१६ पुरुषमेधः

विश्वास-प्रस्तुतिः

अ॒क्ष॒रा॒जाय॑ कित॒वम् ।

मूलम्

अ॒क्ष॒रा॒जाय॑ कित॒वम् ।

भट्टभास्कर-टीका

1अक्षराजाय कितवं किं तवेति वर्तमानं धूर्तम् ।

विश्वास-प्रस्तुतिः

कृ॒ताय॑ सभा॒विन॑म् ।

मूलम्

कृ॒ताय॑ सभा॒विन॑म् ।

भट्टभास्कर-टीका

कृताय युगाय सभाविनं सभावन्तं द्यूताय सभायामधिष्ठातारम् । ‘बहुलं छन्दसि’ इति विनिः ।

विश्वास-प्रस्तुतिः

त्रेता॑या आदिनवद॒र्शम् ।

मूलम्

त्रेता॑या आदिनवद॒र्शम् ।

भट्टभास्कर-टीका

त्रेतायै युगाय आदिनवदर्शं मर्यादायां देवनस्य द्रष्टारं परीक्षकम् । आकारो मर्यादायां, दीव्यतेः ल्युटि विनिमयः, लधूपधगुणाभावश्च ।

विश्वास-प्रस्तुतिः

द्वा॒प॒राय॑ बहि॒स्सद॑म् ।

मूलम्

द्वा॒प॒राय॑ बहि॒स्सद॑म् ।

भट्टभास्कर-टीका

द्वापराय युगाय बहिस्सदं बहिस्सदनशीलं स्वयमदीव्यन्तं द्यूतज्ञम् ।

विश्वास-प्रस्तुतिः

कल॑ये सभास्था॒णुम् ।

मूलम्

कल॑ये सभास्था॒णुम् ।

भट्टभास्कर-टीका

कलये युगाय सभास्थाणुं अदेवनकालेऽपि सभां यो न मुञ्चति सभायां स्थाणुकल्पः दीव्य[ति]दर्शनकुतूहली स्वयमज्ञः ।

विश्वास-प्रस्तुतिः

दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् ।

मूलम्

दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् ।

भट्टभास्कर-टीका

दुष्कृताय दुःखेन करणाय चरकाचार्यं वंशनर्तनस्य शिक्षयितारम् । अध्वने ब्रह्मचारिणम् ।

विश्वास-प्रस्तुतिः

पि॒शा॒चेभ्य॑स्सैल॒गम् ।

मूलम्

पि॒शा॒चेभ्य॑स्सैल॒गम् ।

भट्टभास्कर-टीका

पिशाचेभ्यः सैलगं यः पथिकानां वस्त्राण्यपहृत्य शैलं गच्छति, व्यञ्जनविकारश्छान्दसः ।

विश्वास-प्रस्तुतिः

पि॒पा॒सायै॑ गोव्य॒च्छम् ।

मूलम्

पि॒पा॒सायै॑ गोव्य॒च्छम् ।

भट्टभास्कर-टीका

पिपासायै गोव्यच्छं गवांविवासयितारं अपहर्तारम् । त्रासयितारमेके । इच्छेर्वर्णविकारः । धात्वन्तरं वा ।

विश्वास-प्रस्तुतिः

निर्ऋ॑त्यै गोघा॒तम् ।

मूलम्

निर्ऋ॑त्यै गोघा॒तम् ।

भट्टभास्कर-टीका

निर्ऋत्यै पापदेवतायै गोघातं कण्टकयष्ट्यादिभिः गवां मारयितारम् ।

विश्वास-प्रस्तुतिः

क्षु॒धे गो॑विक॒र्तम् ।

मूलम्

क्षु॒धे गो॑विक॒र्तम् ।

भट्टभास्कर-टीका

गोविकर्तं गवां विशसितारम् । कृती छेदने ।

मूलम्

क्षु॒त्तृ॒ष्णाभ्या॒न्तम् । यो गाव्ँ वि॒कृन्त॑न्तम्माँ॒सम्भिक्ष॑माण उप॒तिष्ठ॑ते ॥16॥

विश्वास-प्रस्तुतिः

क्षु॒त्तृ॒ष्णाभ्या॒न्तम् यो गाव्ँ वि॒कृन्त॑न्तम्माँ॒सम्भिक्ष॑माण उप॒तिष्ठ॑ते ॥16॥

मूलम्

क्षु॒त्तृ॒ष्णाभ्या॒न्तम् यो गाव्ँ वि॒कृन्त॑न्तम्माँ॒सम्भिक्ष॑माण उप॒तिष्ठ॑ते ॥16॥

भट्टभास्कर-टीका

क्षुतृष्णाभ्यां बुभुक्षापिपासाभ्यां तम् । कं? यो गां विकृन्तन्तं मांसं गवां विशसितारं क्षुत्पीडितं मांसं भिक्षमाणः भिक्षणेन हेतुना । हेतौ शानच् । उपतिष्ठते उपसङ्गच्छति । सङ्गतिकरण आत्मनेपदम् ॥

इति तृतीये चतुर्थे षोडशोऽनुवाकः ॥