सामिधेनीरनूच्य प्रवरमाह
विश्वास-प्रस्तुतिः
अग्ने॑ म॒हाँ अ॑सि ब्राह्मण भारत ।
मूलम्
अग्ने॑ म॒हाँ अ॑सि ब्राह्मण भारत ।
भट्टभास्कर-टीका
1सामिधेनीरनूच्य प्रवरमाह - अग्ने महान् असीति ॥ हे अग्ने! स्वभावत एव त्वं महानसि । रुत्वानुनासिकावुक्तौ । अयं च अपरो महत्त्वहेतुः अस्तीत्याह - हे ब्राह्मण! ब्राह्मणानां संबन्धिन्! तैराराधितत्वात्, जात्या वा ब्राह्मणोसि । किञ्च - हे भारत! देवभरणपराः यजमानाः भरताः तेषा संबन्धिन्! स्वयं च देवेभ्यो हव्यस्य भर्तः! ।
सायण-टीका
अथ नवमे प्रवर-मन्त्रस्य निगदस्य स्रुग्-आदापन-निगदस्य च व्याख्यानं प्रवर्तते। ते च निगदादयो मन्त्र-काण्डे समाम्नाताः।
कल्पः — “अथ निवित्-पदान्य् अन्वाह देवेद्धो मन्विद्ध इति सप्तमे स्वनिति अथ चतसृषु” इति।
पाठस् तु—
अग्ने महा ँ असि ब्राह्मण भारत।
असाव् असौ।
देवेद्धो मन्विद्धः।
ऋषि-ष्टुतो विप्रानुमदितः।
कवि-शस्तो ब्रह्म-संशितो घृताहवनः।
प्रणीर् यज्ञानाम्।
रथीर् अध्वराणाम्।
अतूर्तो होता।
तूर्णिर् हव्यवाट्।
आस्पात्रं जुहूर् देवानाम्।
चमसो देव-पानः।
अरा ँ इवाग्ने नेमिर् देवान् त्वं परिभूर् असि।
आ वह देवान् यजमानाय। (ब्रा. का. ३ प्र. ५ अ. ३)
इति।
अत्राग्ने “महान्” इत्य् आरभ्य “असाव् असौ” इत्य् अन्तः प्रवर-मन्त्रः। अवशिष्टा निविन्-मन्त्राः। तेषाम् अर्थं ब्राह्मण-व्याख्यान-मुखेनैव स्पष्टीकरिष्यामः।
विश्वास-प्रस्तुतिः
असा॒वसौ॑ ।
मूलम्
असा॒वसौ॑ ।
भट्टभास्कर-टीका
अथ यजमानविशेषसम्बन्धेनाग्नेः महानुभावत्वमाह - असावसौ पूर्वस्याविद्यमानत्वात् द्वयोरप्यामन्त्रिताद्युदात्तत्वम् । प्रवराम्नाताः यजमानगोत्रर्षयः सामान्येन निर्दिश्यन्ते । नेदं द्विर्वचनम्, तेन द्वितीयस्यानुदात्तत्वाभावः । यथाप्रवरं मन्त्रविशेषा निर्देष्टव्याः । यथा - भार्गव च्यावनाप्नवानौर्व जामदग्न्य इति । भृगूणाममुतोऽर्वाञ्चः प्रतीयन्ते । तत्र भार्गवादिशब्दैः भृग्वादिसंबन्धितया तैराराधितोऽग्निरुच्यते ॥
विश्वास-प्रस्तुतिः
दे॒वेद्धो॒ मन्वि॑द्धः ।
मूलम्
दे॒वेद्धो॒ मन्वि॑द्धः ।
भट्टभास्कर-टीका
2प्रवरमुक्त्वा निविदोऽन्वाह - देवेद्धः देवैः ऋत्विग्भिः अमरैर्वा इन्धितः । सर्वत्र ‘तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वम् । मन्विद्धः मनुनाऽपि देवार्थं प्रागेवेद्धः ।
सायण-टीका
(अत्र द्रष्टव्यम्।)
विश्वास-प्रस्तुतिः
ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः ।
मूलम्
ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः ।
भट्टभास्कर-टीका
ऋषिष्टुतः ऋषिभिः दर्शनवद्भिरपि भृग्वादिभिः स्तुतः । विप्रानुमदितः विप्रैः मेधावद्भिः श्रुतवद्भिः अनुमदितः अनुमोदितः ।
विश्वास-प्रस्तुतिः
क॒वि॒श॒स्तो ब्रह्म॑सँशितो घृ॒ताह॑वनः ।
मूलम्
क॒वि॒श॒स्तो ब्रह्म॑सँशितो घृ॒ताह॑वनः ।
भट्टभास्कर-टीका
कविशस्तः कविषु क्रान्तदर्शनेषु शस्तः । ब्रह्मसंशितः ब्रह्मणा ऋगादिना मन्त्रेण निशितीकृतः घृताहवनः घृतनिर्वर्तिताहुतिः, प्रियतमत्वात्तस्याः ।
विश्वास-प्रस्तुतिः
प्र॒णीर्य॒ज्ञाना॑म् ।
मूलम्
प्र॒णीर्य॒ज्ञाना॑म् ।
भट्टभास्कर-टीका
प्रणीः प्रकृष्टो नेता यज्ञानाम् ।
विश्वास-प्रस्तुतिः
र॒थीर॑ध्व॒राणा॑म् ।
मूलम्
र॒थीर॑ध्व॒राणा॑म् ।
भट्टभास्कर-टीका
रथीः रंहयिता अध्वराणां देवेषु । ‘इयाडियाजीकाराणामुपसंख्यानम्’ इतीकारः । ताद्धर्म्यात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
अ॒तूर्तो॒ होता॑ ।
मूलम्
अ॒तूर्तो॒ होता॑ ।
भट्टभास्कर-टीका
अतूर्तः केनचिदपि हिंसितुमशक्यः होता देवानामाह्वाता । तुर्वी हिंसायाम् ।
विश्वास-प्रस्तुतिः
तूर्णि॑र्हव्य॒वाट् ।
मूलम्
तूर्णि॑र्हव्य॒वाट् ।
भट्टभास्कर-टीका
त्रूणिः सर्वदुरितोत्तीर्णः दुरितेभ्यस्तारयिता वा । हव्यवाट् हव्यानां वोढा देवेषु । ‘वहश्च’ इति ण्विः ।
विश्वास-प्रस्तुतिः
आस्पात्र॑ञ्जु॒हूर्दे॒वाना॑म् ॥5॥
मूलम्
आस्पात्र॑ञ्जु॒हूर्दे॒वाना॑म् ॥5॥
भट्टभास्कर-टीका
आस्पात्रं अयोमयं पात्रं अयसा निर्मिता जुहूरिव देवानां प्रियत्वात् । देवेषु च प्रोक्षणसाधनत्वात्, यथा जुह्वाग्नौ प्रक्षिप्यते एवमग्निना देवेषु हविः प्रक्षिप्यते । अयसो लोपश्छान्दसः । अयस्मयादित्वाद्भत्वम्, वनस्पत्यादित्वात् आद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
च॒म॒सो दे॑व॒पानः॑ ।
मूलम्
च॒म॒सो दे॑व॒पानः॑ ।
भट्टभास्कर-टीका
चमसः पानपात्रं, चमु अदने । देवपानः देवाः पिबन्ति येन देवपानार्हः ।
विश्वास-प्रस्तुतिः
अ॒राँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॑सि ।
मूलम्
अ॒राँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॑सि ।
भट्टभास्कर-टीका
अरानित्यादि । हे अग्ने! अरान् नेमिरिव देवान् परिभूः परितो भावयिता त्वमसि । ‘अभित परितः’ इति द्वितीया । गतार्थत्वात्तसेरप्रयोगः ।
विश्वास-प्रस्तुतिः
आ व॑ह दे॒वान् यज॑मानाय ।
मूलम्
आ व॑ह दे॒वान् यज॑मानाय ।
भट्टभास्कर-टीका
स त्वमावह सन्निधापय देवान् यजमानाय यजमानार्थं यागनिर्वृत्त्यर्थम् । यथोक्तगुणकस्त्वमेव तत्र प्रभुरिति ॥
विश्वास-प्रस्तुतिः
अ॒ग्निम॑ग्न॒ आव॑ह ।
सोम॒माव॑ह ।
मूलम्
अ॒ग्निम॑ग्न॒ आव॑ह ।
सोम॒माव॑ह ।
भट्टभास्कर-टीका
3निविदोऽनूच्य देवता आवाहयति या यक्ष्यमाणा भवन्ति - अग्निमित्यादि ॥ आवाह्यत्वेनावोढृत्वेन चोभाभ्यां धर्माभ्यां एकोऽग्रिः स्मर्यते । तत्र यष्टव्यात्मा आवाह्यः । भोक्तृत्वेन स्थितः आवोढा । तत्राग्निस्सोमश्चाज्यभागयोः ।
विश्वास-प्रस्तुतिः
अ॒ग्निमाव॑ह ।
मूलम्
अ॒ग्निमाव॑ह ।
भट्टभास्कर-टीका
अथाग्निराग्नेयस्याष्टाकपालस्य ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒माव॑ह ।
मूलम्
प्र॒जाप॑ति॒माव॑ह ।
भट्टभास्कर-टीका
प्रजापतिरुपांशुयाजस्य ।
विश्वास-प्रस्तुतिः
अ॒ग्नीषोमा॒वाव॑ह ।
मूलम्
अ॒ग्नीषोमा॒वाव॑ह ।
भट्टभास्कर-टीका
अग्नीषोमावग्नीषोमीयस्य एकादशकपालस्य ।
विश्वास-प्रस्तुतिः
इ॒न्द्रा॒ग्नी आव॑ह ।
मूलम्
इ॒न्द्रा॒ग्नी आव॑ह ।
भट्टभास्कर-टीका
इन्द्राग्नी ऐन्द्राग्नस्य एकादशकपालस्य अमावास्यायां सन्नयतः ।
विश्वास-प्रस्तुतिः
इन्द्र॒माव॑ह ।
म॒हे॒न्द्रमाव॑ह ।
मूलम्
इन्द्र॒माव॑ह ।
म॒हे॒न्द्रमाव॑ह ।
भट्टभास्कर-टीका
इन्द्रमहेन्द्रौ सान्नाय्यस्य ।
विश्वास-प्रस्तुतिः
दे॒वाँ आ॑ज्य॒पाँ आव॑ह ।
मूलम्
दे॒वाँ आ॑ज्य॒पाँ आव॑ह ।
भट्टभास्कर-टीका
देवाः आज्यपाः प्रयाजादीनाम् ।
विश्वास-प्रस्तुतिः
अ॒ग्निँ हो॒त्रायाव॑ह ।
मूलम्
अ॒ग्निँ हो॒त्रायाव॑ह ।
भट्टभास्कर-टीका
अथाग्निः स्विष्टकृतं होत्राय यज्ञाय यज्ञत्वाय आवह । होतव्याय वा हविषे, तस्य स्विष्टत्वाय ।
विश्वास-प्रस्तुतिः
स्वम्म॑हि॒मान॒माव॑ह ।
मूलम्
स्वम्म॑हि॒मान॒माव॑ह ।
भट्टभास्कर-टीका
तदर्थं स्वं आत्मीय महिमानं महत्त्वं आवह ।
विश्वास-प्रस्तुतिः
आ चा॑ग्ने दे॒वान् वह॑ ।
मूलम्
आ चा॑ग्ने दे॒वान् वह॑ ।
भट्टभास्कर-टीका
हे अग्ने! इत्थं देवान्यष्टव्यानावह ।
विश्वास-प्रस्तुतिः
सु॒यजा॑ च यज जातवेदः ॥6॥
मूलम्
सु॒यजा॑ च यज जातवेदः ॥6॥
भट्टभास्कर-टीका
तत आहूतान् सुयजा शोभनयजनेन यागेन यज च हे जातवेदः! जातप्रमाज्ञान! जानासि हि तथा कर्तुम् । ‘चवायोगे प्रथमा’ इति प्रथमा तिङ्विभक्तिर्निहन्यते ॥
इति तैत्तिरीये ब्राह्मणे तृतीये पञ्चमे इष्टिहौत्रे तृतीयोऽनुवाकः ॥