१४ पुरुषमेधः

विश्वास-प्रस्तुतिः

बी॒भ॒त्सायै॑ पौल्क॒सम् ।

मूलम्

बी॒भ॒त्सायै॑ पौल्क॒सम् ।

भट्टभास्कर-टीका

1बीभत्सायै पौल्कसं अतिनिकृष्टां जातिम् ।

विश्वास-प्रस्तुतिः

भूत्यै॑ जागर॒णम् ।

मूलम्

भूत्यै॑ जागर॒णम् ।

भट्टभास्कर-टीका

भूत्यै अभिवृध्यै जागरणं प्रबोधशीलं अवहितम् ।

विश्वास-प्रस्तुतिः

अभू॑त्यै स्वप॒नम् ।

मूलम्

अभू॑त्यै स्वप॒नम् ।

भट्टभास्कर-टीका

अभूत्यै स्वपनं प्रमादभूयिष्ठम् ।

विश्वास-प्रस्तुतिः

तु॒लायै॑ वाणि॒जम् ।

मूलम्

तु॒लायै॑ वाणि॒जम् ।

भट्टभास्कर-टीका

तुलायै परिच्छेदविशेषाय वाणिजं तुलासूत्रजीविनम् । वणिगेव वाणिजः स्वार्थिकोऽण् ।

विश्वास-प्रस्तुतिः

वर्णा॑य हिरण्यका॒रम् ।

मूलम्

वर्णा॑य हिरण्यका॒रम् ।

भट्टभास्कर-टीका

वर्णाय हिरण्यकारम् । गतम् ।

विश्वास-प्रस्तुतिः

विश्वे॑भ्यो दे॒वेभ्य॑स्सिध्म॒लम् ।

मूलम्

विश्वे॑भ्यो दे॒वेभ्य॑स्सिध्म॒लम् ।

भट्टभास्कर-टीका

विश्वेभ्यो देवेभ्यः सिध्यलं कुष्ठरोगिणम्, तत्कोपजन्यत्वात्तस्य । ‘सिध्मादिम्यश्च’ इति लच् ।

विश्वास-प्रस्तुतिः

प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् ।

मूलम्

प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् ।

भट्टभास्कर-टीका

पश्चाद्दोषाय कुष्ठव्यतिरिक्ताय देहदोषाय ग्लावं नित्यकृशवपुषं, तज्जन्यत्वात्कार्श्यस्य । ग्लायतेः क्विबन्तात् मत्वर्थीयो वकारः ।

विश्वास-प्रस्तुतिः

ऋत्यै॑ जनवा॒दिन॑म् ।

मूलम्

ऋत्यै॑ जनवा॒दिन॑म् ।

भट्टभास्कर-टीका

ऋत्यै अरुणाय आर्तत्वाय जनवादिनं जनानां परिवदनशीलम् ।

विश्वास-प्रस्तुतिः

व्यृ॑द्ध्या अपग॒ल्भम् ।

मूलम्

व्यृ॑द्ध्या अपग॒ल्भम् ।

भट्टभास्कर-टीका

व्यृवधै ऋद्ध्यभावाय अपगल्भं अपगतधार्ष्ट्यं लज्जामूकम् ।

विश्वास-प्रस्तुतिः

सँ॒श॒राय॑ प्र॒च्छिद॑म् ॥14॥

मूलम्

सँ॒श॒राय॑ प्र॒च्छिद॑म् ॥14॥

भट्टभास्कर-टीका

संशराय संकीर्णत्वाय प्रध्वंसाय प्रच्छिदं प्रकर्षेण भेत्तारं शल्यानामुद्धर्तारम् ॥

इति तृतीये चतुर्थे चतुर्दशोऽनुवाकः ॥