०८ पुरुषमेधः

विश्वास-प्रस्तुतिः

भायै॑+++(=दीप्त्यै)+++ दार्व्-आहा॒रम्+++(=इन्धनाहारम्)+++ ।

मूलम्

भायै॑ दार्वाहा॒रम् ।

भट्टभास्कर-टीका

1भायै त्विषे दार्वाहारं इन्धनानामाहर्तारम् ।

विश्वास-प्रस्तुतिः

प्र॒भाया॑ आग्ने॒न्धम् ।

मूलम्

प्र॒भाया॑ आग्ने॒न्धम् ।

भट्टभास्कर-टीका

प्रभायै प्रकृष्टत्विषे आग्नेन्धं, यो भूत्यर्थमग्निमिन्धे । कर्मण्यणन्तात् स्वार्थिकोऽण् ।

विश्वास-प्रस्तुतिः

नाक॑स्य +++(ऊर्ध्व-)+++पृ॒ष्ठाया॑भिषे॒क्तार॑म् ।

मूलम्

नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तार॑म् ।

भट्टभास्कर-टीका

नाकस्य पृष्ठाय अविद्यमानदुःखस्य स्थानस्य यत्पृष्ठं प्रधानभूतं स्थानं तस्मै अभिषेक्तारं स्नापकम् ।

विश्वास-प्रस्तुतिः

ब्र॒ध्नस्य॑+++(=सूर्यस्य)+++ वि॒ष्टपा॑य+++(=लोकाय)+++ पात्र-निर्णे॒गम्+++(=शोधकम्)+++ ।

मूलम्

ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् ।

भट्टभास्कर-टीका

ब्रध्नस्य विष्टपाय आदित्यस्य लोकाय पात्रनिर्णेगं पात्राणां निर्णेक्तारम् । ‘क्विन्प्रत्ययस्य कुः’ इति कुत्वम्, करणे वा घञ् ।

विश्वास-प्रस्तुतिः

दे॒व॒लो॒काय॑ +++(वैर-)+++पेशि॒तार॑म् ।

मूलम्

दे॒व॒लो॒काय॑ पेशि॒तार॑म् ।

भट्टभास्कर-टीका

देवलोकाय पेशितारं प्रशान्तस्य वैरस्य उत्थापयितारम् । पिश अवयवे । देवलोकेऽपि हि वैरं जनयति साधकानाम् ।

विश्वास-प्रस्तुतिः

म॒नु॒ष्य॒लो॒काय॑ +++(वैर-)+++प्रकरि॒तार॑म्+++(←कृ)+++ ।

मूलम्

म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तार॑म् ।

भट्टभास्कर-टीका

मनुष्यलोकाय प्रकरितारं स्निग्धानां वैरस्योत्पादनेन विश्लेषयितारं, सहि क्रूरस्वभावो भवति ।

विश्वास-प्रस्तुतिः

सर्वे॑भ्यो लो॒केभ्य॑ +++(वैर-)+++उपसे॒क्तार॑म्+++(=शमयितारम्)+++ ।

मूलम्

सर्वे॑भ्यो लो॒केभ्य॑ उपसे॒क्तार॑म् ।

भट्टभास्कर-टीका

सर्वेभ्यो लोकेभ्यः उपसेक्तारं वैरस्य शमयितारं, तस्य सर्वलोकापेक्षितत्वात् ।

विश्वास-प्रस्तुतिः

अव॑र्त्यै+++(=कृच्छ्राय)+++ व॒धायो॑पमन्थि॒तार॑म् +++(वैरस्य)+++ ।

मूलम्

अव॑र्त्यै व॒धायो॑पमन्थि॒तार॑म् ।

भट्टभास्कर-टीका

अवर्त्यै वधाय कृच्छ्रापत्तिलक्षणवधाय उपमन्थितारं स्वयमुपेत्य वैरस्य जनयितारं, वैरस्यावर्तिजनकत्वात् ।

विश्वास-प्रस्तुतिः

सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघ॑म् ।

मूलम्

सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघ॑म् ।

भट्टभास्कर-टीका

सुवर्गाय लोकाय भागदुघं, भागाहर्तारं कर्षकेभ्यः । ‘दुहः कब्धश्च’ इति कप् ।

विश्वास-प्रस्तुतिः

वर्षि॑ष्ठाय॒+++(=अतिप्रवृद्धाय)+++ नाका॑य +++(भोजन-)+++परिवे॒ष्टार॑म् ॥ 8 ॥

मूलम्

वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ॥8॥

भट्टभास्कर-टीका

वर्षिष्ठाय प्रवृद्धतमाय नाकाय सुखस्थानाय परिवेष्टारं भोजयितारम् । विषल् व्याप्तौ ॥

इति तृतीये चतुर्थे अष्टमोऽनुवाकः ॥