विश्वास-प्रस्तुतिः
भूम्यै॑ पीठस॒र्पिण॒मा ल॑भते ।
मूलम्
भूम्यै॑ पीठस॒र्पिण॒मा ल॑भते ।
भट्टभास्कर-टीका
1भूम्यै पीठसर्पिणं यो भग्नचरणः दारुमयपीठावलम्बी भूम्यां सर्पति खञ्जः ।
विश्वास-प्रस्तुतिः
अ॒ग्नयेऽँ॑स॒लम् ।
मूलम्
अ॒ग्नयेऽँ॑स॒लम् ।
भट्टभास्कर-टीका
अग्रये अंसलं पीनांसम् ।
विश्वास-प्रस्तुतिः
वा॒यवे॑ चाण्डा॒लम् ।
मूलम्
वा॒यवे॑ चाण्डा॒लम् ।
भट्टभास्कर-टीका
वायवे चाण्डालम् । स्वार्थिकोऽण् । अतिकोपनमेके । चडि कोपे ।
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षाय वँशन॒र्तिन॑म् ।
मूलम्
अ॒न्तरि॑क्षाय वँशन॒र्तिन॑म् ।
भट्टभास्कर-टीका
अन्तरिक्षाय वंशनर्तिनं वंशाग्रनृत्तजीविनम् ।
विश्वास-प्रस्तुतिः
दि॒वे ख॑ल॒तिम् ।
मूलम्
दि॒वे ख॑ल॒तिम् ।
भट्टभास्कर-टीका
दिवे द्युलोकाय खलतिं केशशून्यशिरसम् ।
विश्वास-प्रस्तुतिः
सूर्या॑य हर्य॒क्षम् ।
मूलम्
सूर्या॑य हर्य॒क्षम् ।
भट्टभास्कर-टीका
सूर्याय हर्यश्वाय हर्यक्षं हरिताक्षम् ।
विश्वास-प्रस्तुतिः
च॒न्द्रम॑से मिर्मि॒रम् ।
मूलम्
च॒न्द्रम॑से मिर्मि॒रम् ।
भट्टभास्कर-टीका
चन्द्रमसे उद्भवाभिभविने मिर्मिरं पुनःपुनः मिषदृष्टिम् । मी श्लेषणे यङ्लुकि हलादिश्शेषाभावः, पचाद्यद्, कपिलकादित्वात् लत्वाभावः ।
विश्वास-प्रस्तुतिः
नक्ष॑त्रेभ्यᳵ कि॒लास॑म् ।
मूलम्
नक्ष॑त्रेभ्यᳵ कि॒लास॑म् ।
भट्टभास्कर-टीका
नक्षत्रेभ्यः श्वेतबिन्दुतुल्येभ्यः किलासं कृष्णबिन्दुचितशरीरम् ।
विश्वास-प्रस्तुतिः
अह्ने॑ शु॒क्लम्पि॑ङ्ग॒लम् ।
मूलम्
अह्ने॑ शु॒क्लम्पि॑ङ्ग॒लम् ।
भट्टभास्कर-टीका
अह्ने शुक्लं शुक्लदेहं पिङ्गळं पिङ्गळाक्षम् ।
विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका
रात्र्यै कृष्णं कृष्णदेहं पिङ्गाक्षम् ॥
इति तृतीये चतुर्थे सप्तदशोऽनुवाकः ॥