०५ आज्य-ग्रहणम्

अवेक्षणम्

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
स ए॒तम् इन्द्र॒ आज्य॑स्यावका॒शम् +++(→प्रकाशक-मन्त्रम्)+++ अ॑पश्यत् ।
तेनावै॑क्षत ।

मूलम्

दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत् ।
तेनावै॑क्षत ।

भट्टभास्कर-टीका

1देवासुरा इति ॥ आज्यस्यावकाशमिति ‘अग्नेर्जिह्वा'1 इत्यवेक्षणमन्त्रस्यैषा संज्ञा ।

सायण-टीका

आहुतेः कस्या अप्यलोपोऽनन्तरायः यदेतदाज्यावेक्षणं पूर्वमुक्तं तत्र विशेषं वक्तुं तत्प्रस्तौति — ‘देवासुराः संयत्ता आसन्। स एतमिन्द्र आज्यस्यावकाशमपश्यत्। तेनावैक्षत।

ततो॑ दे॒वा अभ॑वन् ...{Loading}...
विश्वास-प्रस्तुतिः

ततो॑ दे॒वा अभ॑वन्न् +++(←चादिलोपे विभाषा)+++,
पराऽसु॑राः +++(चाभवन्)+++।

Keith

Then the gods prospered,
the Asuras were defeated.

मूलम्

ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ।

पद-पाठः

ततः॑ । दे॒वाः । अभ॑वन् ।
परेति॑ । असु॑राः ।

सायण-टीका

ततो देवा अभवन्। पराऽसुराः।


देवानां यज्ञं दृष्ट्वा तथैवानुचरतामसुराणां देवसमानं विजयं दृष्ट्वा देवास्तानसुरान्वञ्चयित्वाऽनुष्ठितेनानुनिर्वाप्येण स्वयं विजयं प्राप्ता असुराश्च पराभूताः।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् आज्य॑म् अ॒वेक्ष॑ते॒
भव॑त्य् आ॒त्मना॒,
परा॑ ऽस्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

य ए॒वव्ँवि॒द्वानाज्य॑म॒वेक्ष॑ते । भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

भट्टभास्कर-टीका

आत्मनेति । प्रकृत्यादितृतीया ।

सायण-टीका

य एवं विद्वानाज्यमवेक्षते। भवत्यात्मना। पराऽस्य भ्रातृव्यो भवति’ (ब्रा. का. ३ प्र. ३ अ. ५) इति। अवकाशः प्रकाशको मन्त्रः। स चाग्नेर् जिह्वाऽसीत्य्-आदिकः।

मूलम्

ई॒श्व॒रो वा ए॒षो॑ऽन्धो भवि॑तोः ।

यश्चक्षु॒षाऽऽज्य॑म॒वेक्ष॑ते । नि॒मील्यावे॑क्षेत ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -

यद् आज्ये॑ना॒न्यानि॑ ह॒वीँष्य् अ॑भिघा॒रय॑त्य्
अथ॒ केनाज्य॒"म्

इति॑ ।
“स॒त्येने"ति॑ ब्रूयात् ।+++(5)+++
चक्षु॒र्वै स॒त्यम् ।
स॒त्येनै॒वैन॑द् अ॒भि घा॑रयति ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यदाज्ये॑ना॒न्यानि॑ ह॒वीँष्य॑भिघा॒रय॑ति ॥22॥
अथ॒ केनाज्य॒मिति॑ ।
स॒त्येनेति॑ ब्रूयात् ।

चक्षु॒र्वै स॒त्यम् ।
स॒त्येनै॒वैन॑द॒भि घा॑रयति ।

भट्टभास्कर-टीका

यदाज्येनेति । गतम् । सत्यं सतां साधु यथार्थग्रहणसामर्थ्यात् ।

सायण-टीका

अभिघारणरूपत्वकथनेनावेक्षणं प्रशंसति – ‘ब्रह्मवादिनो वदन्ति। यदाज्योनान्यानि हवीँष्याभिघारयति। अथ केनाऽऽज्यमिति। शत्येनेति ब्रूयात्। चक्षुर्वै सत्यम्। सत्येनैवैनदभिघारयति’ (ब्रा. का. ३ प्र. ३ अ. ५) इति।

विश्वास-प्रस्तुतिः

ई॒श्व॒रो वा ए॒षो॒॑ ऽन्धो भवि॑तो॒र् -
यश् चक्षु॒षा ऽऽज्य॑म् अ॒वेक्ष॑ते।
नि॒मील्यावे॑क्षेत ।
दा॒धारा॒त्मञ् चक्षुः॑ ।

मूलम्

ई॒श्व॒रो वा ए॒षो॑ऽन्धो भवि॑तोः ।
यश्चक्षु॒षाऽऽज्य॑म॒वेक्ष॑ते
नि॒मील्यावे॑क्षेत ।
दा॒धारा॒त्मञ् चक्षुः॑ ।

भट्टभास्कर-टीका

अन्धो भवितोः भवितुमीश्वरः । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् । तेजस्त्वादाज्यस्य ।

दाधारेति । आत्मनि चक्षुरविकलं धारयति स्थापयति । छान्दसो लिट्, तुजादित्वादभ्यासस्य दीर्घत्वम् ।

सायण-टीका

अवेक्षणे निमीलनरूपं विशेषं – “ईश्वरो वा एषोऽन्धे भवितोः। यश्चक्षुषाऽऽज्यमवेक्षते। निमील्यावेक्षेत। दाधाराऽऽत्मन्चक्षुः।

विश्वास-प्रस्तुतिः

+++(अवेक्षणेन)+++ अ॒भ्याज्य॑ङ् घारयति ।

मूलम्

अ॒भ्याज्य॑ङ्घारयति ।

भट्टभास्कर-टीका

आज्यं चाभिघारयति निमीलनेनात्मनि स्थापितं भवति । अवेक्षणेनाज्यस्याभिघारणम् ॥

सायण-टीका

अभ्याज्यं धारयति’ (ब्रा. का. ३ प्र. ३ अ. ५) इति।

आज्य-ग्रहणम्

विश्वास-प्रस्तुतिः

आज्य॑ङ् गृह्णाति ॥23॥
छन्दाँ॑सि॒ वा आज्य॑म् ।
छन्दाँ॑स्य् ए॒व प्री॑णाति ।

मूलम्

आज्य॑ङ्गृह्णाति ॥23॥
छन्दाँ॑सि॒ वा आज्य॑म् ।
छन्दाँ॑स्य् ए॒व प्री॑णाति ।

भट्टभास्कर-टीका

2आज्यं गृह्णातीति ॥ चतुर्ग्रहादिविशिष्टम् ।

सायण-टीका

विधत्ते — ‘आज्यं गृह्णाति। छन्दाँसि वा आज्यम्। छन्दाँस्येव प्रीणाति’ (ब्रा. का. ३ प्र. ३ अ. ५) इति।

विश्वास-प्रस्तुतिः

च॒तुर् जु॒ह्वाङ् गृ॑ह्णाति । चतु॑ष्-पादᳶ प॒शवः॑ ।
प॒शून् ए॒वाव॑रुन्धे ।

मूलम्

च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति । चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शूने॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

छन्दांसि वा इति । प्रधानसाधनत्वान् ।

सायण-टीका

स्रुग्विशेषेणाऽऽवृत्तिविशेषं विधत्ते — ‘चतुर्जुह्वां गृह्णाति। चतुष्पादः पशवः। पशूनेवावरुन्धे।

विश्वास-प्रस्तुतिः

अ॒ष्टाव् उ॑प॒भृति॑ ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रᳶ प्रा॒णः ।
प्रा॒णम् ए॒व प॒शुषु॑ दधाति ।

मूलम्

अ॒ष्टावु॑प॒भृति॑ ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रᳶ प्रा॒णः ।
प्रा॒णमे॒व प॒शुषु॑ दधाति ।

भट्टभास्कर-टीका

अष्टावुपभृति गृह्णातीत्येव ।

सायण-टीका

अष्टावुपभृति। अष्टाक्षरा गायत्री। गायत्रः प्राणः। प्राणमेव पशुषु दधाति।

विश्वास-प्रस्तुतिः

च॒तुर् ध्रु॒वाया॑म् ॥24 ॥
चतु॑ष्-पादᳶ प॒शवः॑ ।
प॒शुष्व् ए॒वोपरि॑ष्टा॒त् प्रति॑तिष्ठति ।

मूलम्

च॒तुर्ध्रु॒वाया॑म् ॥24 ॥
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

एवं चतुर्ध्रुवायामित्यत्रापि ।

सायण-टीका

चतुर्ध्रुवायाम्। चतुष्पादः पशवः। पशुष्वेवोपरिष्टात्प्रतितिष्ठति” (ब्रा. का. ३ प्र. ३ अ. ५) इति।

विश्वास-प्रस्तुतिः

य॒ज॒मा॒न॒-दे॒व॒त्या॒॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒-दे॒व॒त्यो॑प॒भृत् ।

मूलम्

य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।

सायण-टीका

ग्राह्यस्याऽऽज्युस्य स्रुग्विशेषेणाल्पाधिकपरिमाणं विधत्ते — “यजमानदेवत्या वै जुहूः। भ्रातृव्यदेवत्योपभृत्।

विश्वास-प्रस्तुतिः

च॒तुर् जु॒ह्वाङ् गृ॒ह्णन् भूयो॑ गृह्णीयात् ।
अ॒ष्टाव् उ॑प॒भृति॑ गृ॒ह्णन् कनी॑यः ।
यज॑मानायै॒व भ्रातृ॑व्य॒म् उप॑स्तिङ्+++(=उपस्थम्→गौणम्)+++ करोति ।

मूलम्

च॒तुर्जु॒ह्वाङ्गृ॒ह्णन्भूयो॑ गृह्णीयात्।
अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन्कनी॑यः ।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति ।

भट्टभास्कर-टीका

भूयः बहुतरम् ।

कनीय इति । गृह्णीयादित्येव । कनीयोऽल्पतरम् । ‘युवाल्पयोः’ इति कनादेशः ।
उपस्तिं गुणभूतं, समीपे भवतीत्य् उपस्तिः । अस्तेः क्तिनि ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् भूभावाभावः, अल्लोपश्च ॥

सायण-टीका

चतुर्जुह्वा गृह्णन्भूयो गृह्णीयात्। अष्टावुपभृति गृह्णन्कनीयः। यजमानायैव भ्रातृव्यमुपस्तिं करोति” (ब्रा. का. ३ प्र. ३ अ. ५) इति। उप समीपे भृत्यत्वेनास्ति तिष्ठतीत्युपस्तिः।

विश्वास-प्रस्तुतिः

गौर् वै स्रुचः॑ +++(अभीष्ट-धुक्त्वात्)+++।+++(5)+++

च॒तुर् जु॒ह्वाङ् गृ॑ह्णाति । तस्मा॒च् चतु॑ष्-पदी ॥25॥

अ॒ष्टाव् उ॑प॒भृति॑ । तस्मा॑द् अ॒ष्टा-श॑फा ।

च॒तुर् ध्रु॒वाया॑म् ।
तस्मा॒च् चतु॑स्-स्तना ।

मूलम्

गौर्वै स्रुचः॑ ।

च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति । तस्मा॒च्चतु॑ष्पदी ॥25॥

अ॒ष्टावु॑प॒भृति॑ । तस्मा॑द॒ष्टाश॑फा ।

च॒तुर्ध्रु॒वाया॑म् ।
तस्मा॒च्चतु॑स्स्तना ।

भट्टभास्कर-टीका

3गौर्वा इति ॥ अभिमतधुक्त्वात् ।

चतुष्पदीति । ‘पादोऽन्यतरस्याम्’ इति ङीप्, ‘पादः पत्’ इति पद्भावः ॥

अष्टावुपभृति गृह्णातीत्येव ॥

इति तैत्तिरीयब्राह्मणे तृतीये तृतीये पञ्चमोऽनुवाकः ॥

सायण-टीका

संख्यां पुनः प्रकारान्तरेण स्तौति – “गौर्वै स्रुचः चतुर्जुह्वां गृह्णाति। तस्माच्चतुष्पदी। अष्टावुपभृति। तस्मादष्टाशफा। चतुर्ध्रुवायाम्। तस्माच्चतुस्तना।

विश्वास-प्रस्तुतिः

गाम् ए॒व तत् सँस्क॑रोति ।
सास्मै॒ सँस्कृ॒तेष॒म् ऊर्ज॑न् दुहे ।

मूलम्

गामे॒व तत्सँस्क॑रोति ।
सास्मै॒ सँस्कृ॒तेष॒मूर्ज॑न्दुहे ।

सायण-टीका

गामेव तत्सँस्करोति। साऽस्मै सँस्कृतेषमूर्जं दुहे” (ब्रा. का. ३ प्र. ३ अ. ५) इति।

विश्वास-प्रस्तुतिः

यज् जु॒ह्वाङ् गृ॒ह्णाति॑ - प्रया॒जेभ्य॒स् तत् ।

यद् उ॑प॒भृति॑ -
प्रयाजानूया॒जेभ्य॒स् तत् ।

सर्व॑स्मै॒ वा ए॒तद् य॒ज्ञाय॑ गृह्यते
यद् ध्रु॒वाया॒म् आज्य॑म् ॥26॥

मूलम्

यज्जु॒ह्वाङ्गृ॒ह्णाति॑ । प्र॒या॒जेभ्य॒स्तत् ।

यदु॑प॒भृति॑ । प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत् ।

सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते । यद्ध्रु॒वाया॒माज्य॑म् ॥26॥

सायण-टीका

गृहीतस्याऽऽज्यस्य यथोचितमाहुत्यङ्गत्वं दर्शयति – “यज्जुह्वां गृह्णाति। प्रयाजेभ्यस्तत्। यदुपभृति। प्रयाजानूयाजेभ्यस्तत्। सर्वस्मै वा एतद्यज्ञाय गृह्यते। यद्ध्रुवायामाज्यम्” (ब्रा. का. ३ प्र. ३ अ. ५) इति। पञ्चसु प्रयाजेषु त्रयं जौहवाज्येन निष्पाद्यं, द्वयं त्वौपभृतार्धेन, शिष्टेन त्वनूयाजाः। यत्र द्रव्यापेक्षा तत्र सर्वत्र ध्रौवम्।