विश्वास-प्रस्तुतिः
वा॒चे पुरु॑ष॒माल॑भते ।
मूलम्
वा॒चे पुरु॑ष॒माल॑भते ।
भट्टभास्कर-टीका
1वाचे पुरुषं वाचः पूरकं शरीरम् ।
विश्वास-प्रस्तुतिः
प्रा॒णम॑पा॒नव्ँ व्या॒नमु॑दा॒नँ स॑मा॒नन्तान् वा॒यवे॑ ।
मूलम्
प्रा॒णम॑पा॒नव्ँ व्या॒नमु॑दा॒नँ स॑मा॒नन्तान् वा॒यवे॑ ।
भट्टभास्कर-टीका
प्राणादीन् तस्मिन् शरीरे स्थितान् वायुवृत्तिभेदान् ।
विश्वास-प्रस्तुतिः
सूर्या॑य॒ चक्षु॒राल॑भते ।
मूलम्
सूर्या॑य॒ चक्षु॒राल॑भते ।
भट्टभास्कर-टीका
सूर्याय चक्षुः तस्मिन्नेव शरीरे स्थितम् ।
विश्वास-प्रस्तुतिः
मन॑श्च॒न्द्रम॑से ।
मूलम्
मन॑श्च॒न्द्रम॑से ।
भट्टभास्कर-टीका
चन्द्रमसे मनः । मनसः प्रथमनिर्देशः सर्वप्रवृत्तिहेतुत्वेन तस्य प्राधान्यात् ।
विश्वास-प्रस्तुतिः
दि॒ग्भ्यश्श्रोत्र॑म् ।
मूलम्
दि॒ग्भ्यश्श्रोत्र॑म् ।
भट्टभास्कर-टीका
दिग्भ्यः श्रोत्रं तत्रस्थम् ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तये॒ पुरु॑षम् ॥18॥
मूलम्
प्र॒जाप॑तये॒ पुरु॑षम् ॥18॥
भट्टभास्कर-टीका
प्रजापतये सर्वपुरुषसमष्टिभूताय पुरुषं शरीरानुप्रविष्टमात्मानम् ॥
इति तृतीये चतुर्थे अष्टादशोऽनुवाकः ॥