०५ पुरुषमेधः

विश्वास-प्रस्तुतिः

न॒दीभ्य॑ᳶ पौञ्जि॒ष्टम्+++(=मत्स्यव्याधम्)+++ ।

मूलम्

न॒दीभ्य॑ᳶ पौञ्जि॒ष्टम् ।

भट्टभास्कर-टीका

1नदीभ्यः पौञ्जिष्टं कैवर्तम्, यो नदीर्न मुञ्चति ।

विश्वास-प्रस्तुतिः

ऋ॒क्षीका॑भ्यो॒+++(=शून्यस्थलीभ्यो)+++ नैषा॑दम् ।

मूलम्

ऋ॒क्षीका॑भ्यो॒ नैषा॑दम् ।

भट्टभास्कर-टीका

ऋक्षीकाभ्यः शून्यस्थलीभ्यः । छान्दसं दीर्घत्वम् । नैषादम् । स्वार्थिकोऽञ् । स हि सर्वार्थशून्यः ।

विश्वास-प्रस्तुतिः

पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद॑म् ।

मूलम्

पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद॑म् ।

भट्टभास्कर-टीका

पुरुषव्याघ्राय व्याघ्रवन्मूर्खाचारः पुरुषव्याघ्रः तस्मै दुर्मदं अस्थानमदम् ।

विश्वास-प्रस्तुतिः

प्र॒युद्भ्य॒ उन्म॑त्तम् ।

मूलम्

प्र॒युद्भ्य॒ उन्म॑त्तम् ।

भट्टभास्कर-टीका

प्रयुद्भ्यः प्रकर्षेण योद्धृभ्यः उन्मत्तं उन्मादिनं, स हि सर्वं प्रबाधते ।

विश्वास-प्रस्तुतिः

ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्य॑म् +++(=शास्त्रीय-संस्कार-रहितम्)+++।

मूलम्

ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्य॑म् ।

भट्टभास्कर-टीका

गन्धर्वाप्सराभ्यः, अप्सरसां अन्त्यलोपश्छान्दसः । व्रात्यं पतितसावित्रीकं त्रैवर्णिकेम्यो निकृष्टम् ।

विश्वास-प्रस्तुतिः

स॒र्प॒दे॒व॒ज॒नेभ्यो ऽप्र॑तिपदम्+++(=असंस्कारयोग्यम्)+++ ।

मूलम्

स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् ।

भट्टभास्कर-टीका

सर्पदेवजनेभ्यः सर्पेम्यः, देवानां गुणभूतेभ्यो गन्धर्वेभ्यश्च अप्रतिपदं अप्रतिपत्तारं मूढम् । कर्तरि क्विप् ।

विश्वास-प्रस्तुतिः

अवे॑भ्यᳵ+++(=अन्नेभ्यः)+++ कित॒वम् ।

मूलम्

अवे॑भ्यᳵ कित॒वम् ।

भट्टभास्कर-टीका

अवेभ्यः अवोभ्यः अन्नेभ्यः । अन्त्यलोपश्छान्दसः । कितवं द्यूतसक्तं अन्नार्थितया ।

विश्वास-प्रस्तुतिः

इ॒र्यता॑या॒ +++(=अन्नयोग्यतायै)+++ अकि॑तवम् ।

मूलम्

इ॒र्यता॑या॒ अकि॑तवम् ।

भट्टभास्कर-टीका

इर्यतायै इरा अन्नं तत्र साधुः इर्यः तद्भावाय अकितवं कितवसदृशम्, स ह्यन्नसमृद्धो भूयासमिति कितववद्वर्तते ।

विश्वास-प्रस्तुतिः

पि॒शा॒चेभ्यो॑ +++(वंश-)+++बि+++(वि)+++दल+++(=दलन)+++का॒रम्+++(=शूर्पादिस्रष्टारम्)+++ ।
+++(बिदलमूले पिशाचा इत्याहुः ।)+++

मूलम्

पि॒शा॒चेभ्यो॑ बिदलका॒रम् ।

भट्टभास्कर-टीका

पिशाचेभ्यो बिदलकारं बिदलमयानां कर्तारम् । बिदलमूले पिशाचा इत्याहुः । पिशाचकल्पो वा बिदलकारः ।

विश्वास-प्रस्तुतिः

या॒तु॒धाने॑भ्यᳵ कण्टकका॒रम् ॥5॥

मूलम्

या॒तु॒धाने॑भ्यᳵ कण्टकका॒रम् ॥5॥

भट्टभास्कर-टीका

यातुधानेभ्यो रक्षोभ्यः कण्टककारं सूच्यादिकारी शिल्पी यातुधानवत् क्षुद्रोपद्रवकारी ॥

इति तृतीये चतुर्थे पञ्चमोऽनुवाकः ॥