह्वयन्ताम् ।
विश्वास-प्रस्तुतिः
उ᳓पहूता धेनु᳓स् सह᳓र्षभा ।
उ᳓प मा धेनु᳓स् सह᳓र्षभा ह्वयताम् ॥16॥
मूलम्
उप॑हूता धे॒नुस्स॒हर्ष॑भा ।
उप॑ मा धे॒नुस्स॒हर्ष॑भा ह्वयताम् ॥16॥
विश्वास-प्रस्तुतिः
उ᳓पहूतो भक्ष᳓स् स᳓खा ।
उ᳓प मा भक्ष᳓स् स᳓खा ह्वयताम् ।
मूलम्
उप॑हूतो भ॒क्षस्सखा॑ ।
उप॑ मा भ॒क्षस्सखा॑ ह्वयताम् ।
विश्वास-प्रस्तुतिः
उ᳓पहूताँ᳓ (4) हो᳓ ।
मूलम्
उप॑हू॒ताँ (4) हो ।
विश्वास-प्रस्तुतिः
इ᳓डो᳓पहूता ।
उ᳓पहूते᳓डा ।
उ᳓पो अस्माँ᳓ इ᳓डा ह्वयताम् ।
मूलम्
इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
उपो॑ अ॒स्माँ इडा॑ ह्वयताम् ।
विश्वास-प्रस्तुतिः
इ᳓डो᳓पहूता ।
उ᳓पहूते᳓डा ।
मानवी᳓ घृत᳓पदी मैत्रावरुणी᳓ ।
मूलम्
इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी ।
विश्वास-प्रस्तुतिः
ब्र᳓ह्म देव᳓-कृतम् उ᳓पहूतम् ॥17॥
मूलम्
ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥17॥
विश्वास-प्रस्तुतिः
दै᳓व्या अध्वर्य᳓व उ᳓पहूताः ।
उ᳓पहूता मनुष्याः᳙ ।
य᳓ इमय्ँ᳓ यज्ञ᳓म् अ᳓वान् ।
ये᳓ यज्ञ᳓पतिव्ँ व᳓र्धान् ।
मूलम्
दैव्या॑ अध्व॒र्यव॒ उप॑हूताः ।
उप॑हूता मनु॒ष्याः॑ ।
य इ॒मय्ँ य॒ज्ञमवा॑न् ।
ये य॒ज्ञप॑तिव्ँ॒वर्धा॑न् ।
विश्वास-प्रस्तुतिः
उ᳓पहूते द्या᳓वापृथिवी᳓ ।
पूर्वजे᳓ ऋता᳓वरी ।
देवी᳓ देव᳓पुत्रे ।
मूलम्
उप॑हूते॒ द्यावा॑पृथि॒वी ।
पू॒र्व॒जे ऋ॒ताव॑री ।
दे॒वी दे॒वपु॑त्रे ।
विश्वास-प्रस्तुतिः
उ᳓पहूतो ऽयय्ँ᳓ य᳓जमानः ।
उ᳓त्तरस्यान् देवयज्या᳓याम् उ᳓पहूतः ।
भू᳓यसि हविष्-क᳓रण उ᳓पहूतः ।
दिव्ये᳓ धा᳓मन्न् उ᳓पहूतः ।
मूलम्
उप॑हूतो॒ऽयय्ँयज॑मानः ।
उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतः ।
भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः ।
दि॒व्ये धाम॒न्नुप॑हूतः ।
विश्वास-प्रस्तुतिः
इद᳓म् मे देवा᳓ हवि᳓र् जुषन्ताम्
इ᳓ति त᳓स्मिन्न् उ᳓पहूतः ।
मूलम्
इ॒दम्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः ।
विश्वास-प्रस्तुतिः
वि᳓श्वमस्य प्रिय᳓म् उ᳓पहूतम् ।
वि᳓श्वस्य प्रिय᳓स्यो᳓पहूतस्यो᳓पहूतः ॥18॥
मूलम्
विश्व॑मस्य प्रि॒यमुप॑हूतम् ।
विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ॥18॥
भट्टभास्कर-टीका
इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे अष्टमोऽनुवाकः ॥