विश्वास-प्रस्तुतिः
समि᳓धो अग्न आ᳓ज्यस्य वियन्तु ।
मूलम्
स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु ।
विश्वास-प्रस्तुतिः
त᳓नून᳓पाद् अग्न आ᳓ज्यस्य वेतु ।
मूलम्
तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु ।
विश्वास-प्रस्तुतिः
इडो᳓ अग्न आ᳓ज्यस्य वियन्तु ।
मूलम्
इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु ।
विश्वास-प्रस्तुतिः
बर्हि᳓र् अग्न आ᳓ज्यस्य वेतु ।
मूलम्
ब॒र्हिर॑ग्न॒ आज्य॑स्य वेतु ।
विश्वास-प्रस्तुतिः
स्वा᳓हा ऽग्नि᳓म् ।
स्वा᳓हा सो᳓मम् ।
मूलम्
स्वाहा॒ऽग्निम् ।
स्वाहा॒ सोम॑म् ।
विश्वास-प्रस्तुतिः
स्वा᳓हाऽग्नि᳓म् ।
स्वा᳓हा प्रजा᳓पतिम् ।
मूलम्
स्वाहा॒ऽग्निम् ।
स्वाहा॑ प्र॒जाप॑तिम् ।
विश्वास-प्रस्तुतिः
स्वा᳓हाऽग्नी᳓षो᳓मौ ।
स्वा᳓हेन्द्राग्नी᳓ ।
मूलम्
स्वाहा॒ऽग्नीषोमौ॑ ।
स्वाहे॑न्द्रा॒ग्नी ।
विश्वास-प्रस्तुतिः
स्वा᳓हे᳓न्द्रम् ।
स्वा᳓हा महेन्द्र᳓म् ।
मूलम्
स्वाहेन्द्र॑म् ।
स्वाहा॑ महे॒न्द्रम् ।
विश्वास-प्रस्तुतिः
स्वा᳓हा देवाँ᳓ आज्यपा᳓न् ।
स्वा᳓हाऽग्निँ᳓ होत्रा᳓ज्जुषाणाः᳓ ।
मूलम्
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ।
स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णाः ।
विश्वास-प्रस्तुतिः
अ᳓ग्न आ᳓ज्यस्य वियन्तु ॥8॥
मूलम्
अग्न॒ आज्य॑स्य वियन्तु ॥8॥
भट्टभास्कर-टीका
1प्रयाजे स्वाहाऽग्निमित्यादि ॥ अग्न्यादीन् जुषाणाः स्वाहाकरणदेवताः आज्यस्य वियन्तु । हे अग्ने! इति । होत्रदिति । चतुर्थ्यर्थे पञ्चमी । सुष्ठु हूयते यया या च स्वयमेवेत्थं कर्तव्यमित्याह, सा पञ्चमप्रयाजदेवता । तस्या अग्न्यादिभेदेन बहुत्वमुपचर्यते । गतमन्यत् ॥
इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे पञ्चमोऽनुवाकः ॥
सायण-टीका
“ समिधो अग्न आज्यस्य इत्यनुवाकः समिधो यजति " इत्यत्र व्याख्यातः ।
(अत्र द्रष्टव्यम्।)