०३ पुरुषमेधः

विश्वास-प्रस्तुतिः

श्रमा॑य कौला॒लम् +++(=कुम्भकार-जम्)+++ ।

मूलम्

श्रमा॑य कौला॒लम् ।

भट्टभास्कर-टीका

1श्रमाय शान्तये कौलालम् । स्वार्थिकोऽण् । यः श्रमेणैव जीवति ।

विश्वास-प्रस्तुतिः

मा॒यायै॑ कार्मा॒रम्+++(=लोहकारम्)+++ ।

मूलम्

मा॒यायै॑ कार्मा॒रम् ।

भट्टभास्कर-टीका

मायायै विचित्रकरणशक्त्यै कार्मारं लोहकारम् ।

विश्वास-प्रस्तुतिः

रू॒पाय॑ मणिका॒रम् ।

मूलम्

रू॒पाय॑ मणिका॒रम् ।

भट्टभास्कर-टीका

रूपाय शुक्लादिकाय मणिकारं माणिक्यादिविविधमणिसंस्कारकर्तारम् ।

विश्वास-प्रस्तुतिः

शुभे॑ व॒पम् +++(=बीजवप्तारम्)+++।

मूलम्

शुभे॑ व॒पम् ।

भट्टभास्कर-टीका

शुभे शोभायै वपं वप्तारम् । पचाद्यच् । अधोवप्तारमिति केचित् ।

विश्वास-प्रस्तुतिः

श॒र॒व्या॑या+++(=बाणलक्ष्यदेव्यै)+++ इषुका॒रम् ।

मूलम्

श॒र॒व्या॑या इषुका॒रम् ।

भट्टभास्कर-टीका

शरव्यायै शरणशक्त्यै । व्याख्यातं पदम् । इषुसमूहाय वा । इषुकारं इषूणां संस्कर्तारम् ।

विश्वास-प्रस्तुतिः

हे॒त्यै ध॑न्वका॒रम् ।

मूलम्

हे॒त्यै ध॑न्वका॒रम् ।

भट्टभास्कर-टीका

हेत्यै हिंसायै । ‘ऊतियूति’ इति क्तिन उदात्तत्वम् । धन्वकारं धनुषां संस्कारम् ।

विश्वास-प्रस्तुतिः

कर्म॑णे ज्याका॒रम् ।

मूलम्

कर्म॑णे ज्याका॒रम् ।

भट्टभास्कर-टीका

कर्मणे ज्याकारम् । ज्यां संस्कर्तारं कारूणां कुशलम् ।

विश्वास-प्रस्तुतिः

दि॒ष्टाय॑ +++(=भवितव्याय)+++ रज्जुस॒र्गम् ।

मूलम्

दि॒ष्टाय॑ रज्जुस॒र्गम् ।

भट्टभास्कर-टीका

दिष्टाय दैवाय भविष्यतायै रज्जुसर्गं उद्वन्धकं, स ह्यात्मविनिपाताय रज्जुं सृजति । कर्मण्यणि छान्दसं कुत्वम् ।

विश्वास-प्रस्तुतिः

मृ॒त्य॑वे मृग॒युम् ।

मूलम्

मृ॒त्य॑वे मृग॒युम् ।

भट्टभास्कर-टीका

मृत्यवे मरणाय मृगयुं मृगाणां हन्तारम् ।

विश्वास-प्रस्तुतिः

अन्त॑काय श्व॒नित॑म् +++(=श्वक्रीडाजीवी)+++ ॥ 3 ॥

मूलम्

अन्त॑काय श्व॒नित॑म् ॥3॥

भट्टभास्कर-टीका

अन्तकाय प्राणापहारिणे श्वनितं श्वक्रीडाजीविनं श्वभिः नीतः प्राप्तः । छान्दसं ह्रस्वत्वम् । ‘परादिश्छन्दसि’ इत्युत्तरपदान्तोदात्तत्वम् ॥

इति तृतीये चतुर्थे तृतीयोऽनुवाकः ॥