१२ पुरुषमेधः

विश्वास-प्रस्तुतिः

सरो॑भ्यो धैव॒रम् ।

मूलम्

सरो॑भ्यो धैव॒रम् ।

भट्टभास्कर-टीका

1सरोभ्यो धैवरं उभयतो जलं बध्वा तितउना मत्स्यग्राहिणम् ।

विश्वास-प्रस्तुतिः

वेश॑न्ताभ्यो॒ दाश॑म् ।

मूलम्

वेश॑न्ताभ्यो॒ दाश॑म् ।

भट्टभास्कर-टीका

वेशन्ताभ्यः अत्यल्पाद्भ्यः दाशं बळिशेन मत्स्यग्राहिणम् । नावाऽन्तः प्रविश्य मत्स्यग्राहिणमेके ।

विश्वास-प्रस्तुतिः

उ॒प॒स्थाव॑रीभ्यो॒ बैन्द॑म् ।

मूलम्

उ॒प॒स्थाव॑रीभ्यो॒ बैन्द॑म् ।

भट्टभास्कर-टीका

उपस्थावरीभ्यः तरुतीरादिपार्श्वोपस्थावरीभ्योऽद्भ्यः बैन्दं बिन्दं जालं तेन जीवतीति छान्दसोऽञ् । उडुबबिदले तरन् यो मत्स्यं गृह्णातीत्यन्ये ।

विश्वास-प्रस्तुतिः

न॒ड्व॒लाभ्य॑श्शौष्क॒लम् ।

मूलम्

न॒ड्व॒लाभ्य॑श्शौष्क॒लम् ।

भट्टभास्कर-टीका

नड्वलाभ्यः नळसंयुतजलस्थिताभ्योऽद्भ्यः शौष्कलं बळिशजीवनं, महामत्स्यानुत्थाप्य ग्रहीतारमेके ।

विश्वास-प्रस्तुतिः

पा॒र्या॑य कैव॒र्तम् ।

मूलम्

पा॒र्या॑य कैव॒र्तम् ।

भट्टभास्कर-टीका

पार्याय परतीरप्रभवाय जलाय कैवर्तं कूले मत्स्यानां पुञ्जीकृत्य हन्तारम् ।

विश्वास-प्रस्तुतिः

अ॒वा॒र्या॑य मार्गा॒रम् ।

मूलम्

अ॒वा॒र्या॑य मार्गा॒रम् ।

भट्टभास्कर-टीका

अवार्याय अपरतीरप्रभवाय मार्गारं अन्तर्जले हस्ताभ्यां मत्स्यमार्गणशीलम् ।

विश्वास-प्रस्तुतिः

ती॒र्थेभ्य॑ आ॒न्दम् ।

मूलम्

ती॒र्थेभ्य॑ आ॒न्दम् ।

भट्टभास्कर-टीका

तीर्थेभ्यः अवतारेभ्यः आन्दं तीर्थे सामिषयन्त्रबन्धनेन मत्स्यग्राहिणम् । सेतुबन्धनेनेत्येके । अदि बन्धने, अन्देन जीवतीति आन्दः ।

विश्वास-प्रस्तुतिः

विष॑मेभ्यो मैना॒लम् ।

मूलम्

विष॑मेभ्यो मैना॒लम् ।

भट्टभास्कर-टीका

विषमेभ्यः अतीर्थभूतेभ्यः जलपर्यन्तेभ्यः मैनालं जालजीविनम् । महानद्यां यन्त्रजीविनमेके ।

विश्वास-प्रस्तुतिः

स्वने॑भ्य॒ᳶ पर्ण॑कम् ।

मूलम्

स्वने॑भ्य॒ᳶ पर्ण॑कम् ।

भट्टभास्कर-टीका

स्वनेभ्यः सशब्दाभ्योऽद्भ्यः पर्णकं सविषं पर्णं जलस्योपरि स्थापयित्वा मत्स्यग्राहिणम् । स हि हस्तताडनसमुद्भूतशब्दसन्त्रासोत्थितान् गृह्णाति ।

विश्वास-प्रस्तुतिः

गुहा॑भ्य॒ᳵ किरा॑तम् ।

मूलम्

गुहा॑भ्य॒ᳵ किरा॑तम् ।

भट्टभास्कर-टीका

गुहाभ्यः गह्वरेभ्यः किरातं पर्वतगुहावासिनम् ।

विश्वास-प्रस्तुतिः

सानु॑भ्यो॒ जम्भ॑कम् ।

मूलम्

सानु॑भ्यो॒ जम्भ॑कम् ।

भट्टभास्कर-टीका

सानुभ्यः पर्वतशिखरेभ्यः जम्भकं सानुचरम् । गात्राणां जृम्भयितारमेके । पर्वतेभ्यः किंपूरुषं गायकं पर्वतवासिनम् ॥

इति तृतीये चतुर्थे द्वादशोऽनुवाकः ॥