०९ पुरुषमेधः

विश्वास-प्रस्तुतिः

अर्मे॑भ्यो+++(=गतिविशेषाय)+++ हस्ति॒पम् ।

मूलम्

अर्मे॑भ्यो हस्ति॒पम् ।

भट्टभास्कर-टीका

1अर्मेभ्यः गतिविशेषेभ्यः हस्तिपं गजारोहिणम् ।

विश्वास-प्रस्तुतिः

ज॒वाया॑श्व॒पम् ।

मूलम्

ज॒वाया॑श्व॒पम् ।

भट्टभास्कर-टीका

जवाय वेगाय अश्वपं अश्वानां पातारम् ।

विश्वास-प्रस्तुतिः

पुष्ट्यै॑ गोपा॒लम् ।

मूलम्

पुष्ट्यै॑ गोपा॒लम् ।

भट्टभास्कर-टीका

पुष्ट्यै गोपालं गवां पालयितारं, गावो हि पुष्टिहेतवः ।

विश्वास-प्रस्तुतिः

तेज॑सेऽजपा॒लम् ।

मूलम्

तेज॑सेऽजपा॒लम् ।

भट्टभास्कर-टीका

तेजसे अजपालं अजानां पालयितारं, अजा हि तेजस्विनः हविष्ट्वात् ।

विश्वास-प्रस्तुतिः

वी॒र्या॑याविपा॒लम् ।

मूलम्

वी॒र्या॑याविपा॒लम् ।

भट्टभास्कर-टीका

वीर्याय अविपालं अवीनां पालयितारं वीर्यजत्वादवीनां ‘वीर्याद्ध्यसृज्यन्त’ इति ।

विश्वास-प्रस्तुतिः

इरा॑यै+++(=अन्नाय)+++ की॒नाश॑म्+++(=कर्षकम्)+++ ।

मूलम्

इरा॑यै की॒नाश॑म् ।

भट्टभास्कर-टीका

इरायै अन्नाय कीनाशं कर्षकं, सदा स्वीकारिणमित्यन्ये ।

विश्वास-प्रस्तुतिः

की॒लाला॑य+++(=जलाय)+++ सुराका॒रम् ।

मूलम्

की॒लाला॑य सुराका॒रम् ।

भट्टभास्कर-टीका

कीलालाय पुराणाय वारिणे सुराकारं सुराया उत्पादयितारम् ।

विश्वास-प्रस्तुतिः

भ॒द्राय॑ गृह॒पम् ।

मूलम्

भ॒द्राय॑ गृह॒पम् ।

भट्टभास्कर-टीका

भद्राय कल्याणाय गृहपं गृहाणां पालयितारं दौवारिकम् ।

विश्वास-प्रस्तुतिः

श्रेय॑से वित्त॒धम् ।

मूलम्

श्रेय॑से वित्त॒धम् ।

भट्टभास्कर-टीका

श्रेयसे अभ्युदयाय वित्तधं राज्ञो धनस्य पालकम् ।

विश्वास-प्रस्तुतिः

अध्य॑क्षायानुक्ष॒त्तार॑म्+++(=सारथेर् अनुसारिणम्)+++ ॥ 9 ॥

मूलम्

अध्य॑क्षायानुक्ष॒त्तार॑म् ॥9॥

भट्टभास्कर-टीका

अध्यक्षाय प्रत्यक्षकरणाय अनुक्षत्तारं क्षत्तुरनन्तरं आयव्ययप्रत्यवेक्षिणं राज्ञः ॥

इति तृतीये चतुर्थे नवमोऽनुवाकः ॥