विश्वास-प्रस्तुतिः
स॒न्धये॑ जा॒रम् ।
मूलम्
स॒न्धये॑ जा॒रम् ।
भट्टभास्कर-टीका
1सन्धये संघटनायै जारं पारदारिकं स हि संघटयितारमपेक्षते ।
विश्वास-प्रस्तुतिः
गे॒हायो॑पप॒तिम्+++(=प्रज्ञातजारम्)+++ ।
मूलम्
गे॒हायो॑पप॒तिम् ।
भट्टभास्कर-टीका
गेहाय वेश्मने उपपतिं प्रज्ञातजारम् । स हि तद्भर्तृर्गृहे तेनानुज्ञात एव तां भुङ्क्ते ।
विश्वास-प्रस्तुतिः
निर्ऋ॑त्यै परिवि॒त्तम्+++(=ज्येष्ठात् पूर्वम् एवोढभार्यम्)+++ ।
मूलम्
निर्ऋ॑त्यै परिवि॒त्तम् ।
भट्टभास्कर-टीका
निर्ऋत्यै अलक्ष्म्यै परिवित्तं यस्मात्पूर्वं कनीयान् ऊढभार्यः, स हि निर्ऋतिगृहीतत्वात् भार्यां न विन्दते । ‘विन्तेर्विन्नश्च वित्तश्च’ इति नत्वाभावः । ‘संज्ञायामनाचितादीनाम्’ इत्युत्तरपदान्तोदात्तत्वम् । आर्त्यै॑ परिविविदा॒नम् ।
विश्वास-प्रस्तुतिः
आर्त्यै॑ परिविविदा॒नम्+++(=ज्येष्ठाम् पूर्वं वोढुं य आग्रहङ्करोति)+++ ।
मूलम्
आर्त्यै॑ परिविविदा॒नम् ।
भट्टभास्कर-टीका
आर्त्यै दुःखाय परिविविदानं ज्येष्ठात्पूर्वमूढभार्यम् । ताच्छीलिकश्शानच्, व्यत्ययेन शपः श्लुः । स हि ज्येष्ठपरिवर्जनेन भार्यां विन्दमानः निन्दिताचारः दुःखभाजनं भवति ।
विश्वास-प्रस्तुतिः
अरा॑ध्यै+++(=अ-सिद्ध्यै)+++ दिधिषू॒+++(=द्विर् विवाहं या कृतवती)+++पति॑म् ।
मूलम्
अरा॑ध्यै दिधिषू॒पति॑म् ।
भट्टभास्कर-टीका
अराद्ध्यै असिद्ध्यै दिधिषूपतिं ज्यायस्यामनूढायां कनीयसी पूर्वमूह्यते सा दिधिषूः तस्याः पतिं, तस्यामनूढायां तस्य हि तया न कदाचिदप्यभ्युदयराद्धिः ।
विश्वास-प्रस्तुतिः
प॒वित्रा॑य भि॒षज॑म् ।
मूलम्
प॒वित्रा॑य भि॒षज॑म् ।
भट्टभास्कर-टीका
पवित्राय शोधनसमर्थाय भिषजं वैद्यं, स हि शोधयति व्याधीन् ।
विश्वास-प्रस्तुतिः
प्र॒ज्ञाना॑य नक्षत्रद॒र्शम् ।
मूलम्
प्र॒ज्ञाना॑य नक्षत्रद॒र्शम् ।
भट्टभास्कर-टीका
प्रज्ञानाय प्रकृष्टाय ज्ञानाय नक्षत्रदर्शं सांवत्सरं, स हि ग्रहगत्यादिकं गोळनिर्माणादि च प्रज्ञानेन पश्यति ।
विश्वास-प्रस्तुतिः
निष्कृ॑त्यै पेशस्का॒रीम्+++(=सुवर्णकारभार्याम्)+++ ।
मूलम्
निष्कृ॑त्यै पेशस्का॒रीम् ।
भट्टभास्कर-टीका
निष्कृत्यै निष्कृतिकरणशक्त्यै पेशस्कारीं सुवर्णकारस्त्रियम् । सा हि पेशसां रूपाणां विचित्राणां निर्मातुः भार्या ।
विश्वास-प्रस्तुतिः
बला॑योप॒दाम् +++(=अन्नमात्र-प्रदानेन गृहीता)+++।
मूलम्
बला॑योप॒दाम् ।
भट्टभास्कर-टीका
वलाय उपदां, अन्नमात्रप्रदानेन या कन्या गृह्यते, सा हि बलेनाभिभूयते । धुरुधुरायमाणकण्ठेत्येके ।
विश्वास-प्रस्तुतिः
वर्णा॑यानू॒रुध॑म् +++(=स्वप्रयोजनं विना यः परानुरोधेन प्रवर्तते)+++ ॥ 4 ॥
मूलम्
वर्णा॑यानू॒रुध॑म् ॥4॥
भट्टभास्कर-टीका
वर्णाय शुक्लादिगुणाय अनूरुधं परानुरोधेन निष्प्रयोजनं यः प्रवर्तते स हि गुणवन्नित्यपराधीनो भवति । क्वचिच्छान्दसमुपसर्गदीर्घत्वम् ॥
इति तृतीये चतुर्थे चतुर्थोऽनुवाकः ॥