विश्वास-प्रस्तुतिः
हसा॑य पुँश्च॒लूमा ल॑भते ।
मूलम्
हसा॑य पुँश्च॒लूमा ल॑भते ।
भट्टभास्कर-टीका
1हसाय निन्दितहासाय पुंश्चलूं पुंश्चलीम् । व्याख्यातेयम् । पुनरालभतिग्रहणं विस्मरणशीलानामनुग्रहार्थम् ।
विश्वास-प्रस्तुतिः
वी॒णा॒वा॒दङ्गण॑कङ्गी॒ताय॑ ।
मूलम्
वी॒णा॒वा॒दङ्गण॑कङ्गी॒ताय॑ ।
भट्टभास्कर-टीका
वीणावादं वीणावादनशीलं गणकं श्रुतिस्वरमण्डलादिगणनविदं च गीताय । अत्रेयं प्रक्रिया - यत्र एकस्यै देवतायै एकः पशुरालभ्यते तत्र देवतां प्रथमं निर्दिश्य पशुं विदधाति । यत्र त्वेकस्यै देवतायै अनेकपश्वालम्भः तत्र सर्वान् पशून् स्वरूपेण दर्शयित्वा पश्चाद्देवतां विदधाति । यथा - ‘वीणावादं गणकं गीताय, तूणवध्मं ग्रामण्यं पाणिसंघातं नृत्ताय, प्राणमपानं व्यानमुदानं समानं तान्वायवे, अथैतानरूपेभ्यः’ इति ।
विश्वास-प्रस्तुतिः
याद॑से शाबु॒ल्याम् ।
मूलम्
याद॑से शाबु॒ल्याम् ।
भट्टभास्कर-टीका
यादसे ग्राहाय शाबुल्यां श्वित्रशबलशरीराम् । वर्णान्यत्वं छान्दसम् । भावप्रत्ययान्तान्मत्वर्थीयोऽकारः । श्वित्रिणी हि यादांसीव भीतिं जनयति । तादृशभर्तृमतीमेके ।
विश्वास-प्रस्तुतिः
न॒र्माय॑ भद्रव॒तीम् ।
मूलम्
न॒र्माय॑ भद्रव॒तीम् ।
भट्टभास्कर-टीका
नर्माय प्रियवचनाय भद्रवतीं भद्रलक्षणयुक्तशरीराम् ।
विश्वास-प्रस्तुतिः
मोदा॑यानु॒क्रोश॑कम् ।
मूलम्
मोदा॑यानु॒क्रोश॑कम् ।
भट्टभास्कर-टीका
मोदाय हर्षाय अनुक्रोशकं गणमध्ये जनानामाह्लातारं हृष्टान्तरात्मानम् ।
विश्वास-प्रस्तुतिः
आ॒न॒न्दाय॑ तल॒वम् ॥15॥
मूलम्
आ॒न॒न्दाय॑ तल॒वम् ॥15॥
भट्टभास्कर-टीका
आनन्दाय तलवं काहळादिषूदनम् । मुखवाद्यकारिणमेके ॥
इति तृतीये चतुर्थे पञ्चदशोऽनुवाकः ॥