विश्वास-प्रस्तुतिः
म॒न्यवे॑ऽयस्ता॒पम् ।
मूलम्
म॒न्यवे॑ऽयस्ता॒पम् ।
भट्टभास्कर-टीका
1मन्यवे क्रोधजन्मने दीप्तये अयस्तापं अयस्तापयितारम् ।
विश्वास-प्रस्तुतिः
क्रोधा॑य निस॒रम्+++(=निःसारकम्)+++ ।
मूलम्
क्रोधा॑य निस॒रम् ।
भट्टभास्कर-टीका
क्रोधाय निसरं बद्धानां बहिर्निस्सारयितारम् । वधकारिणमेके । शोकायाभिसरं रथपुरस्सरम् ।
विश्वास-प्रस्तुतिः
शोका॑याभिस॒रम्+++(=रथस्य पुरतो गन्तारम्)+++ ।
मूलम्
शोका॑याभिस॒रम् ।
विश्वास-प्रस्तुतिः
उ॒त्कू॒ल॒+++(→अधिक-लाभ)+++-वि॒कू॒लाभ्या॑न्+++(→न्यूनलाभाभ्यां)+++ त्रि॒स्थिन॑म् ।
मूलम्
उ॒त्कू॒ल॒वि॒कू॒लाभ्या॑न्त्रि॒स्थिन॑म् ।
भट्टभास्कर-टीका
उत्कूलविकूलाभ्यां कांक्षितादधिकलाभः उत्कूलः, कांक्षितांशो विकूलः, ताभ्यां त्रिस्थिनं त्रिषु स्थितशरीरवन्तं विकलशरीरतया रथमारुह्यैव यो गच्छति ।
विश्वास-प्रस्तुतिः
योगा॑य यो॒क्तार॑म् ।
मूलम्
योगा॑य यो॒क्तार॑म् ।
भट्टभास्कर-टीका
योगाय अलब्धलाभाय योक्तारं रथस्य ।
विश्वास-प्रस्तुतिः
क्षेमा॑य विमो॒क्तार॑म् ।
मूलम्
क्षेमा॑य विमो॒क्तार॑म् ।
भट्टभास्कर-टीका
क्षेमाय लब्धपालनाय विमोक्तारं रथस्यैव ।
विश्वास-प्रस्तुतिः
वपु॑षे मानस्कृ॒तम्+++(=केशरचनाकारिणं; चर्मकारिणमेके)+++ ।
मूलम्
वपु॑षे मानस्कृ॒तम् ।
भट्टभास्कर-टीका
वपुषे रूपकान्त्यै मानस्कृतं केशरचनाकारिणं; चर्मकारिणमेके । स्वार्थिकोऽण् ।
विश्वास-प्रस्तुतिः
शीला॑याञ्जनीका॒रम्+++(=अञ्जनेनालङ्कर्तारम्)+++ ।
मूलम्
शीला॑याञ्जनीका॒रम् ।
भट्टभास्कर-टीका
शीलाय स्वभावाय अञ्जनीकारं अक्ष्णोरञ्जयितारं, तेन हि अक्ष्णोस्स्वभावलाभः । ल्युटि छान्दस ईकारः । च्वा वा ईकारः । शलाका वा अञ्जनी ।
विश्वास-प्रस्तुतिः
निर्र्ऋ॑त्यै कोशका॒रीम्+++(=लोहाध्मानकरीम् खड्ग-कोश-करीं वा)+++ ।
मूलम्
निर्ऋ॑त्यै कोशका॒रीम् ।
भट्टभास्कर-टीका
निर्ऋत्यै पापदेवतायै कोशकारीं ताम्रलोहध्मात्रीं स्त्रियम्।
विश्वास-प्रस्तुतिः
य॒माया॒सूम्+++(=वन्ध्याम्)+++ ॥ 10 ॥
मूलम्
य॒माया॒सूम् ॥10॥
भट्टभास्कर-टीका
यमाय प्राणहारिणे असूं सूतिरहितां स्त्रियम् । क्विबन्तेन बहुव्रीहौ ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥
इति तृतीये चतुर्थे दशमोऽनुवाकः ॥