विश्वास-प्रस्तुतिः
गी॒ताय॑ सू॒तम् ।
मूलम्
गी॒ताय॑ सू॒तम् ।
भट्टभास्कर-टीका
1गीताय गानाय सूतं क्षत्रियेण ब्राह्मण्यां जातं गानजीविनम् ।
विश्वास-प्रस्तुतिः
नृ॒त्ताय॑ शैलू॒षम्+++(=भार्यां नृत्याय प्रेषयित्वा यो जीवति)+++ ।
मूलम्
नृ॒त्ताय॑ शैलू॒षम् ।
भट्टभास्कर-टीका
नृत्ताय शैलूषं अन्यस्मै स्वभार्याप्रदायिनं नर्तनजीविकम् ।
विश्वास-प्रस्तुतिः
धर्मा॑य सभाच॒रम् ।
मूलम्
धर्मा॑य सभाच॒रम् ।
भट्टभास्कर-टीका
धर्माय सभाचरं सभायां नित्यं चरन्तं धर्मप्रवक्तारम् ।
विश्वास-प्रस्तुतिः
न॒र्माय॑ +++(=विनोदाभिमानिने)+++ रे॒भम् +++(=चाटूक्तिकुशलम्)+++ ।
मूलम्
न॒र्माय॑ रे॒भम् ।
भट्टभास्कर-टीका
नर्माय रेभं मेधाविनं चाटूक्तिकुशलम् ।
विश्वास-प्रस्तुतिः
नरि॑ष्ठायै+++(=कातरायै)+++ भीम॒लम् +++(=भीरुं चपलाक्षम्)+++।
मूलम्
नरि॑ष्ठायै भीम॒लम् ।
भट्टभास्कर-टीका
नरिष्ठायै कातरायै नरतमा नरिष्ठा कातरतमा, नृषु वा तिष्ठतीति नरिष्ठा अस्वतन्त्रा कातरतमा तस्यै भीमलं भीरुं चपलाक्षमित्येके ।
विश्वास-प्रस्तुतिः
हसा॑य॒ कारि॑म् +++(=नृत्यन्निव यो गच्छति)+++ ।
मूलम्
हसा॑य॒ कारि॑म् ।
भट्टभास्कर-टीका
हसाय ‘स्वनहसोर्वा’ इत्यप् । कारिं विकटाचारं नृत्यन्निव यो गच्छति हासयति च जनान् ।
विश्वास-प्रस्तुतिः
आ॒न॒न्दाय॑ स्त्रीष॒खम् ।
मूलम्
आ॒न॒न्दाय॑ स्त्रीष॒खम् ।
भट्टभास्कर-टीका
आनन्दय प्रशस्तसुखाय स्त्रीषखं स्त्रीणां नित्यसुहृदं विटम् । छान्दसं षत्वम्
विश्वास-प्रस्तुतिः
प्रमुदे॑ कुमारीपु॒त्रम् ।
मूलम्
प्रमुदे॑ कुमारीपु॒त्रम् ।
भट्टभास्कर-टीका
‘प्रमुदे प्रकृष्टाय हर्षाय कुमारीपुत्रं दुहितुः पुत्रं प्रहर्ष हेतुम् ।
विश्वास-प्रस्तुतिः
मे॒धायै॑ +++(=ग्रन्थार्थ-धारणाभिमानिन्यै)+++ रथका॒रम् ।
मूलम्
मे॒धायै॑ रथका॒रम् ।
भट्टभास्कर-टीका
मेधायै ग्रन्थार्थधारणशक्तायै बुद्ध्यै रथकारं रथस्य कर्तारं निपुणमतिम् ।
विश्वास-प्रस्तुतिः
धैर्या॑य॒ तक्षा॑णम् +++(=तक्षकम्)+++॥ 2 ॥
मूलम्
धैर्या॑य॒ तक्षा॑णम् ॥2॥
भट्टभास्कर-टीका
धैर्याय तक्षाणं वर्धकिं दृढघातिनम् ॥
इति तृतीये चतुर्थे द्वितीयोऽनुवाकः ॥