०१ पुरुषमेधः

वैश्वदेवं काण्डम् ।

पुरुषमेधः

विश्वास-प्रस्तुतिः

ब्रह्म॑णे +++(देवाय)+++ ब्राह्म॒णमाल॑भते ।

मूलम्

ब्रह्म॑णे ब्राह्म॒णमाल॑भते ।

भट्टभास्कर-टीका

1अस्ति पुरुषमेधः पञ्चाहः । तत्रैते पुरुषाः पशवः विधीयन्ते - ब्रह्मणे ब्राह्मणमालभत इत्यादि ॥ चतुर्थ्यन्ता देवताः । द्वितीयान्ताः पशवः । ते च पर्यग्निकृता उत्सृज्यन्ते । वैश्वदेवं काण्डम् ।
ब्रह्मणे ब्रह्मवर्चसाय ब्राह्मणं ब्राह्मजातिवर्णजं ब्रह्मवर्चस्वन्तम् ।

विश्वास-प्रस्तुतिः

क्ष॒त्त्राय॑ राज॒न्य॑म् ।

मूलम्

क्ष॒त्त्राय॑ राज॒न्य॑म् ।

भट्टभास्कर-टीका

क्षत्त्राय क्षतात् त्रायकाय बलाय राजन्यं क्षत्रियजातिं महाबलम् । ‘राज्ञोऽपत्ये जातिग्रहणम्’ इति नापत्यमात्रं राजन्यः ।

विश्वास-प्रस्तुतिः

म॒रुद्भ्यो॒ वैश्य॑म् ।

मूलम्

म॒रुद्भ्यो॒ वैश्य॑म् ।

भट्टभास्कर-टीका

मरुतो देवानां विशः तेभ्यः वैश्यं वैश्यजातीयम्, उभयोर्विट्त्वात् ।

विश्वास-प्रस्तुतिः

तप॑से शू॒द्रम् ।

मूलम्

तप॑से शू॒द्रम् ।

भट्टभास्कर-टीका

तपः कृच्छ्रादिदुःखहेतुः तस्मै शूद्रं शूद्रजातीयं दुःखजीविनम् ।

विश्वास-प्रस्तुतिः

तम॑से॒ तस्क॑रम् ।

मूलम्

तम॑से॒ तस्क॑रम् ।

भट्टभास्कर-टीका

तमसे ध्वान्ताय तस्करं चोरं, तमःप्रियत्वात्तस्करस्य । ‘तद्बृहतोः करपत्योः चोरदेवतयोः सुट्तलोपश्च’ इति सुट् ।

विश्वास-प्रस्तुतिः

नार॑काय वीर॒-हण॑म् ।

मूलम्

नार॑काय वीर॒हण॑म् ।

भट्टभास्कर-टीका

नारकाय नरकाय । स्वार्थे बिदादित्वादञ् । नरकाध्यक्षाय वीरहणं वैदिकाग्र्युत्सादिनं नरकगामिनां मुख्यम् ।

विश्वास-प्रस्तुतिः

पा॒प्मने॑ क्ली॒बम् ।

मूलम्

पा॒प्मने॑ क्ली॒बम् ।

भट्टभास्कर-टीका

पाप्मने क्लीबं अपगतपुंस्त्वं पापिष्ठम् ।

विश्वास-प्रस्तुतिः

आ॒क्र॒याय॑+++(=तदभिमानिदेवाय)+++ +अ॒यो॒गूम् +++(=लोहकार्मिकम्)+++ ।

मूलम्

आ॒क्र॒याया॑यो॒गूम् ।

भट्टभास्कर-टीका

आक्रयाय सर्वतः क्रेत्रे अयोगूं अशास्त्रीययोगात् स्वयमेव भर्तारं गृहीतवतीं स्त्रीम् । आकारस्य छान्दस ऊकारः । ऊञ्वा छान्दसः ।
अति॑क्रुष्टाय माग॒धम् ॥1॥
सा इह स्वयमेवात्मानं दत्वा भर्तारं क्रीणाति । वर्णसंकरजोऽयोगूरिति केचिन् ।

विश्वास-प्रस्तुतिः

कामा॑य पुँश्च॒लूम् +++(=पुंश्चलीम्)+++ ।

मूलम्

कामा॑य पुँश्च॒लूम् ।

भट्टभास्कर-टीका

कामाय इच्छायै पुंश्चलूं साधारणस्त्रीं, सा हि कामेन पुंसि चलति । पर्वूवच्छान्दस ऊकारः, ऊञ्वा ।

विश्वास-प्रस्तुतिः

अति॑क्रुष्टाय+++(=अतिनिन्दिताय)+++ माग॒धम् ॥1॥

मूलम्

अति॑क्रुष्टाय माग॒धम् ॥1॥

भट्टभास्कर-टीका

अतिक्रुष्टाय १ अतिक्षिप्ताय पुंश्चल्या अपि निन्दिताय मागधं मगधदेश भवं निन्दिताचारं, ब्राह्मण्यां वैश्यैन जातो धूर्तो मागध इत्येके ॥

इति तैत्तिरीयब्राह्मणभाष्ये तृतीये चतुर्थे पुरुषमेधे प्रथमोऽनुवाकः ॥