विश्वास-प्रस्तुतिः
अथै॒तानरू॑पेभ्य॒ आल॑भते ।
अति॑ह्रस्व॒मति॑दीर्घम् ।
अतिकृ॑श॒मत्यँ॑सलम् ।
अति॑शुक्ल॒मति॑कृष्णम् ।
अति॑श्लक्ष्ण॒मति॑लोमशम् ।
मूलम्
अथै॒तानरू॑पेभ्य॒ आल॑भते ।
अति॑ह्रस्व॒मति॑दीर्घम् ।
अतिकृ॑श॒मत्यँ॑सलम् ।
अति॑शुक्ल॒मति॑कृष्णम् ।
अति॑श्लक्ष्ण॒मति॑लोमशम् ।
भट्टभास्कर-टीका
1अथैतानित्यादि ॥ एतान् वक्ष्यमाणानतिह्रस्वादीन् पुरुषानरूपेभ्य आलभते । यथा कुत्सितः पुत्रोऽपुत्रः। एव कुत्सितमात्रमत्रापि नञाऽभिधीयते । अतिह्रस्वादयो गताः ।
विश्वास-प्रस्तुतिः
अति॑किरिट॒मति॑दन्तुरम् ।
मूलम्
अति॑किरिट॒मति॑दन्तुरम् ।
भट्टभास्कर-टीका
अतिकिरिटः अत्यल्पदन्तः ।
अतिदन्तुरः अत्युन्नतदन्तः ।
विश्वास-प्रस्तुतिः
अति॑मिर्मिर॒मति॑मेमिषम् ।
मूलम्
अति॑मिर्मिर॒मति॑मेमिषम् ।
भट्टभास्कर-टीका
अतिमिर्मिरः अत्यर्थं निमिषन्निमिषद्दृष्टिः ।
अतिमेमिषः सदा विस्फारिताक्षः स्तब्धदृष्टिः । मिषेर्यङ्लुगन्तात् पचाद्यच् ।
विश्वास-प्रस्तुतिः
आ॒शायै॑ जा॒मिम् ।
मूलम्
आ॒शायै॑ जा॒मिम् ।
भट्टभास्कर-टीका
आशायै बुद्धये जामिं अन्येनोढा अन्यस्मै दत्ता, विधवेत्यन्ये । या निवृत्ताधिकारा जामित्वं भजते ऊढदुहितेत्यपरे ।
विश्वास-प्रस्तुतिः
प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥19॥
मूलम्
प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥19॥
भट्टभास्कर-टीका
प्रतीक्षायै प्रत्यागमनार्थिन्यै ऋद्ध्यै कुमारीं अनूढां कन्यां, सा हि भर्तारं प्रतीक्षते ॥
इति श्री भट्टभास्करमिश्रविरचिते तैत्तिरीयब्राह्मणभाष्ये ज्ञानयज्ञाख्ये तृतीयेऽष्टके चतुर्थप्रपाठके पुरुषमेधे एकोनविंशोऽनुवाकः ॥
समाप्तश्च प्रपाठकः ॥