११ उपवेषोपगूहनम्

उपवेष-स्तुतिः

विश्वास-प्रस्तुतिः

प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑ना॒म्
यद् उ॑पवे॒षः ।

मूलम्

प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम् । यदु॑पवे॒षः ।

भट्टभास्कर-टीका

1 परिवेषो वा इति ॥ परिवेषः परितो व्याप्य तर्पयिता ।
उपवेषः शाखामूलजन्मा काष्ठविशेषः ।

सायण-टीका

अथोपवेषो मन्त्रेण परित्यक्तव्योऽतः प्रस्तौति — “परिवेषो वा एष वनस्पतीनाम्। यदुपवेषः” (ब्रा. का. ३ प्र. ३ अ. ११) इति। पलाशशाखामूले त्यक्तो भाग उपवेषः। स च सर्वेषां वनस्पतीनां परितो व्याप्नोति। वनस्पतिभिर्दुःसाध्यस्याङ्गारवियोजनतप्तकपालोपधानादेरनेन कृतत्वात्।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॑
वि॒न्दते॑ परिवे॒ष्टार॑म् ।

मूलम्

य ए॒वव्ँ वेद॑ । वि॒न्दते॑ परिवे॒ष्टार॑म् ।

भट्टभास्कर-टीका

एवं वेदिता तर्पयितारं लभते ।

सायण-टीका

वेदनं प्रशंसति – “य एवं वेद। विन्दते परिवेष्टारम्” (ब्रा. का. ३ प्र. ३ अ. ११) इति। सेवकजनमित्यर्थः।

उपगूहनम्

विश्वास-प्रस्तुतिः

तम् उ॑त्क॒रे +++(→इति॑ पु॒रस्ता॑त् प्र॒त्यञ्च॒म् उप॑गूहति ।)+++ …

मूलम्

तमु॑त्क॒रे ।

भट्टभास्कर-टीका

तं उत्करे ‘पुरस्तात् प्रत्यञ्चं उपगूहति’ इति संबध्यते ॥

सायण-टीका

मन्त्रोत्पादनपूर्वकमुपवेषत्यागं विधत्ते — “तमुत्करे।

विश्वास-प्रस्तुतिः - ऋक्

“यन् दे॒वा म॑नु॒ष्ये॑षु । उ॒प॒वे॒षम् अधा॑रयन्
ये अ॒स्मद् अप॑-चेतसः । तान् अ॒स्मभ्य॑म् इ॒हा कु॑रु ।”

मूलम्

“यन्दे॒वा म॑नु॒ष्ये॑षु । उ॒प॒वे॒षमधा॑रयन् ।
ये अ॒स्मदप॑चेतसः । तान॒स्मभ्य॑मि॒हा कु॑रु ।”

भट्टभास्कर-टीका

2यं देवा इति द्वे अनुष्टुभौ ॥ मन्त्रार्थस्तु - यं त्वां देवा मनुष्येषु मनुष्यार्थं यज्ञसिद्धये उपवेषं अधारयन् उत्पादितवन्तः । स त्वं हे उपवेष! ये अस्मत्तः अपचेतसः अपगतचित्ताः अपरक्तमनसः तान् अस्मभ्यं इह कर्मणि अग्रतः आविष्कुरु विधेयात् कुरु वा ।

सायण-टीका

यं देवा, मनुष्येषु। उपवेषमधारयन्। ये अस्मदपचेतसः। तानस्मभ्यमिहाऽऽकुरु।

विश्वास-प्रस्तुतिः - ऋक्

उप॑वे॒षोप॑विड्ढि+++(=उपानय)+++ नः ॥76॥
प्र॒जाम् पुष्टि॒म् अथो॒ धन॑म् ।
द्वि॒-पदो॑ न॒श् चतु॑ष्-पदः ।
ध्रु॒वान् अन॑पगान् कुरु

मूलम्

“उप॑वे॒षोप॑विड्ढि नः ॥76॥ प्र॒जाम्पुष्टि॒मथो॒ धन॑म् ।
द्वि॒पदो॑ न॒श्चतु॑ष्पदः । ध्रु॒वानन॑पगान्कु॒र्व्”

भट्टभास्कर-टीका

किञ्च - नः अस्माकं प्रजादिकं उपविड्ढि समीपे प्रापय । विषेः जौहोत्यादिकस्य छान्दसश्शपो लुक् । किञ्च - अस्मदीयान् द्विपदश्चतुष्पदश्च ध्रुवान् नित्यान् अनपगान् अस्मासु अनपरक्तचित्तांश्च कुरु । द्विपद इत्यत्र ‘द्वित्रिभ्यां पाद्दन्’ इति उत्तरपदान्तोदातत्वम् ।

सायण-टीका

उपवेषोपविड्ढि नः। प्रजां पुष्टिमथो धनम्। द्विपदो नश्चतुष्पदः ध्रुवाननपगान्कुर्व्

विश्वास-प्रस्तुतिः

+इति॑ पु॒रस्ता॑त् प्र॒त्यञ्च॒म् उप॑गूहति

मूलम्

इति॑ पु॒रस्ता॑त्प्र॒त्यञ्च॒मुप॑गूहति ।

सायण-टीका

इति पुरस्तात्प्रत्यञ्चमुपगूहति।

विश्वास-प्रस्तुतिः

तस्मा॑त् पु॒रस्ता॑त् प्र॒त्यञ्च॑श् शू॒द्रा अव॑स्यन्ति

मूलम्

तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑श्शू॒द्रा अव॑स्यन्ति ।

भट्टभास्कर-टीका

स्वामिनः अग्रतः प्रतिमुखाः शूद्राः अवस्यन्ति अवतिष्ठन्ते चिकीर्षवः ।

सायण-टीका

तस्मात्पुरस्तात्प्रत्यञ्चः शूद्रा अवस्यन्ति” (ब्रा. का. ३ प्र. ३ अ. ११) इति।

विश्वास-प्रस्तुतिः

स्थ॒वि॒म॒त+++(ः→आरभ्य)+++ उप॑गूहति ।

मूलम्

स्थ॒वि॒म॒त उप॑गूहति ।

भट्टभास्कर-टीका

स्थविमत इति । स्थूलात् प्रदेशादारभ्य ।

सायण-टीका

निःशेषेण गूहनं विधत्ते – स्थविमत उपगूहति।

विश्वास-प्रस्तुतिः

अ-प्र॑तिवादिन ए॒वैना॑न् +++(शूद्रान्)+++ कुरुते ।

मूलम्

अप्र॑तिवादिन ए॒वैना॑न्कुरुते ।

भट्टभास्कर-टीका

अप्रतिवादिनः अस्याग्रे प्रतिवदितुमसमर्थान् शूद्रान्करोति ॥

सायण-टीका

अप्रतिवादिन एवैनान्कुरुते” (ब्रा. का. ३ प्र. ३ अ. ११) इति।

विश्वास-प्रस्तुतिः

धृष्टि॒र् वा उ॑पवे॒षः
शु॒चा +ऋ॒तो+++(=प्राप्तः)+++ वज्रो॒,
ब्रह्म॑णा॒ सँशि॑तः

मूलम्

धृष्टि॒र्वा उ॑पवे॒षः । शु॒चर्तो वज्रो॒ ब्रह्म॑णा॒ सँशि॑तः ।

भट्टभास्कर-टीका

3धृष्टिर्वा इति ॥ अयम् उपवेषः धृष्टिः धर्षणशीलः शुचा तापेन ऋतः प्राप्तः वज्रः वज्रस्थानीयः ब्रह्मणा मन्त्रेण संशितः तीक्ष्णीकृतः ।

सायण-टीका

अभिचाराय मन्त्रान्तरमुत्पादयितुं प्रस्तौति — “धृष्टिर्वा उपवेषः। शुचर्तो वज्रो ब्रह्मणा सँशितः” (ब्रा. का. ३ प्र. ३ अ. ११) इति। अयमुपवेषः स्वत एव धार्ष्ट्ययुक्तोऽत ऊर्ध्वं वह्निसंतापेन युक्तः। पुनरपि मन्त्रेण तीक्ष्णीकृतत्वाद्वज्रः संपन्नोऽतोऽभिचारयोग्यः।

विश्वास-प्रस्तुतिः

योप॑वे॒षे शुक्
सा ऽमुम् ऋ॑च्छतु॒
यन् द्वि॒ष्म

इति॑ +++(उपगूहनं कृत्वा …)+++॥77॥

मूलम्

योप॑वे॒षे शुक् । साऽमुमृ॑च्छतु॒ यन्द्वि॒ष्म इति॑ ॥77॥

भट्टभास्कर-टीका

तस्मादभिचरिता चेत् या उपवेषे शुक् दीप्तिः सा अमुं एतन्नामानं ऋच्छतु गच्छतु यं द्विष्मः इति अनेन मन्त्रेण उपगूहनं कृत्वा ‘निरमुं नुदः’ इत्यग्नौ प्रहरत्युपवेषम् । तिस्रोऽप्यनुष्टुभ एताः ।

सायण-टीका

तत्र मन्त्रमुत्पाद्य विनियुङ्क्ते — “योपवेषे शुक्। साऽममृच्छतु यं द्विष्म इति।

प्रहरणम्

विश्वास-प्रस्तुतिः

अथा॑स्मै॒+++(←अथा॑स्मै)+++ नाम॒ गृह्य॒ प्रह॑रति -

मूलम्

अथा॑स्मै नाम॒ गृह्य॒ प्रह॑रति ।

सायण-टीका

अथास्मै नाम गृह्य प्रहरति” (ब्रा. का. ३ प्र. ३ अ. ११) इति। शुक्संतापः। अमुमित्यत्र यो द्वेष्यस्तस्य नाम गृहीत्वा तमुपवेषमग्नौ प्रहरेत्।

विश्वास-प्रस्तुतिः

निर॒म् उन्नु॑द॒ ओक॑सः ।
स॒पत्नो॒ यᳶ पृ॑त॒न्यति॑
नि॒र्बा॒ध्ये॑न ह॒विषा॑ ।
इन्द्र॑ एण॒म् परा॑शरीत्+++(=नाशयतु)+++ ।

मूलम्

निर॒मुन्नु॑द॒ ओक॑सः ।
स॒पत्नो॒ यᳶ पृ॑त॒न्यति॑ ।
नि॒र्बा॒ध्ये॑न ह॒विषा॑ ।
इन्द्र॑ एण॒म्परा॑शरीत् ।

भट्टभास्कर-टीका

हे उपवेष! अमुं एतन्नामानं अस्मच्छत्रुं ओकसः गृहात् निर्नुदः निष्कृष्य नुदः । लेण्मध्यमः । यः अस्माकं सपत्नः भूत्वा पृतन्यति संग्रामं करोति निर्बाध्येन उत्क्रष्टव्येन उपवेषाख्येन हविषा, यद्वा - निर्बाधनसाधनेन । करणे कृत्यः ।

एणं एनम् । छान्दसं णत्वम् ।
अस्मद्द्वेष्यं इन्द्रः पराशरीत् अपुनरावृत्तं नाशयतु ।

सायण-टीका

पुनरप्यृचां त्रयमभिचारार्थमुत्पादयति “निरमुं नुद ओकसः। सपत्नो यः पृतन्यति। निर्बाध्येन हविषा। इन्द्र एणं पराशरीत्।

विश्वास-प्रस्तुतिः - ऋक्

इ॒हि ति॒स्रᳶ प॑रा॒वतः॑ । इ॒हि पञ्च॒ जनाँ॒ अति॑ । इ॒हि ति॒स्रोऽति॑ रोच॒ना। याव॒त् सूर्यो॒ अस॑द्दि॒वि ।

मूलम्

इ॒हि ति॒स्रᳶ प॑रा॒वतः॑ । इ॒हि पञ्च॒ जनाँ॒ अति॑ । इ॒हि ति॒स्रोऽति॑ रोच॒नायाव॑त् ।
सूर्यो॒ अस॑द्दि॒वि ।

भट्टभास्कर-टीका

इहि परावतः परतरान् देशान् लोकत्रयलक्षणान् देवपितृमनुष्यलक्षणगतीर्वा अति अतीत्य गच्छ, पञ्चजनांश्चातीहि । ब्राह्मणादयो निषादपञ्चमाः पञ्चजनाः, पञ्च भूतानीत्येके । तिस्रः रोचनाः दीप्तिमतः अग्निविद्युदादित्यान् अतीहि ।

यावत् सूर्यः दिवि असत् स्यात् । लेट्याडागमः ।

सायण-टीका

इहि तिस्रः परावतः। इहि पञ्चजनाँ अति। इहि तिस्रोऽतिरोचना यावत्। सूर्यो असद्दिवि।

विश्वास-प्रस्तुतिः - ऋक्

प॒र॒मान् त्वा॑ परा॒वत॑म् ॥78॥
इन्द्रो॑ नयतु वृत्र॒-हा ।
यतो॒ न पुन॒र् आय॑सि
श॒श्व॒तीभ्य॒स् समा॑भ्यः॒

इति॑ ।

मूलम्

प॒र॒मान्त्वा॑ परा॒वत॑म् ॥78॥
इन्द्रो॑ नयतु वृत्र॒हा । यतो॒ न पुन॒राय॑सि । श॒श्व॒तीभ्य॒स्समा॑भ्य॒ इति॑ ।

भट्टभास्कर-टीका

परमां त्वेति । परमां परावतं दूरम् । पूर्ववद्वतिः ।
इन्द्रः त्वा नयतु प्रापयतु वृत्रहा वृत्रं हतवान्, यतो नीतस्त्वं न पुनरायसि नागच्छसि । इ गतौ भौवादिकः ।

शश्वतीभ्यः अक्षीणाभ्यः समाभ्यः संवत्सरेभ्यः परं नयति ॥

सायण-टीका

परमां त्वा परावतम्। इन्द्रो नयतु वृत्रहा। यतो न पुनरायसि। शश्वतीभ्यः समाभ्य इति’ (ब्रा. का. ३ प्र. ३ अ. ११) इति।

विश्वास-प्रस्तुतिः

त्रि॒वृद् वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सँशि॑तः
शु॒चैवैनव्ँ॑ वि॒ध्वा
ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॒
वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते

मूलम्

त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सँशि॑तः ।

शु॒चैवैनव्ँ॑वि॒ध्वा । ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑ । वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते ।

भट्टभास्कर-टीका

4त्रिवृद्वा इत्येतेषां ब्राह्मणम् ॥ एषः उपवेष त्रिवृत् नवधारो वज्रः ब्रह्मणा च संशितः, तस्मात् ईदृशेनानेन एनं द्वेष्यं शुचा विद्ध्वा तापयित्वा लोकेभ्यश्च निर्णुद्य ततः वज्रेण ब्रह्मणा च स्तृणुते छादयति मारयति वा ।

सायण-टीका

एताभिस्तिसृभिग्भिरुपवेषं गृहाद्दूरतो निरस्येदित्येवं विधि(धिं)स्तावकेनार्थवादेनोन्नयति — ‘त्रिवृद्वा एष बज्रो ब्रह्मणा सँशितः। शुचैवैनं विद्ध्वा। एभ्यो लोकेभ्यो निर्णुद्य। वज्रेण ब्रह्मणा स्तृणुते’ (ब्रा. का. ३ प्र. ३ अ. ११) इति। मन्त्रत्रयेण तीक्ष्णीकृत एष उपवेषरूपो वज्रस्त्रिगुणो भप्रति। एतन्निष्ठेन शोकेनैनं वैरिणं लोकत्रयान्निःसार्य मन्त्रात्मकेन वज्रेणाभिहिनस्ति।

विश्वास-प्रस्तुतिः

“ह॒तो॒॑ ऽसाव्, अव॑धिष्मा॒मुम्” इत्य् आ॑ह॒ स्तृत्यै॑

मूलम्

“ह॒तो॑ऽसावव॑धिष्मा॒मु"मित्या॑ह॒ स्तृत्यै॑ ।

सायण-टीका

त्रिर्भूमिं खात्वा तत्रोपवेषं प्रतिक्षेप्तुं यजुर्द्वयरूपं मन्त्रमुत्पादयति — ‘हतोऽसाववधिष्मामुमित्याह स्तृत्यै’ (ब्रा. का. ३ प्र. ३ अ. ११) इति। स्तृतिर्हिंसा।

विश्वास-प्रस्तुतिः

यन् द्वि॒ष्यात्
तन् ध्या॑येत्।
शु॒चैवैन॑म् अर्पयति ॥79॥

मूलम्

यन्द्वि॒ष्यात्तन्ध्या॑येत् । शु॒चैवैन॑मर्पयति ॥79॥

भट्टभास्कर-टीका

हतोऽसाववधिष्मामुमिति च द्वौ मन्त्रौ । अत्रामुमित्यस्य नामग्रहणे यं द्विष्यात् तं ध्यायेत् एनं शुचा प्राप्तं करोति ॥

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयेऽष्टके तृतीयप्रश्नस्समाप्तः ॥

समाप्तं पौरोडाशिकम् ॥

सायण-टीका

उपवेषस्याग्नौ क्षेपणे दूरदेशं निरसने भूमौ खनने च ध्यानं विधत्ते — ‘यं द्विष्यात्तं ध्यायेत्। शुचैवैनमर्पयति’ (ब्रा. का. ३ प्र. ३ अ. ११) इति।