०१ होतुर्जपः पुरस्तात् सामिधेनीनाम्

प्राजापत्यं काण्डम्

इष्टिहौत्रम्

विश्वास-प्रस्तुतिः

स॒त्यम्प्रप॑द्ये ।
ऋ॒तम्प्रप॑द्ये ।

मूलम्

स॒त्यम्प्रप॑द्ये ।
ऋ॒तम्प्रप॑द्ये ।

भट्टभास्कर-टीका

1अथ इष्टिहौत्रमारभ्यते । प्राजापत्यं काण्डम् । तत्र पुरस्तात्सामिधेनीनां होता अन्तराऽऽहवनीयमुत्करं च प्रतीचीनं गच्छम् जपति - सत्यं प्रपद्य इत्यादि ॥ वाचिकं तथात्वं सत्यं, मानसं तथात्वं ऋतं, द्विप्रकारमोघत्वरहितं यज्ञं यथातथा वा इदं कर्म प्रपद्ये आरभे ।
अ॒मृत॒म्प्रप॑द्ये ।

सायण-टीका

कल्पः (ल्पे) पुरस्तात् सामिधेनीनां होत्य् उपक्रम्यान्तराऽऽहवनीयम् उत्करं च प्रतीचीनं गच्छञ् जपति कं प्रपद्ये तं प्रपद्य इत्य् आदिकम् उक्त्वा सत्यं प्रपद्य इति वेति पक्षान्तरम् उक्तम्। तत्-पाठस् तु-

सत्यं प्रपद्ये।
ऋतं प्रपद्ये ऽमृतं प्रपद्ये।
प्रजापतेः प्रिवां तनुवम् अनार्तां प्रपद्ये।
इदम् अहं पञ्चदशेन वज्रेण।
द्विषन्तं भ्रातृव्यम् अवक्रामाभि।
यो ऽस्मान् द्वेष्टि।
यं च वयं द्विष्मः।
भूर् भुवः सुवः।
हिम् (ब्रा. का. ३ प्र. ५ अ. १)

इति। सत्यं यथार्थ-भूतम् इदं कर्म प्रपद्ये प्रारभे। अस्मिन् कर्मणि वाचिको ऽपराधो मा भूद् इत्य् अर्थः। मनसा चिन्त्यमानम् अप्य् ऋतं यथा भवति तथा प्रपद्ये। मानसो ऽप्य् अपराधो मा भूद् इत्य् अर्थः। अमृतत्व-हेतु-भूतम् इदं कर्म प्रपद्ये। अनेन कर्मणा देवत्वं प्राप्यताम् इत्य् अर्थः।

भट्टभास्कर-टीका

अमृतं अमृतत्वहेतुः यथातथा प्रपद्ये ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तेᳶ प्रि॒यान्त॒नुव॒मना॑र्ता॒म्प्रप॑द्ये ।

मूलम्

प्र॒जाप॑तेᳶ प्रि॒यान्त॒नुव॒मना॑र्ता॒म्प्रप॑द्ये ।

भट्टभास्कर-टीका

प्रजापतेः प्रियां अनार्तां आर्तिरहितां तनुवं शरीरभूतमिदं कर्म ईश्वरस्य क्रियाशक्तेः वातात्मिकायाः परिणामविशेषं प्रपद्ये ।

सायण-टीका

देवेष्व् अप्य् आर्ति-रहितां प्रजापतेः प्रियां तनुवं प्रजापति-शरीरम् इदं कर्म प्रपद्ये।

मूलम्

इ॒दम॒हम्प॑ञ्चद॒शेन॒ वज्रे॑ण ।
द्वि॒षन्त॒म्भ्रातृ॑व्य॒मव॑क्रामामि ।

विश्वास-प्रस्तुतिः

इ॒दम॒हम्प॑ञ्चद॒शेन॒ वज्रे॑ण द्वि॒षन्त॒म्भ्रातृ॑व्य॒मव॑क्रामामि ।

मूलम्

इ॒दम॒हम्प॑ञ्चद॒शेन॒ वज्रे॑ण द्वि॒षन्त॒म्भ्रातृ॑व्य॒मव॑क्रामामि ।

भट्टभास्कर-टीका

यस्मादेवं तस्मात्, इदमिति क्रियाविशेषणम् । पञ्चदशेन पञ्चदशस्तोमसदृशेन पञ्चदशधारेण वज्रेण द्विषन्तं भ्रातृव्यं शत्रुं अवक्रामामि अवष्टभ्य पीडयामि । ममायमारम्भः तस्यैवाक्रमणमिति ।

सायण-टीका

इदम् इति हस्तेनाभिनयः। अहं होता पञ्चदश-स्तोम-सदृशेन वज्र-रूपेणानेन कर्मणा द्विषन्तं शत्रुम् अवष्टभ्य पीडयामि।

मूलम्

यो॑ऽस्मान्द्वेष्टि॑ ।
यञ्च॑ व॒यन्द्वि॒ष्मः ।
भूर्भुव॒स्सुवः॑ ।
हिम् ॥1॥

विश्वास-प्रस्तुतिः

यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मो भूर्भुव॒स्सुव॒र् हिम् ॥1॥

मूलम्

यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मो भूर्भुव॒स्सुव॒र् हिम् ॥1॥

भट्टभास्कर-टीका

योऽस्मान् द्वेष्टि अस्माभिरविज्ञातः । यं च वयं द्विष्मः तेनाविज्ञाताः । तत एवं कृते भूर्भुवस्सुवः त्रिष्वपि लोकेषु हिं गन्ता भवामि, विश्वं व्याप्य तिष्ठामि, विश्वस्य प्रीणयिता भवामि, यागद्वारेण विश्वं धारयामि । हि गतौ हिवि प्रीणने, अन्यतरस्येदं छान्दसं रूपम् ॥

इति तैत्तिरीयब्राह्मणे तृतीये पञ्चमे इष्टिहौत्रे प्रथमोऽनुवाकः ॥

सायण-टीका

यः शत्रुम् अस्मान् मनसा द्वेष्टि यं च शत्रुं वयं मनसा द्विष्मस् तम् उभय-विधम् एवावक्रामामि इति पूर्वत्रान्वयः। भूर् भुवः सुवर् इत्य् एतन्-नामका लोकास् तान् हिनोमि प्रीणयामीत्य् अर्थः।