०७ पुरुषमेधः

विश्वास-प्रस्तुतिः

ऋत्यै॑ +++(=चौर्यात्परं चोरगतिः, तस्यै)+++ स्ते॒नहृ॑दयम् ।

मूलम्

ऋत्यै॑ स्ते॒नहृ॑दयम् ।

भट्टभास्कर-टीका

1ऋत्यै ईत्यै ऋतीयतेः ‘इन्सर्वधातुभ्यः’ इतीन्प्रत्ययः । स्तेनहृदयं स्तेयप्रधानहृदयम् ।

विश्वास-प्रस्तुतिः

वैर॑-हत्याय॒ पिशु॑नम् ।

मूलम्

वैर॑हत्याय॒ पिशु॑नम् ।

भट्टभास्कर-टीका

वैरहत्याय वीरहत्यायुक्तो वीरहा तद्भावाय पिशुनं गोपनीयानां प्रकाशयितारम् ।

विश्वास-प्रस्तुतिः

विवि॑त्त्यै+++(=विशिष्ट-लाभ-देव्यै)+++ क्ष॒त्तार॑म्+++(=सारथिम्)+++ ।

मूलम्

विवि॑त्त्यै क्ष॒त्तार॑म् ।

भट्टभास्कर-टीका

विवित्यै विवेकाय क्षत्तारं राजस्थानीयमन्त्रिमुख्यम् ।

विश्वास-प्रस्तुतिः

औप॑द्रष्टाय +++(=प्रत्यवेक्षितायै)+++ सङ्ग्रही॒तार॑म् ।

मूलम्

औप॑द्रष्टाय सङ्ग्रही॒तार॑म् ।

भट्टभास्कर-टीका

औपद्रष्टाय उपद्रष्टा प्रत्यवेक्षिता तद्भावाय । अन्त्यलोपश्छादसः । उद्गात्रादिर्द्वष्टव्यः । सङ्ग्रहीतारं भाण्डागाराध्यक्षं करसंङ्ग्रहकारिणं वा ।

विश्वास-प्रस्तुतिः

बला॑यानुच॒रम् ।

मूलम्

बला॑यानुच॒रम् ।

भट्टभास्कर-टीका

बलाय अनुचरं सेवकम् ।

विश्वास-प्रस्तुतिः

भू॒म्ने प॑रिष्क॒न्दम् +++(=परिचारकम्)+++ ।

मूलम्

भू॒म्ने प॑रिष्क॒न्दम् ।

भट्टभास्कर-टीका

भूम्ने महत्त्वाय परिष्कन्दं, परिचारकम् । वीणावादिनमित्येके ।

विश्वास-प्रस्तुतिः

प्रि॒याय॑ प्रियवा॒दिन॑म् ।

मूलम्

प्रि॒याय॑ प्रियवा॒दिन॑म् ।

भट्टभास्कर-टीका

प्रियाय प्रियवादिनम् । गतम् ।

विश्वास-प्रस्तुतिः

अरि॑ष्ट्या+++(=अहिंसाभिमानिन्यै)+++ अश्वसा॒दम्+++(=अश्वरोहिणम्)+++ ।

मूलम्

अरि॑ष्ट्या अश्वसा॒दम् ।

भट्टभास्कर-टीका

अरिष्ट्यै अहिंसायै अश्वसादं अश्वारोहिणम् ।

विश्वास-प्रस्तुतिः

मेधा॑य+++(=यज्ञाय)+++ वासᳶ-पल्पू॒लीम्+++(=शोधयित्रीम्)+++ ।

मूलम्

मेधा॑य वासᳶपल्पू॒लीम् ।

भट्टभास्कर-टीका

मेधाय यज्ञाय शोधनाय वासःपल्पूलीं वाससः शोधयित्रीं रजकस्त्रियम् ।

विश्वास-प्रस्तुतिः

प्र॒का॒माय॑ +++(वस्त्र-)+++रजयि॒त्रीम् ॥ 7 ॥

मूलम्

प्र॒का॒माय॑ रजयि॒त्रीम् ॥7॥

भट्टभास्कर-टीका

प्रकामाय पकृष्टाय कामाय रजयित्रीं रञ्जयित्रीं वाससाम् । चित्रकारिणीमित्येके । छन्दसोऽनुनासिकलोपः ॥

इति तृतीये चतुर्थे सप्तमोऽनुवाकः ॥