विश्वास-प्रस्तुतिः
य॒म्यै॑ यम॒+++(युगल)+++सूम् ।
मूलम्
य॒म्यै॑ यम॒सूम् ।
भट्टभास्कर-टीका
1यम्यै यमस्य स्त्रियै यमसूं पुत्रयमळप्रसविनीम् ।
विश्वास-प्रस्तुतिः
अथ॑र्व॒भ्यो ऽव॑तोकाम्+++(=गर्भस्राविणीम्)+++ ।
मूलम्
अथ॑र्व॒भ्योऽव॑तोकाम् ।
भट्टभास्कर-टीका
अथर्वभ्यः अभिचारप्रधानेभ्यः शाखाविशेषेभ्यः अवतोकां गर्भविस्राविणीं स्त्रियम् ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒राय॑ पर्या॒रिणी॑म्+++(=प्रसव-कालातिक्रमेण सूते या)+++ ।
मूलम्
सव्ँ॒व॒त्स॒राय॑ पर्या॒रिणी॑म् ।
भट्टभास्कर-टीका
संवत्सराय बार्हस्पत्ये युगे पञ्चवर्षे प्रथमादीनां संवत्सरादय आख्याः पर्यारिणीं प्रसवकालातिक्रमेण या प्रसूते । जननकालातिक्रमेण या गर्भं धते इत्येके । स्त्रीपुंसौ पर्यायेण प्रतिवर्षं यस्याः प्रमीयेते सेत्यपरे ।
विश्वास-प्रस्तुतिः
प॒रि॒व॒त्स॒राय+++(=द्वितीयाब्दः)+++ + अवि॑जाताम्+++(=द्वितीयप्रसवरहिताम्)+++ ।
मूलम्
प॒रि॒व॒त्स॒रायावि॑जाताम् ।
भट्टभास्कर-टीका
परिवत्सराय द्वितीयाय अविजातां अप्रसविनीं द्वितीयप्रसवरहिताम् ।
विश्वास-प्रस्तुतिः
इ॒दा॒व॒त्स॒राय॑+++(=तृतीयाब्दाय)+++ अप॒स्कद्+++(=गर्भपाकात् पूर्वं प्रसवस्य बाधनम्, तस्मिन्)+++-व॑रीम्+++(=कुशलाम्)+++ ।
मूलम्
इ॒दा॒व॒त्स॒राया॑प॒स्कद्व॑रीम् ।
भट्टभास्कर-टीका
इदावत्सराय तृतीयाय अपस्कद्वरीं गर्भपरिणामात्प्रागेव ध्वस्तगर्भाम् । अपपूर्वात् स्कन्देरौणादिकः ष्वरच् ।
विश्वास-प्रस्तुतिः
इ॒द्व॒त्स॒राय+++(=चतुर्थाब्दाय)+++ +अ॒तीत्व॑रीम्+++(=प्रसवकालात्ययशीलाम्)+++ ।
मूलम्
इ॒द्व॒त्स॒राया॒तीत्व॑वरीम् ।
भट्टभास्कर-टीका
इद्वत्सराय चतुर्थाय अतीत्वरीं अतिशयेन प्रसवकालात्ययशीलाम् । ‘इण्णशिजि’ इति क्वरप् ।
विश्वास-प्रस्तुतिः
व॒त्स॒राय॒+++(=पञ्चमाब्दाय)+++ विज॑र्जराम्+++(=अप्रसूत्यैव जीर्णाम्)+++ ।
मूलम्
व॒त्स॒राय॒ विज॑र्जराम् ।
भट्टभास्कर-टीका
वत्सराय पञ्चमाय विजर्जरां अप्रसूयैव जीर्णाम् ।
विश्वास-प्रस्तुतिः
स॒र्व॒न्थ्-स॒राय॒ पलि॑क्नीम्+++(=प्रथमे वयस्येव पलिताङ्गीम्)+++ ।
मूलम्
स॒र्व॒न्त्स॒राय॒ पलि॑क्नीम् ।
भट्टभास्कर-टीका
सर्वंत्सराय, सर छद्म-गतौ छान्दसः खच्, यस्सर्वं जगच् छादयति विधेयीकरोति तस्मै कालाय पलिक्नीं वृथा पलितां प्रथमवयस्येव पलिताङ्गीम् । ‘छन्दसि क्नमेके’ इति छन्दसि क्नम् ।
विश्वास-प्रस्तुतिः
वना॑य वन॒पम् ।
मूलम्
वना॑य वन॒पम् ।
भट्टभास्कर-टीका
वनाय वनपं वनस्य पातारम् ।
विश्वास-प्रस्तुतिः
अ॒न्यतो॑ऽरण्याय दाव॒+++(=अरण्याग्नि)+++-पम् ॥11॥
मूलम्
अ॒न्यतो॑रण्याय दाव॒पम् ॥11॥
भट्टभास्कर-टीका
अन्यतोऽरण्याय एकपार्श्वारण्याय पार्श्वान्तरजनपदाय देशाय दावपं अरण्याग्निपातारम् ॥
इति तृतीये चतुर्थे एकादशोऽनुवाकः ॥