विश्वास-प्रस्तुतिः
उ॒त्सा॒देभ्य॑ᳶ +++(=श्रान्तिभ्यः)+++ कु॒ब्जम् ।
मूलम्
उ॒त्सा॒देभ्य॑ᳵ कु॒ब्जम् ।
भट्टभास्कर-टीका
1उत्सादेभ्यः शरीरक्लेशेभ्यः कुब्जं वक्रापराङ्गं, यस्य सर्वे अवयवा अविधेयाः ।
विश्वास-प्रस्तुतिः
प्र॒मुदे॑ वाम॒नम् ।
मूलम्
प्र॒मुदे॑ वाम॒नम् ।
भट्टभास्कर-टीका
प्रमुदे प्रकृष्टाय हर्षाय वामनं ह्रस्वाङ्गम्, स हि लघुकायत्वात् प्रहृष्टो भवति ।
विश्वास-प्रस्तुतिः
द्वा॒र्भ्यस् +++(→चक्षुरादिभ्यः)+++ स्रा॒मम्+++(=रोगिणम्)+++ ।
मूलम्
द्वा॒र्भ्यस्स्रा॒मम् ।
भट्टभास्कर-टीका
द्वार्भ्यः चक्षुरादिभ्यः स्रामं रोगिणम्, द्वाराणां शक्तिहैन्यात् रोगी भवति ।
विश्वास-प्रस्तुतिः
स्वप्ना॑या॒न्धम् ।
मूलम्
स्वप्ना॑या॒न्धम् ।
भट्टभास्कर-टीका
स्वप्नायान्धं हीनचाक्षुर्ज्ञानं, स्वप्ने हि सर्वे तादृशाः ।
विश्वास-प्रस्तुतिः
अध॑र्माय बधि॒रम् ।
मूलम्
अध॑र्माय बधि॒रम् ।
भट्टभास्कर-टीका
अधर्माय बधिरं श्रोत्रज्ञानशूल्यं, स ह्यधर्मबहुलः ।
विश्वास-प्रस्तुतिः
सं॒ज्ञाना॑य स्मर-का॒रीम्+++(← मन्त्रादिभिस् स्मरं कामं योत्पादयेत्)+++ ।
मूलम्
सं॒ज्ञाना॑य स्मरका॒रीम् ।
भट्टभास्कर-टीका
संज्ञानाय सम्यग्बोधाय स्मरकारीं या स्त्री मन्त्रौषधादिभिः भर्तुस्संवननकारिणी । कुशलबुद्धिः ।
विश्वास-प्रस्तुतिः
प्र॒का॒मोद्या॑य+++(←वद्)+++ +++(प्रकाम-)+++ +उप॒सद॑म् ।
मूलम्
प्र॒का॒मोद्या॑योप॒सद॑म् ।
भट्टभास्कर-टीका
प्रकामोद्याय निष्प्रयोजनं बहुप्रलापिने । ‘वदस्सुपि क्यप्च’ इति क्यप् । उपसदं असत्यपि प्रयोजने उपसदनशीलः उपसत्, स हि बहुप्रलापी पार्श्ववासरुचिर्भवति । ‘सत्सूद्विष’ इति क्विप् ।
विश्वास-प्रस्तुतिः
आ॒शि॒क्षायै॑ +++(=अल्पपरिचयाय)+++ प्र॒श्निन॑म् ।
मूलम्
आ॒शि॒क्षायै॑ प्र॒श्ञिन॑म् ।
भट्टभास्कर-टीका
आशिक्षायै अल्पशिक्षा आशिक्षा स्वयमभ्यूहः । ‘शिक्ष विद्योपादाने’ ‘गुरोश्च हलः’ इत्याकारः । तस्यै प्रश्निनं अभियोक्तारम् ।
विश्वास-प्रस्तुतिः
उ॒प॒शि॒क्षाया॑ +++(विषयस्याल्पपरिचयः)+++ अभिप्र॒श्निन॑म् +++(=प्रश्नस्योपरि पृच्छकम्)+++।
मूलम्
उ॒प॒शि॒क्षाया॑ अभिप्र॒श्ञिन॑म् ।
भट्टभास्कर-टीका
उपशिक्षायै उपेत्य गुरून्या समीचीना शिक्षा तस्यै अभिप्रश्निनं उत्तरवादिनं पृष्टस्योपरि पुनः प्रश्नः अभिप्रश्नः ।
विश्वास-प्रस्तुतिः
म॒र्यादा॑यै प्रश्ञविवा॒कम्+++(=प्रश्नोत्तरविवेकवचनपटुम्)+++ ॥6॥
मूलम्
म॒र्यादा॑यै+++(=शास्त्रव्यवस्थायै)+++ प्रश्ञ-विवा॒कम् +++(=निर्णेतारम्)+++ ॥6॥
भट्टभास्कर-टीका
मर्यादायै शास्त्रव्यवस्थायै प्रश्नविवाकं प्राड्विवाकं निर्णेतारम् ॥
इति तृतीये चतुर्थे षष्ठोऽनुवाकः॥