०२ सामिधेनीरन्वाह

विश्वास-प्रस्तुतिः

प्र वो॒ वाजा॑ अ॒भिद्य॑वः ।
ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
दे॒वाञ्जि॑गाति सुम्न॒युः ।

मूलम्

प्र वो॒ वाजा॑ अ॒भिद्य॑वः ।
ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
दे॒वाञ्जि॑गाति सुम्न॒युः ।

भट्टभास्कर-टीका

2’अन्तर्वेद्यन्यः पादो भवति बहिर्वेद्यन्यः’ इत्यनेन क्रमेण तिष्ठन् सामिधेनीरन्वाह - प्रवो वाजा इत्याद्याः सर्वा गायत्र्यः ॥ हे ऋत्विग्यजमानाः! वः युष्माकं सामर्थ्येन वाजाः वाजनशीला मासा भवन्ति, अभिद्यवः अभिगतदीप्तयश्च, वृद्धिविशेषेण विलक्षणदीप्तयोऽर्धमासा भवन्ति । हविष्मन्तः हविर्भुजोऽग्न्यादयः देवा भवन्ति घृताच्या गवा सह । सा च घृताची भवति । अञ्चतेः क्विनि नकाराकारयोर्लुप्तयोः ‘चौ’ इति पूर्वपदस्य दीर्घवं, अन्तोदात्तत्वं च । यज्ञश्चायं देवान् जिगाति प्रकर्षेण गच्छति तेषां भोगहेतुर्भवति । गाङ् गतौ, व्यत्ययेन परस्मैपदम्, शपः लु:, अभ्यासस्य चेत्वम् । यद्वा - गा स्तुतौ, छन्दसि गतिकर्मा द्रष्टव्यः । सुम्नयुः सुखमात्मन इच्छन् । यजमानश्चायं देवान् प्रजिगातीत्येव । एवं ‘इदमसीदमसि’ इति यज्ञफलभूतवाजादिसाधनतया तद्भावेन स्तुत्यस्य प्रियं धाम फलभोगस्थानमवरुन्धे ॥

सायण-टीका

कल्पः- व्याहृतीर् उक्त्वा त्रिर् अभिहिंकृत्य अनवानम् अभिहिंकाराद् ऋचम् उपसंदधाति प्र वो वाजा अभिद्यव इत्य् एकादशेमाः सामिधेन्यः इति।
अनवानम् उच्छ्वसन्। तत्र प्रथमायाः पाठस् तु-

प्र वो वाजा अभिद्यवः।
हविष्मन्तो घृताच्या।
देवाञ् जिगाति सुम्नयुः। (ब्रा. का. ३ प्र. ५ अ. २)

इति।

हे देवा ये युष्मदीया ऋत्विग्-यजमानाः प्रवर्तन्ते। वाजा गमन-शीला मासा अभिद्यवो ऽभितः पूर्व-पक्ष-रूपेणोत्तर-पक्ष-रूपेण च दीप्यमाना अर्ध-मासा हविष्मन्तो हविर्-भाजो देवाश् च घृताच्या याग-साधन-भूत-घृत-प्रदया गवा सहानुकूलाः प्रवर्तन्ताम् इत्य् अध्याहारः। किंचायं यज्ञो देवाञ्जिगाति प्राप्नोतु। यजमानस्य सुम्नयुः सुखेच्छुर्भवतु।

विश्वास-प्रस्तुतिः

अग्न॒ आया॑हि वी॒तये॑ ।
गृ॒णा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ।

मूलम्

अग्न॒ आया॑हि वी॒तये॑ ।
गृ॒णा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ।

भट्टभास्कर-टीका

2अग्न आयाहीति ॥ हे अग्ने! आयाहि आगच्छ वीतये तव पानाय, हव्यदातये हविषां च देवोभ्यो दानाय, गृणानः अहो प्रशस्तं कर्मेति शब्दयन् । कर्मणि वा छान्दसो यगभावः । स्तूयमानः । अथ आगत्य देवानां होता आह्वाता भूत्वा बर्हिषि यज्ञार्थं निषत्सि निषीद । छान्दसश्शपोलुक् । हव्यदातिशब्दोऽयं दासीभारादिर्द्रष्टव्यः ॥

सायण-टीका

तत्र द्वितीया सामिधेनी-मन्त्र-काण्ड एव पठिता-

‘अग्न आ याहि वीतये।
गृणानो हव्य-दातये।
नि होता सत्सि बर्हिषि’। (ब्रा. का. ३ प्र. ५ अ. २)

इति।

हे ऽग्ने हव्य-दातये यजमानस्य हविर्-दानाय वीतये देवानां हविर्-भक्षणाय गृणानो यजमानो देवानां हविर् दास्यतीति भवद्भिर् भक्षणीयम् इति वदन्न् आयाहि। आगत्य च होताऽऽह्वाता भवन् बर्हिंषि यज्ञे निषत्सि निषीद।

विश्वास-प्रस्तुतिः

तन्त्वा॑ स॒मिद्भि॑रङ्गिरः ।
घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ।

मूलम्

तन्त्वा॑ स॒मिद्भि॑रङ्गिरः ।
घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ।

भट्टभास्कर-टीका

3तं त्वेति ॥ व्याख्याता ‘उद्धन्यमानमस्याः’ इत्यत्र ॥

  • 26 अथ तृतीया - तं त्वेति ॥ हे अङ्गिरः! अङ्गनादिगुणयुक्त । हे बृहच्छोचाः! बृहद्दीप्ते! । छान्दसं दीर्घत्वम् । यद्वा - भवेत्यध्याह्रियते । हे यविष्ठ्य! युवतम! हविषां वा मिश्रयितृतम! । स्वार्थिक इष्ठन्नन्ताद्यत् । यविष्ठेषु वा भव! । दिगादिर्द्रष्टव्यः । तं तादृशं त्वां समिद्भिर्धृतेन च वर्धयामसि वर्धयामः । ‘इदन्तो मसि’ ॥
सायण-टीका

तृतीय-सामिधेनी-पाठस् तु—

‘तं त्वा समिद्भिर् अङ्गिरः। घृतेन वर्धयामसि।
बृहच् छोचाय यविष्ठ्य’ (ब्रा. का. ३ प्र. ५ अ. २) इति।

हे ऽङ्गिरो ऽग्ने तं त्वा तादृशं देवानाम् आह्वातारं त्वां समिद्भिर् घृतेन च वर्धयामः। हे यविष्ठ्य युवतम बृहज्ज्वालाधिक्यं यथा भवति तथा शोच दीप्यस्व।

विश्वास-प्रस्तुतिः

स न॑ᳶ पृ॒थुश्श्र॒वाय्य॑म् ॥2॥ अच्छा॑ देव विवाससि ।
बृ॒हद॑ग्ने सु॒वीर्य॑म् ।

मूलम्

स न॑ᳶ पृ॒थुश्श्र॒वाय्य॑म् ॥2॥ अच्छा॑ देव विवाससि ।
बृ॒हद॑ग्ने सु॒वीर्य॑म् ।

भट्टभास्कर-टीका

4स न इति ॥ हे देव! अग्ने! स त्वं नः अस्माकं पृथु विस्तीर्णं विस्तीर्णो वा त्वं श्रवाय्यं श्रयणीयम् । औणादिक आय्यप्रत्ययः । बृहत् महत् सुवीर्यं शोभनवीर्यहेतुं अच्छ अस्माकमाभिमुख्येन विवाससि विभातं कुरु प्रकाशयेति यावत् । ‘निपातस्य च’ इति अच्छेत्यस्य दीर्घत्वम् । वसेर्णिचि ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वात् णिलोपः ॥

सायण-टीका

चतुर्थ-सामिधेनी-पाठस् तु-

‘स नः पृथु श्रवाय्यम्।
अच्छा देव विवाससि।
बृहद् अग्ने सुवीर्यम्’ (ब्रा. का. ३ प्र. ५ अ. २)

इति।
हे ऽग्ने देव स त्वं नो ऽस्मद्-अर्थं पृथु विस्तीर्णं श्रवाय्यं देवैः श्रोतुं योग्यम् इदं कर्माच्छाभिमुखीकृत्य बृहत्-सुवीर्यं च यथा भवति तथा विवाससि विभातं कुरु। प्रकाशयेत्य् अर्थः। बृहच्छब्देन ज्वालाधिक्यं विवक्षितम्। सुवीर्य-शब्देन हूयमानस्य हविषः सम्यग्-दहन-सामर्थ्यम् उच्यते।

विश्वास-प्रस्तुतिः

ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः ।
तमाँ॑सि दर्श॒तः ।
सम॒ग्निरि॑ध्यते॒ वृषा॑ ।

मूलम्

ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः ।
तमाँ॑सि दर्श॒तः ।
सम॒ग्निरि॑ध्यते॒ वृषा॑ ।

भट्टभास्कर-टीका

5ईडेन्य इति ॥ अयमग्निः ईडन्यः स्तुत्यः नमस्यः ‘नमो वरिवः’ इति क्यच् । तिङन्तादचो यत् । तमांसि तिरः तिरस्कुर्वन् दर्शतः दर्शयिता सर्वस्य दर्शनीयशरीरो वा ईदृशः यः समिध्यते सम्यग्दीप्यते । वृषा वर्षिता कामानां प्रधानभूतो वा ॥

सायण-टीका

पञ्चम-सामिधेनी-पाठस् तु—

‘ईडेन्यो नमस्यस् तिरः।
तमा ँ सि दर्शतः।
सम् अग्निर् इध्यते वृषा’ (ब्रा. का. ३ प्र. ५ अ. २)

इति।
अयम् अग्निः सम्यग् इध्यते। कीदृशः, ईडेन्यः स्तोतुं योग्यः, नमस्यो नमस्कार-योग्यः, तमांसि तिरस्कुर्वन् दर्शतः पदार्थानाम् आर्दशयिता, वृषा कामानां वर्धयिता।

विश्वास-प्रस्तुतिः

वृषो॑ अ॒ग्निस्समि॑ध्यते ।
अश्वो॒ न दे॑व॒वाह॑नः ।
तँ ह॒विष्म॑न्त ईडते ।

मूलम्

वृषो॑ अ॒ग्निस्समि॑ध्यते ।
अश्वो॒ न दे॑व॒वाह॑नः ।
तँ ह॒विष्म॑न्त ईडते ।

भट्टभास्कर-टीका

6वृषो अग्निरिति ॥ वृषः प्रधानभूतोऽयमग्निः समिध्यते देववाहनः देवार्थस्य हविषो वोढा, अश्वोन अश्व इव देववाहः देवानां वोढा अश्वेन तुल्यः तं खलु सर्वे हविष्मन्तः यजमानाः ईडते स्तुवन्ति याचन्ते वा । तस्मात् अस्माभिरपि अयं समिध्यत इति ॥

सायण-टीका

षष्ठ-सामिधेनी-पाठस् तु—

‘वृषो ऽग्निः समिध्यते।
अश्वो न देव-वाहनः।
तं हविष्मन्त ईडते’ (ब्रा. का. ३ प्र. ५ अ. २)

इति।
अयम् अग्निः सम्यग् इध्यते। कीदृशः। वृषः कामानां वर्षयिता। अश्वो न देव-वाहनो ऽश्व इव देवार्थस्य हविषो वोढा। तम् इमम् अग्निं हविष्मन्तो यजमानाः स्तुवते।

विश्वास-प्रस्तुतिः

वृष॑णन्त्वा व॒यव्ँ वृष॑न् ।
वृषा॑ण॒स्समि॑धीमहि ॥3॥
अग्ने॒ दीद्य॑तम्बृ॒हत् ।

मूलम्

वृष॑णन्त्वा व॒यव्ँ वृष॑न् ।
वृषा॑ण॒स्समि॑धीमहि ॥3॥
अग्ने॒ दीद्य॑तम्बृ॒हत् ।

भट्टभास्कर-टीका

7वृषणं त्वेति ॥ हे वृषन्! सेक्तः! त्वां वृषणं सेक्तारं वयं वृषाणः त्वत्प्रसादेन सेक्तारः समिधीमहि सम्यग्दीपयामः हे अग्ने! दीद्यतं स्वभावत एव बृहत् भृशं दीप्यमानम् । दीदीतिः दीप्तिकर्मा छान्दसः ॥

सायण-टीका

सप्तम-सामिधेनी-पाठस् तु-

“वृषणं त्वा वयं वृषन्।
वृषाणः समिधीमहि।
अग्ने दीद्यतं बृहत्’ (ब्रा. का. ३ प्र. ५ अ. २)

इति।
हे वृषन् कामानां वर्षकाग्ने वृषणं कामानां वर्षितारं त्वां वृषाणो वयम् आहुति-वृष्टिं कुर्वन्तो वयं समिधीमहि सम्यक् प्रकाशयामः। कीदृशं त्वां, बृहद् दीद्यतं प्रौढ-ज्वालं यथा भवति तथा दीप्यमानम्।

विश्वास-प्रस्तुतिः

अ॒ग्निन्दू॒तव्ँ वृ॑णीमहे ।
होता॑रव्ँ वि॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ।

मूलम्

अ॒ग्निन्दू॒तव्ँ वृ॑णीमहे ।
होता॑रव्ँ वि॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ।

भट्टभास्कर-टीका

8अग्निं दूतमित्यादि ॥ अग्निं दूतं हितकारिणं सर्वेषां होतारं आह्वातारं विश्ववेदसं विश्वस्य वेदितारं अस्य यज्ञस्य सम्बन्धिनं सुक्रतुं शोभनकर्माणं शोभनप्रज्ञानं वा । ‘क्रत्वादयश्च’ इत्युत्तरपदाद्युदात्तत्वम् ॥

सायण-टीका

अष्टम-सामिधेनी-पाठस् तु—

“अग्निं दूतं वृणीमहे।
होतारं विश्ववेदसम्।
अस्य यज्ञस्य सुक्रतुम्” (ब्रा. का. ३ प्र. ५ अ. २)

इति।
इमम् अग्निं वयं वृणीमहे प्रार्थयामहे। कीदृशं, दूतं देवान् प्रति प्रेषणार्हं, होतारम् आह्वातारं, विश्ववेदसं विश्वान् सर्वान् देवान् वेत्तीति विश्ववेदास् तादृशम्। अस्य यज्ञस्य संबन्धिनं सुक्रतुं शोभन-कर्माणम्।

विश्वास-प्रस्तुतिः

स॒मि॒ध्यमा॑नो अध्व॒रे ।
अ॒ग्निᳶ पा॑व॒क ईड्यः॑ ।
शो॒चिष्के॑श॒स्तमी॑महे ।

मूलम्

स॒मि॒ध्यमा॑नो अध्व॒रे ।
अ॒ग्निᳶ पा॑व॒क ईड्यः॑ ।
शो॒चिष्के॑श॒स्तमी॑महे ।

भट्टभास्कर-टीका

9समिध्यमान इति ॥ योऽग्निः अध्वरे अस्मिन्कर्मणि समिध्यमानः पावकः शुद्धिहेतुः ईड्यः स्तुत्यः शोचींषि दीप्तयः केशस्थानीया यस्यासौ शोचिष्केशः तं अग्निं ईमहे प्राप्नुमः॥

सायण-टीका

नवम-सामिधेनी-पाठस् तु—

“समिध्यमानो अध्वरे।
अग्निः पावक ईड्यः।
शोचिष्केशस् तम् ईमहे” (ब्रा. का. ३ प्र. ५ अ. २)

इति।
यो ऽग्निर् अध्वरे ऽस्मिन् कर्मणि समिध्यमानः पावकः शुद्धि-हेतुर् ईड्यः स्तुत्यः शोचींषि दीप्तयः केश-स्थानीया यस्यासौ शोचिष्केशस् तम् अग्निम् ईमहे प्राप्नुमः।

विश्वास-प्रस्तुतिः

समि॑द्धो अग्न आहुत ।
दे॒वान् य॑क्षि स्वध्वर ।
त्वँ हि ह॑व्य॒वाडसि॑ ।

मूलम्

समि॑द्धो अग्न आहुत ।
दे॒वान् य॑क्षि स्वध्वर ।
त्वँ हि ह॑व्य॒वाडसि॑ ।

भट्टभास्कर-टीका

10समिद्ध इति ॥ हे अग्ने! आहुत आहुत्या आराधित! स त्वं देवान्यक्षि । यजेः लेटि शपो लुक् । हे स्वध्वर! सुष्ठु निर्वर्तितयाग! कस्मात्त्वमेवमुच्यस इति चेत् त्वं हि हव्यवाट् हव्यानां वोढा देवेष्टप्रापयिताऽसि । ‘हि च’ इति निघाताभावः ॥

सायण-टीका

दशम-सामिधेनी-पाठस् तु—

“समिद्धो अग्न आहुत।
देवान् यक्षि स्वध्वर।
त्वं हि हव्यवाड् असि” (ब्रा. का. ३ प्र. ५ अ. २)

इति।

हे आहुताऽऽहुत्याराधिताग्ने त्वं समिद्धः सन् देवान् यक्षि यजसि। हे स्वध्वर सुष्ठु-निष्पादित-याग हि यस्मात् त्वं हव्यवाड् असि तस्माद् यजेत्य् अन्वयः।

विश्वास-प्रस्तुतिः

आजु॑होत दुव॒स्यत॑ ।
अ॒ग्निम्प्र॑य॒त्य॑ध्व॒रे ।
वृ॒णीध्वँ ह॑व्य॒वाह॑नम् ।

मूलम्

आजु॑होत दुव॒स्यत॑ ।
अ॒ग्निम्प्र॑य॒त्य॑ध्व॒रे ।
वृ॒णीध्वँ ह॑व्य॒वाह॑नम् ।

भट्टभास्कर-टीका

11वसिष्ठराजन्यव्यतिरिक्तानां परिधानीया - आजुहोतेति ॥ इममग्निं आजुहोत आहुतिभिः प्रीणयत । दुवस्यत परिचरत । प्रयति अविच्छेदेन प्रवर्तमाने अध्वरे । ‘शतुरनुमः’ इति नद्या उदात्तत्वम् । ‘उदात्तस्वरितयोर्यणः’ इति ततः परोकारः स्वर्यते । अध्वरस्य अविच्छेदप्रवृत्त्यर्थं हव्यवाहनं हविषां वोढारं एनं एवं वृणीध्वं हे ऋत्विग्यजमानाः! । वरणक्रमश्चानन्तरानुवाके वक्ष्यते । ‘हव्येऽनन्तःपादम्’ इति ञ्युट् ॥

सायण-टीका

एकादश-सामिधेनी-पाठस् तु—

“आ जुहोत दुवस्यत।
अग्निं प्रयत्य् अध्वरे।
वृणीध्वं हव्य-वाहनम्” (ब्रा. का. ३ प्र. ५. २)

इति।
हे यजमाना इमम् अग्निम् आहुतिभिर् आ जुहोत प्रीणयत, दुवस्यत परिचरत, प्रयति प्रयत्नेन वर्तमाने ऽस्मिन्न् अध्वरे यागे हव्य-वाहनम् अग्निं वृणीध्वं प्रार्थयध्वम्। अनया सामिधेनीनां परिसमाप्यमानत्वाद् इयं परिधानीया। तत्र पुरुष-भेदेनान्या परिधानीया विकल्पते। तथा च सूत्र-कारः- “त्वं वरुण इति वसिष्ठ-राजन्यानां परिधानीया, आजुहोतेतीतरेषां गोत्राणाम्” इति।

विश्वास-प्रस्तुतिः

त्वव्ँवरु॑ण उ॒त मि॒त्रो अ॑ग्ने ।
त्वाव्ँव॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥4॥

मूलम्

त्वव्ँवरु॑ण उ॒त मि॒त्रो अ॑ग्ने ।
त्वाव्ँव॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥4॥

भट्टभास्कर-टीका

12अथ वसिष्ठराजन्यानां परिधानीया - त्वं वरुण इति त्रिष्टुप् ॥ हे अग्ने! त्वमेव वरुणः मित्रोऽपि त्वमेव तत्कारित्वात्त्वां, वर्धन्ति वर्धयन्ति । ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वात् णिलेपः । ‘अणावकर्मकात्’ इति परस्मैपदम् । मतिभिः प्रज्ञाभिः वसिष्ठाः प्रशस्यतमाः त्वामेव स्तुत्या वर्धयन्ति । स्तुत्या हि स्तोतव्यो वर्धते, मतिमतां हि स्तुतिः समीचीना प्रवर्तते, अतः ते त्वां वर्धयन्ति । तस्मात् त्वामेव स्तुवतां अस्माकं त्वे त्वया हेतुना ‘सुपां सुलुक्’ इति शे आदेशः । वसु वसूनि धनानि । तेनैव जप्तो लुक् । सुषणनानि शोभनदानानि । सुषामादित्वात् षत्वम् । अस्माकं सन्तु । यद्वा - त्वे त्वयि । सप्तम्याश्शे आदेशः । सुष्ठु सननानि यानि हविर्लक्षणानि वसूनि अस्माकं धनानि त्वयि सन्तु । यूपं पातेति व्याख्यातम् । पूजार्थमेकस्मिन्बहुवचनम् ॥

इति तैत्तिरीये ब्राह्मणे इष्टिहौत्रे द्वितीयोऽनुवाकः ॥

सायण-टीका

विकल्पितायाः पाठस् तु-

“त्वं वरुण उत मित्रो अग्ने।
त्वां वर्धन्ति मतिभिर् वसिष्ठाः।
त्वे वसु सुषणनानि सन्तु।
यूयं पात स्वस्तिभिः सदा नः” (ब्रा. का. ३ प्र. ५ अ. २)

इति।
हे ऽग्ने त्वम् अनिष्ट-निवारकत्वाद्वरुण इष्ट-प्रापकत्वान् मित्रश् च। वसिष्ठ-गोत्रीया मतिभिर् मनीषाभिः स्तुतिभिर् वर्धन्ति वर्धयन्ति त्वाम्। त्वे त्वयि वसु धनं सुषणनानि सुष्ठु दातव्यानि हवींषि च सन्तु तिष्ठन्तु। यूयं च नो ऽस्मान् स्वस्तिभिः सदा पात रक्षत। यूयम् इति बहु-वचनं पूजार्थम्।