०६ स्रुक्-सादनम्

प्रक्षण्य्-अभिमन्त्रणम्

आपो देवीः ...{Loading}...
विश्वास-प्रस्तुतिः

“आपो॑ देवीर् अग्रे-पुवो अग्रे-गुव॒” इत्य् आ॑ह ।
रू॒पम् ए॒वासा॑म् ए॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।

मूलम्

“आपो॑ देवीरग्रेपुवो अग्रेगुव॒” इत्या॑ह ।
रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।

भट्टभास्कर-टीका

3आपो देवीरिति उन्महयन्नुपोत्तिष्ठति ॥ अस्य मन्त्रस्य एतत्स्वरूपमेव आसां अपां महिमानं देवनशीलत्वादिकं व्याचष्टे न व्याख्येयं किंचित् ।

सायण-टीका

ततोऽत्र किंचिद्ध्याख्येयं नास्तीत्याह — “आपो देवीरग्रेपुवो अग्रेगुव इत्याह। रूपमेवाऽऽसा मेतन्महिमानं व्याचष्टे” (ब्रा. का. ३ प्र. २ अ. ५) इति।


ततः पूर्वमापो देवीरित्ययमुदकाभिमन्त्राणमन्त्र आम्नातव्य इत्यभिप्रेत्य पूर्ववद्व्याचष्टे — “आपो देवीरग्रे पुवो अग्रेगुव इत्याह। रूपमेवाऽऽसामेतन्महिमानं व्याचष्टे।

विश्वास-प्रस्तुतिः

“अग्र॑ इ॒मय्ँ य॒ज्ञन् न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒म्” इत्य् आ॑ह ।
अग्र॑ ए॒व य॒ज्ञन् न॑यन्ति ।
अग्रे॑ य॒ज्ञ-प॑तिम् ॥37॥

मूलम्

“अग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒"“मित्या॑ह ।
अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति ।
अग्रे॑ य॒ज्ञप॑तिम् ॥37॥

सायण-टीका

मध्यमभागे प्रार्थितं कार्यमापो नोपेक्षन्त इत्याह — “अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह। अग्र एव यज्ञ नयन्ति। अग्रे यज्ञपतिम्” (ब्रा. का. ३ प्र. २ अ. ५) इति।


अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह। अग्र एव यज्ञं नयन्ति। अग्रे यज्ञपतिम्।

विश्वास-प्रस्तुतिः

“यु॒ष्मान् इन्द्रो॑ऽवृणीत वृत्र॒-तूर्ये॑
यू॒यम् इन्द्र॑म् अवृणीध्वव्ँ वृत्र॒-तूर्य॒” इत्या॑ह ।
वृ॒त्रँ ह॑ हनि॒ष्यन्न् इन्द्र॒ आपो॑ वव्रे +++(फेनैर् जघानेति पुराणम्)+++।
आपो॒ हेन्द्रव्ँ॑ वव्रिरे ।
सं॒ज्ञाम् ए॒वासा॑म् ए॒तथ् +++(वरणीयत्वम्, यत्)+++ सामा॑नव्ँ॒ व्याच॑ष्टे ।

मूलम्

“यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्ँवृत्र॒तूर्य॒” इत्या॑ह ।
वृ॒त्रँ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे ।
आपो॒ हेन्द्रव्ँ॑वव्रिरे ।
सं॒ज्ञामे॒वासा॑मे॒तत्सामा॑नव्ँ॒ व्याच॑ष्टे ।

भट्टभास्कर-टीका

संज्ञामेवेति ।
आसां इन्द्रेण यत्सामानं समानत्वं वरणीयत्वं एतदेव आसां संज्ञा । ‘देवीः’ इत्यादिकां बुद्धिसंश्लेषं वा व्याचष्टे ।
अ-तादृग्-गुणत्वे इन्द्रेणावरणीयत्वात् । समान-शब्दः उद्गात्रादिर् द्रष्टव्यः ॥

सायण-टीका

ब्राह्मणान्तरप्रसिद्धं परस्परसापेक्षत्वमेवं तृतीयभागे दर्शयतीत्याह — “युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्याह। वृत्रँ ह हनिष्यन्निन्द्र आपो वव्रे। आपो हेन्द्रं वव्रिरे। संज्ञामेवाऽऽसामेतत्सामानं व्याचष्टे” (ब्रा. का. ३ प्र. २ अ. ५) इति। आपो वव्र इति च्छान्दसो दीर्घः। वृत्राद्भीतायेन्द्राय प्रजापतिर्वज्रमद्भिः प्रक्षाल्य ददावित्यसाविन्द्रस्योदकापेक्षत्वप्रसिद्धिर्वृत्रँ हेतिशब्देन सूच्यते।


युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्याह। वृत्रँ हनिष्यन्निन्द्र आपो वर्वे। आपो हेन्द्रं विव्रिरे। संज्ञामेवाऽऽसामेतत्सामानं व्याचष्टे।

विश्वास-प्रस्तुतिः

“प्रोक्षि॑ता॒स् स्थे"त्य् आ॑ह ।
तेनाप॒ᳶ प्रोक्षि॑ताः ।

मूलम्

“प्रोक्षि॑ता॒स्स्थे"त्या॑ह ।
तेनाप॒ᳶ प्रोक्षि॑ताः ।

भट्टभास्कर-टीका

4प्रोक्षितास्स्थेति प्रोक्षणीप्रोक्षणम् ॥
तेनाप इति ‘प्रोक्षितास्स्थ’ इति वचनादेव आपः प्रोक्षिता भवन्ति,
न त्व् अन्याभिरद्भिः प्रोक्षणम् । उक्तं च ‘ब्रह्मणेति ब्रूयात्’ इति ॥

सायण-टीका

मन्त्रपाठ एवापां प्रोक्षणमित्याह — “प्रोक्षिताः स्थेत्याह। तेनाऽऽपः प्रोक्षिताः” (ब्रा. का. ३ प्र. २ अ. ५) इति।


प्रोक्षिताः स्थेत्याह। तेनाऽऽपः प्रोक्षिताः” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

भट्टभास्कर-टीका

1आपो देवीरित्यादि ॥ गतम् ॥ पुनः प्रोक्षण्यभिमन्त्रणं इध्मप्रोक्षणार्थम् ॥

इध्मप्रोक्षणम्

विश्वास-प्रस्तुतिः

अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत॒
कृष्णो॑ रू॒पङ् कृ॒त्वा ।
स वन॒स्पती॒न् प्रावि॑शत् ।

मूलम्

अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
कृष्णो॑ रू॒पङ्कृ॒त्वा ।
स वन॒स्पती॒न्प्रावि॑शत् ।

भट्टभास्कर-टीका

2अग्निर्देवेभ्य इत्यादि ॥ कृष्णमृगो भूत्वा रूपं च तदीयं कृत्वा निलायत निरगच्छत् । पूर्ववल्लत्वम् ।

विश्वास-प्रस्तुतिः

“कृष्णो॑ऽस्य् आखरे॒+++(=बिले)+++-ष्ठो॒॑ऽग्नये॑ त्वा॒ स्वाहे"त्य् आ॑ह ।
अ॒ग्नय॑ ए॒वैन॒ञ् जुष्ट॑ङ् करोति ।

मूलम्

“कृष्णो॑ऽस्याखरे॒ष्ठो॑ऽग्नये॑ त्वा॒ स्वाहे"त्या॑ह ।
अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति ।

भट्टभास्कर-टीका

कृष्ण इतीध्म-प्रोक्षणम् । अग्नये जुष्टं प्रियं करोति ।

सायण-टीका

कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह। अग्नय एवैनं जुष्टं करोति।

विश्वास-प्रस्तुतिः

अथो॑ अ॒ग्नेर् ए॒व +++(सकाशात्)+++ मेध॒म् अव॑ रुन्धे ।

मूलम्

अथो॑ अ॒ग्नेरे॒व मेध॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

अथो अपि च अग्नेस्सकाशात् मेधं यज्ञं अवरुन्धे ।

सायण-टीका

अथो अग्नेरेव मेधमवरुन्धे” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

वेदिप्रोक्षणम्

विश्वास-प्रस्तुतिः

“वेदि॑र् असि ब॒र्हिषे॑ त्वा॒ स्वाहे"त्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
पृ॒थि॒वी वेदिः॑ ॥28॥
प्र॒जा ए॒व पृ॑थि॒व्याम् प्रति॑ष्ठापयति

मूलम्

“वेदि॑रसि ब॒र्हिषे॑ त्वा॒ स्वाहे"त्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
पृ॒थि॒वी वेदिः॑ ॥28॥
प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ष्ठापयति ।

भट्टभास्कर-टीका

3वेदिरिति वेदिप्रोक्षणम् ॥

सायण-टीका

रूपकेणाऽऽधाराधेयभावं दर्शयति — “वेदिरसि बर्हिषे त्वा स्वाहेत्याह। प्रजा वै बर्हिः। पृथिवी वेदिः। प्रजा एव पृथिव्यां प्रतिष्ठापयति” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

बर्हिः-प्रोक्षणम्

विश्वास-प्रस्तुतिः

“ब॒र्हिर् अ॑सि स्रु॒ग्भ्यस् त्वा॒ स्वाहे"त्य् आ॑ह ।
प्र॒जा वै ब॒र्हिः ।
यज॑मान॒स् स्रुचः॑ ।
यज॑मानम् ए॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।

मूलम्

“ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहे"त्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
यज॑मान॒स्स्रुचः॑ ।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।

भट्टभास्कर-टीका

बर्हिरिति बहिःप्रोक्षणम् ॥

सायण-टीका

हे दर्भ वेदेस्त्वं बृंहणमसि। अतस्त्वयि स्रुचः स्थापयितुं त्वां प्रोक्षामि। पूर्ववदाधारत्वं दर्शयति – ‘बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याह। प्रजा वै बर्हिः। यजमानः स्रचः। यजमानमेव प्रजासु प्रतिष्ठापयति” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

“दि॒वे त्वा॒, ऽन्तरि॑क्षाय त्वा, पृथि॒व्यै त्वे"ति॑ ब॒र्हिर् आ॒साद्य॒ प्रोक्ष॑ति ।
ए॒भ्य ए॒वैन॑ल् लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।

मूलम्

“दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वे"ति॑ ब॒र्हिरा॒साद्य॒ प्रोक्ष॑ति ।
ए॒भ्य ए॒वैन॑ल्लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।

भट्टभास्कर-टीका

4अन्त र्वेद्यासाद्य बर्हिःप्रोक्षणं दिवे त्वेति ॥ लोकेभ्यः लोकसृष्ट्यर्थं सर्वलोकवृत्तिप्रजारूपेण बर्हिषः परिणामार्थम् ।

सायण-टीका

बर्हिष्येव लोकत्रयं भावयित्वा लोकार्थता प्रोक्षणस्येत्याह — “दिवे त्वाऽऽन्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिरासाद्य प्रोक्षति। एभ्य एवैनल्लोकेभ्यः प्रोक्षति” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

अथ॒ तत॑स् स॒ह स्रु॒चा +++(न केवलेन हस्तेन)+++
पु॒रस्ता॑त् प्र॒त्यञ्च॑ङ् ग्र॒न्थिम् प्रत्यु॑क्षति

मूलम्

अथ॒ तत॑स्स॒ह स्रु॒चा पु॒रस्ता॑त्प्र॒त्यञ्च॑ङ्ग्र॒न्थिम्प्रत्यु॑क्षति ।

भट्टभास्कर-टीका

अथेति अथ प्रोक्षणानन्तरं तत एव हेतोः प्रजासृष्ट्यर्थत्वात् ।
यद्वा - ततः तेन स्रुक्स्थेन अग्रमूलोपसादन-शेषेण
पुरस्तात् प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति,
सह स्रुचेति, न केवलेन हस्तेन ।

सायण-टीका

विधत्ते – “अथ ततः सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति।

विश्वास-प्रस्तुतिः

प्र॒जा वै ब॒र्हिः ।
यथा॒ सूत्यै॑ का॒ल आप॑ᳶ पु॒रस्ता॒द् यन्ति॑ ॥29॥
ता॒दृग् ए॒व तत् ।+++(4)+++

मूलम्

प्र॒जा वै ब॒र्हिः ।
यथा॒ सूत्यै॑ का॒ल आप॑ᳶ पु॒रस्ता॒द्यन्ति॑ ॥29॥
ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

यथा सूतिकाले अग्रत आपो निर्गच्छन्ति तत्तुल्यमेतत्, ग्रन्थेः पुरस्तात् प्रत्युक्षणम् ॥

सायण-टीका

प्रजा वै बर्हिः। यथा सूत्यै काल आपःपुरस्ताद्यन्ति। तादृगेव तत्” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

प्रोक्षणीशेष-नयनम्

विश्वास-प्रस्तुतिः

“स्व॒धा पि॒तृभ्य॒” इत्य् आ॑ह ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।

मूलम्

“स्व॒धा पि॒तृभ्य॒” इत्या॑ह ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।

सायण-टीका

मन्त्रव्याख्यानपूर्वकं विधत्ते – “स्वधा पितृभ्य इत्याह। स्वधाकारो हि पितृणाम्।

विश्वास-प्रस्तुतिः

“ऊर्ग् भ॑व बर्हि॒-षद्भ्य॒” इति॒ दक्षि॑णायै॒ श्रोणे॒र् ओत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै ।

मासा॒ वै पि॒तरो॑ बर्हि॒-षदः॑ ।
मासा॑न् ए॒व प्री॑णाति ।

मूलम्

“ऊर्ग्भ॑व बर्हि॒षद्भ्य॒” इति॒ दक्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै ।

मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ ।
मासा॑ने॒व प्री॑णाति ।

भट्टभास्कर-टीका

5स्वधेति ॥ दक्षिणस्याः श्रोणेः उत्तरस्याः प्रोक्षणशेषनिनयनम् । तत्र स्वधेति वचनं पितृणां स्वधाकारस्य प्रियत्वात् । तत्र बर्हिषद्भ्य इति निनयनात् बर्हिषदो मासाः प्रीणिता भवन्ति ते च प्रीणिताः ओषधीर्वर्धयन्ति ।

सायण-टीका

ऊर्ग्भव बर्हिषद्भ्य इति दक्षिणायै श्रोणेरोत्तरस्यै निनयति संतत्यै। मासा वै पितरो बर्हिषदः। मासानेव प्रीणाति।

विश्वास-प्रस्तुतिः

मासा॒ वा ओष॑धीर् व॒र्धय॑न्ति
मासा॑ᳶ पचन्ति॒ समृ॑द्ध्यै ।
अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्षति॒
यत्रै॒तद् ए॒वङ् क्रि॒यते॑ ॥30॥

मूलम्

मासा॒ वा ओष॑धीर्व॒र्धय॑न्ति ।
मासा॑ᳶ पचन्ति॒ समृ॑द्ध्यै ।
अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्षति ।
यत्रै॒तदे॒वङ्क्रि॒यते॑ ॥30॥

भट्टभास्कर-टीका

तथा कृते सर्वस्य समृद्धिः भवति ।

किञ्च - यत्र देशे एतदेवं क्रियते तत्र पर्जन्यः अनतिस्कन्दन् अतिबाधामकुर्वन् वर्षति ॥

सायण-टीका

मासा वा ओषधीर्वर्धयन्ति। मासाः पचन्ति समृद्ध्यै। अनतिस्कन्दन्ह पर्जन्यो वर्षति। यत्रैतदेवं क्रियते।

विश्वास-प्रस्तुतिः

“ऊ॒र्जा पृ॑थि॒वीङ् ग॑च्छ॒ते“त्य् आ॑ह ।
पृ॒थि॒व्याम् ए॒वोर्ज॑न् दधाति

तस्मा॑त् पृथि॒व्या ऊ॒र्जा भु॑ञ्जते

मूलम्

“ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छ॒ते"त्या॑ह ।
पृ॒थि॒व्यामे॒वोर्ज॑न्दधाति ।

तस्मा॑त्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते ।

भट्टभास्कर-टीका

6पृथिव्यां इति ॥ पृथिवीसम्बन्धिन्या ऊर्जा रसेन प्रजा भुञ्जते तृप्यन्ति । गतमन्यत् ॥

सायण-टीका

ऊर्जा पृथिवीं गच्छतेत्याह। पृथिव्यामेवोर्जं दधाति। तस्मात्पृथिव्या ऊर्जा भुञ्जते” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

ग्रन्थि-विस्रंसनम्

विश्वास-प्रस्तुतिः

ग्र॒न्थिव्ँ विस्रँ॑सयति
प्रज॑नयत्य् ए॒व तत् ।
ऊ॒र्ध्वम् प्राञ्च॒म् उद्गू॑ढम् प्र॒त्यञ्च॒म् आय॑च्छति । तस्मा॑त् प्रा॒चीनँ॒ रेतो॑ धीयते
प्र॒तीची॑ᳶ प्र॒जा जा॑यन्ते

मूलम्

ग्र॒न्थिव्ँ विस्रँ॑सयति ।
प्रज॑नयत्ये॒व तत् ।
ऊ॒र्ध्वम्प्राञ्च॒मुद्गू॑ढम्प्र॒त्यञ्च॒माय॑च्छति ।

तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते ।
प्र॒तीची॑ᳶ प्र॒जा जा॑यन्ते ।

सायण-टीका

शैथिल्यं विधत्ते – “ग्रन्थिं विस्रँसयति। प्रजनयत्येव तत्” ( ब्रा. का. ३ प्र. ३ अ. ६) इति। बन्धनरूपे गर्भेऽवस्थितस्य बर्हिषो विस्त्रंसनमेवोत्पादनम्।

शिथिलस्य विमोचनं विधत्ते – “ऊर्ध्वं प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति। तस्मात्प्रचीनँ रेतो धीयते। प्रतीचीः प्रजा जायन्ते” ( ब्रा. का. ३ प्र. ३ अ. ६) इति। पश्चात्प्राञ्चमुपगूहतीति हि पूर्वं विहितस्य प्राञ्चमुद्गूढस्य ग्रन्थेरग्रं धृत्वोर्ध्वमुत्कृष्य प्रत्यङ्मुखत्वेन कर्षेत्।

विश्वास-प्रस्तुतिः

“विष्णो॒स् स्तूपो॒ऽसी"त्य् आ॑ह ।
य॒ज्ञो वै विष्णुः॑ ॥31॥
य॒ज्ञस्य॒ धृत्यै॑ ।

मूलम्

“विष्णो॒स्स्तूपो॒ऽसी"त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ॥31॥
य॒ज्ञस्य॒ धृत्यै॑ ।

सायण-टीका

हे प्रस्तर त्वं व्यापिनो यज्ञस्य संघातरूपो धारकोऽसि। तदेतद्दर्शयति — ‘ विष्णोः स्तूपोऽसीत्याह। यज्ञो वै विष्णुः। यज्ञस्य धृत्यै’ (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

पु॒रस्ता॑त् प्रस्त॒रङ् गृ॑ह्णाति
मुख्य॑म् ए॒वैन॑ङ् करोति

मूलम्

पु॒रस्ता॑त्प्रस्त॒रङ्गृ॑ह्णाति ।
मुख्य॑मे॒वैन॑ङ्करोति ।

भट्टभास्कर-टीका

7विष्णोरिति प्रस्तरग्रहणम् ॥ पुरस्तादिति कर्षन्निवाहवनीयं प्रति प्रस्तरमुपादत्ते ।

सायण-टीका

विधत्ते – ‘पुरस्तात्प्रस्तरं गृह्णाति। मुख्यमेवैनं करोति’ (ब्रा. का. ३ प्र. ३ अ. ६) इति। वेदेः पूर्वभागे ब्रह्मा यजमानो वा प्रस्तरं धारयेत्। तच्च सूत्रेऽभिहितम् — ‘ब्रह्म प्रस्तरं धारयति यजमानो वा’ इति।

प्रादेश-ग्रहणम्

विश्वास-प्रस्तुतिः

+++(प्रादेश-परिमितम्)+++ इय॑न्तङ् गृह्णाति प्र॒जाप॑तिना यज्ञ-मु॒खेन॒ सम्मि॑तम् ।

मूलम्

इय॑न्तङ्गृह्णाति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् ।

भट्टभास्कर-टीका

इयन्तमिति । प्रादेशपरिमितम् । प्रजापतिना यज्ञमुखेन तत्तुल्यम् ।

सायण-टीका

धारणाय मुखसमानमौन्नत्यं हस्तेनाभिनीय विधत्ते – ‘इयन्तं गृह्णाति। प्रजापतिना यज्ञमुखेन संमितम्’ (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

इय॑न्तङ् गृह्णाति
यज्ञ॒-प॒रुषा॒+++(=पर्वणा)+++ सम्मि॑तम्

मूलम्

इय॑न्तङ्गृह्णाति । य॒ज्ञ॒प॒रुषा॒ सम्मि॑तम् ।

भट्टभास्कर-टीका

यज्ञपरुषा पर्वणा तुल्यम् ।

सायण-टीका

वेदिखननवाक्य इवायमभिनयः प्रादेशमात्रपरत्वेन व्याख्येयः। तदेवानूद्य प्रशंसति – ‘इयन्तं गृह्णाति। यज्ञपरुषा संमितम्।

विश्वास-प्रस्तुतिः

इय॑न्तङ् गृह्णाति ।
ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्य॑-सम्मितम् ॥32॥

मूलम्

इय॑न्तङ्गृह्णाति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् । वी॒र्य॑सम्मितम् ॥32॥

भट्टभास्कर-टीका

प्रादेशमात्रं च पुरुषे वीर्यस्थानम् ।

श्रीसुदर्शनसूरिः

इयन्तं गृह्णाति। एतावद्वै पुरुषे वीर्यम्। वीर्यसंमितम्’ (ब्रा. का. ३ प्र. ३ अ. ६) इति। परुः पर्व।

विश्वास-प्रस्तुतिः

अ-प॑रिमितङ् गृह्णात्य्
अप॑रिमित॒स्याव॑रुद्ध्यै ।

मूलम्

अप॑रिमितङ्गृह्णाति । अप॑रिमित॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

पश्चादपरिमितग्रहणात् अपरिमितलाभः ।

सायण-टीका

पक्षान्तरं विधत्ते – ‘अपरिमितं गृह्णाति। अपरिमितस्यावरुद्ध्यै’ ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

पवित्रे

विश्वास-प्रस्तुतिः

तस्मि॑न् प॒वित्रे॒ अपि॑सृजति +++(←प्रगृह्यत्वात् सन्ध्य्-अभावः)+++ ।
यज॑मानो॒ वै प्र॑स्त॒रः ।
प्रा॒णा॒पा॒नौ प॒वित्रे॑ ।+++(5)+++
यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ।

मूलम्

तस्मि॑न्प॒वित्रे॒ अपि॑सृजति । यज॑मानो॒ वै प्र॑स्त॒रः ।
प्रा॒णा॒पा॒नौ प॒वित्रे॑ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ।

भट्टभास्कर-टीका

तस्मिन्नित्यादि । गतम् ॥

सायण-टीका

उत्पवनहेत्वोः पवित्रयोः प्रस्तरे स्थापनं विधत्ते – ‘तस्मिन्पवित्रे अपिसृजति। यजमानो वै प्रस्तरः। प्राणापानौ पवित्रे। यजमान एव प्राणापनौ दधाति’ (ब्रा. का. ३ प्र. ३ अ. ) इति। प्रस्तरस्य यजमानवद्यज्ञसिद्धिहेतुतया तदभेदोपचारः।

बर्हिस्-स्तरणम्

विश्वास-प्रस्तुतिः

“ऊर्णा॑-म्रदसन् त्वा स्तृणा॒मी"त्य् आ॑ह । य॒था॒य॒जुर् ए॒वैतत् ।

मूलम्

“ऊर्णा॑म्रदसन्त्वा स्तृणा॒मी"त्या॑ह । य॒था॒य॒जुरे॒वैतत् ।

सायण-टीका

व्याचष्टे — ऊर्णाम्रदसं त्वा स्तृणमित्याह। यथायजुरेवैतत्।

विश्वास-प्रस्तुतिः

“स्व्-आ॒स॒स्थन् दे॒वेभ्य॒” इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैन॑त् स्वास॒स्थङ् क॑रोति ॥33॥

मूलम्

“स्वा॒स॒स्थन्दे॒वेभ्य॒” इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैन॑त्स्वास॒स्थङ्क॑रोति ॥33॥

सायण-टीका

स्वासस्थ्यं देवेभ्य इत्याह। देवेभ्य एवैनत्स्वासस्थं करोति” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

ब॒र्हिस् स्तृ॑णाति । प्र॒जा वै ब॒र्हिः ।
पृ॒थि॒वी वेदिः॑ । प्र॒जा ए॒व पृ॑थि॒व्याम् प्रति॑ष्ठापयति ।

मूलम्

ब॒र्हिस्स्तृ॑णाति । प्र॒जा वै ब॒र्हिः ।
पृ॒थि॒वी वेदिः॑ । प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ष्ठापयति ।

भट्टभास्कर-टीका

8उर्णाम्रदसमिति बर्हिषा वेदिं स्तृणाति ॥ स्वासस्थमिति देवानां शोभनासनस्थानाधिकरणम् । द्वन्द्वेन सह बहुब्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥

सायण-टीका

विधत्ते — “बर्हिः स्तृणाति। प्रजा वै बर्हिः। पृथिवी वेदिः प्राप्त एव पृथिव्यां प्रपिष्ठापयति” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

अन्-अ॑तिदृश्ञँ स्तृणाति ।
प्र॒जयै॒वैन॑म् प॒शुभि॒र् अन॑तिदृश्ञङ् करोति ।

मूलम्

अन॑तिदृश्ञँ स्तृणाति ।
प्र॒जयै॒वैन॑म्प॒शुभि॒रन॑तिदृश्ञङ्करोति ।

सायण-टीका

तत्रैव विशेषं विधत्ते – “अनतिदृश्नँ स्तृणाति। प्रजयैवैनं पशुभिरनतिदृश्नं करोति” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

परिधिः

विश्वास-प्रस्तुतिः

धा॒रय॑न् प्रस्त॒रम् प॑रि॒धीन् परि॑दधाति
यज॑मानो॒ वै प्र॑स्त॒रः । यज॑मान ए॒व तत् स्व॒यम् प॑रि॒धीन् परि॑दधाति

मूलम्

धा॒रय॑न्प्रस्त॒रम्प॑रि॒धीन्परि॑दधाति ।
यज॑मानो॒ वै प्र॑स्त॒रः । यज॑मान ए॒व तत्स्व॒यम्प॑रि॒धीन्परि॑दधाति ।

भट्टभास्कर-टीका

9अनतिदृश्नमिति ॥ अतीत्य स्तरणं दृश्यते भूमिर्यत्र तदतिदृशम् । एवं क्रियमाणं प्रजया पशुभिश्च यजमानमनतिशून्यं करोति । धारयन्नित्यादि । गतम् ॥

सायण-टीका

विधिपूर्वकं व्याचष्टे — “धारयन्प्रस्तरं परिधीन्परिदधाति। यजमानो वै प्रस्तरः। यजमान एव तत्स्वयं परिधीन्परिदधाति।

विश्वास-प्रस्तुतिः

“ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒"र् इत्या॑ह ॥34॥
विश्व॑म् ए॒वायु॒र् यज॑माने दधाति ।

मूलम्

“ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒"रित्या॑ह ॥34॥
विश्व॑मे॒वायु॒र्यज॑माने दधाति ।

सायण-टीका

गन्धर्वोऽसि विश्वावसुरित्याह। विश्वमेवाऽऽयुर्यजमाने दधाति।

इन्द्रस्य बाहुः ...{Loading}...
विश्वास-प्रस्तुतिः

“इन्द्र॑स्य बा॒हुर् अ॑सि॒ दक्षि॑ण॒” इत्य् आ॑ह ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।

मूलम्

“इन्द्र॑स्य बा॒हुर् अ॑सि॒ दक्षि॑ण॒” इत्य् आ॑ह ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।

सायण-टीका

मन्त्रस्य प्रथमभाग इन्द्रशब्दविविक्षामाह — ‘आदद इन्द्रस्य बाहुरसि दक्षिण इत्याह । इन्द्रियमेव यजमाने दधाति’ (ब्रा. का.३ प्र.२ अ.९) इति । अत्राऽऽदद इति पदं पूर्वमन्त्रस्वरूपम् । तच्च स्पष्टार्थम् । इन्द्रस्येति मन्त्रादिः ।


इन्द्रस्य बाहुरसि दक्षिण इत्याह। इन्द्रियमेव यजमाने दधाति।

विश्वास-प्रस्तुतिः

“मि॒त्रावरु॑णौ त्वोत्तर॒तᳶ परि॑धत्ता॒"म् इत्य् आ॑ह ।
प्रा॒णा॒पा॒नौ मि॒त्रा-वरु॑णौ ।
प्रा॒णा॒पा॒नाव् ए॒वास्मि॑न् दधाति ।

मूलम्

“मि॒त्रावरु॑णौ त्वोत्तर॒तᳶ परि॑धत्ता॒"मित्या॑ह ।
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ ।
प्रा॒णा॒पा॒नावे॒वास्मि॑न्दधाति ।

सायण-टीका

मित्रावरुणौ त्वोत्तरतः परिधत्तमित्याह। प्राणापानौ मित्रावरुणौ। प्राणापानावेवास्मिन्दधाति” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

“सूर्य॑स् त्वा पु॒रस्ता॑त् पा॒त्व्” इत्य् आ॑ह । रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

“सूर्य॑स्त्वा पु॒रस्ता॑त्पा॒त्वि"त्या॑ह । रक्ष॑सा॒मप॑हत्यै ।

भट्टभास्कर-टीका

10गन्धर्वोसीत्याद्याः परिधिपरिधानमन्त्राः ॥ विश्वमेवायुरिति । ‘विश्वस्मात् ईषतः हिंसकाद्यजमानस्य परितो धाता रक्षकः’ इति वचनात् ।

सायण-टीका

कस्याश्चिदभिशस्त्याः सर्वस्या अपि हिंसायाः। अनेनैवाभिप्रायेण व्याचष्टे — ‘सूर्यस्त्वा पुरस्तात्पात्वित्याह। रक्षसामपहत्यै।

विश्वास-प्रस्तुतिः

“कस्या॑श्चिद् अ॒भिश॑स्त्या॒” इत्य् आ॑ह ।
अ-प॑रिमिताद् ए॒वैन॑म् पाति ॥35॥

मूलम्

“कस्या॑श्चिद॒भिश॑स्त्या॒” इत्या॑ह ।
अप॑रिमितादे॒वैन॑म्पाति ॥35॥

भट्टभास्कर-टीका

अपरिमितादिति । ‘यतःकुतश्चिदभिशस्त्या हिंसायाः’ इति वचनात् अपरिच्छिन्नात् भयहेतोः यजमानं पाति अनतिशून्यं करोति ॥

सायण-टीका

कस्याश्चिदभिशस्त्या इत्याह। अपरिमितादेवैनं पाति” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

समिदाधानम्

विश्वास-प्रस्तुतिः

“वी॒ति-हो॑त्रन् त्वा कव॒” इत्य् आ॑ह
अ॒ग्निम् ए॒व हो॒त्रेण॒ सम॑र्धयति

मूलम्

“वी॒तिहो॑त्रन्त्वा कव॒” इत्या॑ह ।
अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति ।

भट्टभास्कर-टीका

11ऊर्ध्वसमिदाधानं वीतिहोत्रमिति ॥ होत्रेणेति । हूयतेऽनेनेति होत्रं स्तोत्रं इष्टस्तोत्रम् इति वचनं स्तोत्रसमृद्धत्वायाग्नेः । होतव्यवचनो वा होत्रशब्दः ।

सायण-टीका

एतमेवार्थं दर्शयति – “वीतिहोत्रं त्वा कव इत्याह। अग्निमेव होत्रेण समर्धयति।

विश्वास-प्रस्तुतिः

“द्यु॒मन्तँ॒ समि॑धीम॒ही"त्य् आ॑ह॒ समि॑द्ध्यै ।
“अग्ने॑ बृ॒हन्त॑म् अध्व॒र” इत्या॑ह॒ वृद्ध्यै॑ ।

मूलम्

“द्यु॒मन्तँ॒ समि॑धीम॒ही"त्या॑ह॒ समि॑द्ध्यै ।
“अग्ने॑ बृ॒हन्त॑मध्व॒र” इत्या॑ह॒ वृद्ध्यै॑ ।

सायण-टीका

द्युमन्तँ समिधीमहीत्याह समिद्ध्यै। अग्ने बृहन्तमध्वर इत्याह वृद्ध्यै” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विधृती

विश्वास-प्रस्तुतिः

“वि॒शो य॒न्त्रे स्थ॒” इत्या॑ह ।
वि॒शाय्ँ यत्यै॑ ।

मूलम्

“वि॒शो य॒न्त्रे स्थ॒” इत्या॑ह ।
वि॒शाय्ँयत्यै॑ ।

भट्टभास्कर-टीका

विश इति विधृत्योस्सादनम् । विशां प्रजानां यत्यै धारणाय भवति ।

सायण-टीका

एतदेव दर्शयति - ‘विशो यन्त्रे स्थ इत्याह। विशां यत्यै’ (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

उ॒दी॒चीना॑ग्रे॒ निद॑धाति॒ प्रति॑ष्ठित्यै ।

मूलम्

उ॒दी॒चीना॑ग्रे॒ निद॑धाति॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

उदीचीनाग्र इति ऊर्ध्वाग्र इत्येतत् । गोळापेक्षया उदीच्या ऊर्ध्वत्वात् ।

सायण-टीका

विधत्ते – “उदीचीनाग्रे निदधाति प्रतिष्ठित्यै” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

प्रस्तर-सादनम्

विश्वास-प्रस्तुतिः

“वसू॑नाँ रु॒द्राणा॑म् आदि॒त्यानाँ॒ सद॑सि सी॒दे"त्य् आ॑ह ।
दे॒वता॑नाम् ए॒व सद॑ने प्रस्त॒रँ सा॑दयति ।

मूलम्

“वसू॑नाँ रु॒द्राणा॑मादि॒त्यानाँ॒ सद॑सि सी॒दे"त्या॑ह ।
दे॒वता॑नामे॒व सद॑ने प्रस्त॒रँ सा॑दयति ।

भट्टभास्कर-टीका

वसूनामिति विधृत्योः प्रस्तरसादनम् ॥

सायण-टीका

विधृतिद्वयमेव सद इत्यभिप्रेत्याऽऽह — “वसूनाँ रुद्राणामादित्यानाँ सदसि सीदेत्याह। देवतानामेव सदने प्रस्तरँसादयति” (ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

“जु॒हूर् अ॑सि घृ॒ताची॒ नाम्ने"त्या॑ह ॥36॥
अ॒सौ वै जु॒हूः ।
अ॒न्तरि॑क्षम् उप॒भृत् ।
पृ॒थि॒वी ध्रु॒वा ।
तासा॑म् ए॒तद् ए॒व प्रि॒यन् नाम॒ -“यद् घृ॒ताची"ति॑ ।

मूलम्

“जु॒हूर॑सि घृ॒ताची॒ नाम्ने"त्या॑ह ॥36॥
अ॒सौ वै जु॒हूः ।
अ॒न्तरि॑क्षमुप॒भृत् ।
पृ॒थि॒वी ध्रु॒वा ।
तासा॑मे॒तदे॒व प्रि॒यन्नाम॒ -“यद्घृ॒ताची"ति॑ ।

मूलम्

तासा॑मे॒तदे॒व प्रि॒यन्नाम॑ ।
यद्घृ॒ताचीति॑ ।
तासा॑मे॒तदे॒व प्रि॒यन्नाम॒ -“यद्घृ॒ताची"ति॑ ।

भट्टभास्कर-टीका

12जुहूरसीत्याद्याः स्रुचां प्रस्तरे सादनमन्त्राः ॥

सायण-टीका

व्याचष्टे — “जुहूरसि घृताची नाम्नेत्याह। असौ वै जुहूः। अन्तरिक्षमुपभृत्। पृथिवी ध्रुवा। तासामेतदेव प्रियं नाम। यद्घृताचीति।

विश्वास-प्रस्तुतिः

यद् “घृ॒ताची"त्य् आह॑ -
प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति ।

मूलम्

यद्घृ॒ताचीत्याह॑ । प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति ।

भट्टभास्कर-टीका

घृताचीति । घृतमञ्चति आधारत्वेनेति । ‘ऋत्विक्’ इत्यादिना क्विनि अनुनासिकलोपे ‘अचः’ इत्यकारलोपे ‘चौ’ इति दीर्घः ॥

सायण-टीका

यद्घृताचीत्याह। प्रियेणैवैना नाम्ना सादयति” ( ब्रा. का. ३ प्र. ३ अ. ६) इति।

विश्वास-प्रस्तुतिः

“ए॒ता अ॑सदन्त् सुकृ॒तस्य॑ लो॒क” इत्य् आ॑ह ।
स॒त्यव्ँ वै सु॑कृ॒तस्य॑ लो॒कः ।
स॒त्य ए॒वैना॑स् सुकृ॒तस्य॑ लो॒के सा॑दयति ।

मूलम्

“ए॒ता अ॑सदन्त्सुकृ॒तस्य॑ लो॒क” इत्या॑ह ।
स॒त्यव्ँ वै सु॑कृ॒तस्य॑ लो॒कः ।
स॒त्य ए॒वैना॑स्सुकृ॒तस्य॑ लो॒के सा॑दयति ।

सायण-टीका

लोकेऽवश्यंभावि फलं तद्रूपत्वेन भाविते प्रस्तरे स्रुवोऽवस्थिताः एतदेव दर्शयति – “एता असदन्त्सुकृतस्य लोक इत्याह। सत्यं वै सुकृतस्य लोकः। सत्य एवैनाः सृकृतस्य लोके सादयति।

विश्वास-प्रस्तुतिः

“ता वि॑ष्णो पा॒ही"त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञस्य॒ धृत्यै॑ ।

मूलम्

“ता वि॑ष्णो पा॒ही"त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञस्य॒ धृत्यै॑ ।

सायण-टीका

ता विष्णो पाहीत्याह। यज्ञो वै विष्णुः। यज्ञस्य धृत्यै।

विश्वास-प्रस्तुतिः

“पा॒हि य॒ज्ञम्, पा॒हि य॒ज्ञप॑तिम्, पा॒हि माय्ँ य॑ज्ञ॒निय॒"म् इत्य् आ॑ह -
य॒ज्ञाय॒ यज॑मानाया॒त्मने॑ ।
तेभ्य॑ ए॒वाशिष॒म् आशा॒स्ते ऽना॑र्त्यै ॥37॥

मूलम्

“पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्ँय॑ज्ञ॒निय॒"मित्या॑ह ।
य॒ज्ञाय॒ यज॑मानाया॒त्मने॑ ।
तेभ्य॑ ए॒वाशिष॒माशा॒स्तेऽना॑र्त्यै ॥37॥

भट्टभास्कर-टीका

13एता असदन्निति सादितानां स्रुचामभिमन्त्रणम् ॥ धृत्या इति स्रुचां पातृत्वेन प्रार्थितत्वात् यज्ञस्ता न त्यजतीति तस्यैवावस्थानाय भवति । यज्ञाय यजमानाय यज्ञस्य नेत्रे अध्वर्यवे च आत्मने तेभ्यः एतेभ्यः त्रिभ्यः आशिषमाशास्ते । अनात्यै अपीडायै भवति ॥

इति तैत्तिरीयब्राह्मणे तृतीये तृतीये षष्ठोऽनुवाकः ॥

सायण-टीका

पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञीनयमित्याह। यज्ञाय यजमानायाऽऽत्मने। तेभ्य एवाऽऽशिषमाशास्तेऽनार्त्यै” ( ब्रा. का. ३ प्र. ३ अ. ६) धृतिर्यज्ञपुरुषकर्तृकं स्रुचां पोषणम्।