विश्वास-प्रस्तुतिः
प्र॒ति॒श्रुत्का॑या ऋतु॒लम् ।
मूलम्
प्र॒ति॒श्रुत्का॑या ऋतु॒लम् ।
भट्टभास्कर-टीका
1प्रतिश्रुत्कायै प्रतिश्रुत्यै ऋतुलं देशराजवार्ताकथनशीलम् । प्रारब्धं सुष्ठु समापयितारमेके ।
विश्वास-प्रस्तुतिः
घोषा॑य भ॒षम् ।
मूलम्
घोषा॑य भ॒षम् ।
भट्टभास्कर-टीका
घोषाय नादाय भषं अनिबद्धप्रलापिनं वृथा घोषसारम् ।
विश्वास-प्रस्तुतिः
अन्ता॑य बहुवा॒दिन॑म् ।
मूलम्
अन्ता॑य बहुवा॒दिन॑म् ।
भट्टभास्कर-टीका
अन्ताय अन्तवते शब्दाय बहुवादिनं अतिदुर्भाषणकुशलं झडिति वक्तव्यावक्तव्यानाम् ।
विश्वास-प्रस्तुतिः
अ॒न॒न्ताय॒ मूक॑म् ।
मूलम्
अ॒न॒न्ताय॒ मूक॑म् ।
भट्टभास्कर-टीका
अनन्ताय अनिष्ठितशब्दाय मूकं अप्रतिवक्तारं वक्तव्यानाम् ।
विश्वास-प्रस्तुतिः
मह॑से वीणावा॒दम् ।
मूलम्
मह॑से वीणावा॒दम् ।
भट्टभास्कर-टीका
महसे पूजिताय शब्दाय वीणावादं वीगावादनकुशलम् ।
विश्वास-प्रस्तुतिः
क्रोशा॑य तूणव॒ध्मम् ।
मूलम्
क्रोशा॑य तूणव॒ध्मम् ।
भट्टभास्कर-टीका
क्रोशाय महाशब्दाय तूणवध्मं मुरवस्य ध्मातारम् ध्माशव्यस्य ‘आतोऽनुपसर्गे कः’ । वंशवादिनमेके ।
विश्वास-प्रस्तुतिः
आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् ।
मूलम्
आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् ।
भट्टभास्कर-टीका
आक्रन्दाय समन्तात् घोषण्याय दुन्दुभ्याघातं पटहस्य वादयितारम् ।
विश्वास-प्रस्तुतिः
अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् ।
मूलम्
अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् ।
भट्टभास्कर-टीका
अवरस्पराय अवरोपि परः प्रकृष्टो यस्मिन् शब्दे सति, छान्दसं सत्वम् । यद्वा - अवरानपि स्पृणोति प्रीणयतीति अवरस्परः शब्दः सर्वेषां हर्षहेतुः तस्मै शङ्खध्मं शङ्खस्य ध्मातारम् ।
विश्वास-प्रस्तुतिः
ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् ।
मूलम्
ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् ।
भट्टभास्कर-टीका
ऋभुभ्यः देवविशेषेभ्यः कालसन्धानहेतुभ्यः अजिनसन्धायं चर्मचीरसन्धानजीविनम् ।
विश्वास-प्रस्तुतिः
सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥13॥
मूलम्
सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥13॥
भट्टभास्कर-टीका
साध्येभ्यः देवविशेषेभ्यः कालसाद्गुण्यहेतुभ्यः चर्मम्णं कषायं पाययित्वा चर्मणां मार्दवकारिणम् । म्ना अभ्यासे, पर्वूवत्कः ॥
इति तृतीये चतुर्थे त्रयोदशोऽनुवाकः ॥