पत्न्य्-अपेक्षा
विश्वास-प्रस्तुतिः
अ-य॑ज्ञो॒ वा ए॒ष यो᳙ऽप॒त्नीकः॑ ।
न प्र॒जाᳶ प्रजा॑येरन् ।
मूलम्
अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जाᳶ प्रजा॑येरन् ।
भट्टभास्कर-टीका
1अयज्ञो वा इत्यादि ॥ यज्ञोऽप्ययज्ञः यज्ञकार्याकरणात्, यथा पुत्रकार्याकरणात् पुत्रोऽप्यपुत्र इत्युच्यते ।
सायण-टीका
योक्त्रबन्धनाय गार्हपत्यसमीपे पत्न्या उपवेशनं विधत्ते – ‘अयज्ञो वा एषः। योऽपत्नीकः। न प्रजाः प्रजायेरन्।
विश्वास-प्रस्तुतिः
पत्न्य् अन्वा॑स्ते।
य॒ज्ञम् ए॒वाकः॑।
प्र॒जाना॑म् प्र॒जन॑नाय ।
मूलम्
पत्न्यन्वा॑स्ते ।
य॒ज्ञमे॒वाकः॑ ।
प्र॒जाना॑म्प्र॒जन॑नाय ।
भट्टभास्कर-टीका
अन्वास्ते गार्हपत्यमनुगताऽऽस्ते । तथा कुर्वन्ती अयज्ञापनोदनेन यज्ञमेवाकः करोति । लुङि पूर्ववत् च्लेर्लुक् ।
सायण-टीका
पत्न्यन्वास्ते। यज्ञमेवाकः। प्रजानां प्रजननाय’ (ब्रा. का. ३ प्र. ३ अ. ३) इति। अकः कृतवान्भवति।
सन्नहनम्
विश्वास-प्रस्तुतिः
यत् तिष्ठ॑न्ती स॒न्नह्ये॑त
प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।
मूलम्
यत्तिष्ठ॑न्ती स॒न्नह्ये॑त । प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।
भट्टभास्कर-टीका
प्रियमिति मातरं पितरं वा, उच्चलितत्वात् ।
सायण-टीका
बन्धनकालेऽप्युपवेशनमेव न तूत्थानयित्याह — ‘यत्तिष्ठन्ती संनह्येत। प्रियं ज्ञातिँ रुन्ध्यात्।
विश्वास-प्रस्तुतिः
आसी॑ना॒ सन्न॑ह्यते । आसी॑ना॒ ह्य् ए॒॑षा वी॒र्य॑ङ् क॒रोति॑ ॥11॥
मूलम्
आसी॑ना॒ सन्न॑ह्यते । आसी॑ना॒ ह्ये॑षा वी॒र्य॑ङ्क॒रोति॑ ॥11॥
भट्टभास्कर-टीका
आसीना हि वीर्यवती स्त्री भवति न तथा तिष्ठन्ती ।
सायण-टीका
आसीना संनह्यते। आसीना ह्येषा वीर्यं करोति’ (ब्रा. का. ३ प्र. ३ अ. ३) इति। रुन्ध्यात् नाशयेत्।
स्थानम्
विश्वास-प्रस्तुतिः
यत् +++(गार्हपत्यस्य)+++ प॒श्चात् प्राच्य् +++(अभिमुखा)+++ अ॒न्वासी॑त
अ॒नया॑ +++(=पृथिव्या)+++ स॒मद॑न् +++(=कलहं)+++ दधीत ।
दे॒वाना॒म् पत्नि॑या स॒मद॑न् दधीत ।
मूलम्
यत्प॒श्चात्प्राच्य॒न्वासी॑त । अ॒नया॑ स॒मद॑न्दधीत । दे॒वाना॒म् पत्नि॑या स॒मद॑न् दधीत ।
भट्टभास्कर-टीका
पश्चादिति । अपरतो गार्हपत्यस्य । अनया पृथिव्या ।
एवमासीना पत्नी समदं कलहं दधीत तथाऽऽसीनत्वात् पृथिव्याः, ततश्चायज्ञिया स्यात् ।
इयम् अपि देवानां पत्न्या समदं दधीत देवपत्नीनां स्थानत्वात्तस्य ।
सायण-टीका
चिरमप्यवस्थातुं शक्यत्वादासीनायाः सामर्थमस्ति। दिग्देशौ विधत्ते – ‘यत्पश्चात्प्राच्यन्वासीत। अनया समदं दधीत। देवानां पत्निया समदं दधीत।
विश्वास-प्रस्तुतिः
देशा॑द् दक्षिण॒त उदी॒च्य् अन्वा॑स्त -
आ॒त्मनो॑ गोपी॒थाय॑ ।
मूलम्
देशा॑द्दक्षिण॒त उदी॒च्यन्वा॑स्ते । आ॒त्मनो॑ गोपी॒थाय॑ ।
भट्टभास्कर-टीका
तस्मात् ततो देशात् दक्षिणत उदीची उपविशति ॥
सायण-टीका
देशाद्दक्षिणत उदीच्यन्वास्ते। आत्मनो गोपीथाय’ (ब्रा. का. ३ प्र. ३ अ.३) इति। समदः कलहः।
आ॒शासा॑ना सौमन॒सम्
विश्वास-प्रस्तुतिः
“आ॒शासा॑ना सौमन॒सम्” इत्य् आ॑ह ।
मेध्या॑म् ए॒वैना॒ङ् केव॑लीङ् कृ॒त्वा
आ॒शिषा॒ सम॑र्धयति ।
मूलम्
आ॒शासा॑ना सौमन॒समित्या॑ह । मेध्या॑मे॒वैना॒ङ्केव॑लीङ्कृ॒त्वा । आ॒शिषा॒ सम॑र्धयति ।
भट्टभास्कर-टीका
2आशासानेति योक्त्रेण पत्न्याः संनहनम् ॥
सायण-टीका
ननु सर्वा अपि योषितः सौमनस्यादि-कामान् आशासते
तत्र को विशेषोऽस्या इत्य् आशङ्क्य मन्त्रे पूर्वार्धस्याभिप्रायमाह —
‘आशासाना सौमनसमित्याह। मेध्यामेवैनां केवलीं कृत्वा। आशिषा समर्धयति’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।
देव-यजन-प्रवेशेन यज्ञ-योग्यां पाप-क्षयेण केवलीं कृत्वा
ऽऽशासानेति ब्रुवन् सत्ययाऽऽशिषा समृद्धां करोति।
विश्वास-प्रस्तुतिः
“अ॒ग्नेर् अनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ क"म् इत्य् आ॑ह ।
ए॒तद् वै पत्नि॑यै व्रतोप॒नय॑नम्।
तेनै॒वैनाव्ँ॑ व्र॒तम् उप॑नयति ।+++(4)+++
मूलम्
अ॒ग्नेर् अनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कमित्या॑ह ।
ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम् ॥12॥
तेनै॒वैना॑व्व्ँर॒तमुप॑नयति ।
भट्टभास्कर-टीका
व्रतोपनयनमिति । ‘अग्नेरनुव्रता’ इति च मन्त्रलिङ्गम् ।
सायण-टीका
अनुव्रतसूचितमर्थमाह – ‘अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कमित्याह। एतद्वै पत्नियै व्रतोपनयनम्। तेनैवैनां व्रतमुपनयति’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।
योक्त्रेण योगः
विश्वास-प्रस्तुतिः
तस्मा॑द् आहुः॒ - यश् चै॒वव्ँ वेद॒, यश् च॒ न -
“योक्त्र॑म् ए॒व यु॑ते+++(=मिश्रयति)+++ ।
यम् अ॒न्वास्ते॒
तस्या॒मुष्मिल्ँ॑ लो॒के भ॑व॒ती"ति॒ “योक्त्रे॑ण” ।
मूलम्
तस्मा॑दाहुः ।
यश्चै॒वव्ँ वेद॒ यश्च॒ न ।
योक्त्र॑मे॒व यु॑ते ।
यम॒न्वास्ते॑ ।
तस्या॒मुष्मिल्ँ॑ लो॒के भ॑व॒तीति॒ योक्त्रे॑ण ।
भट्टभास्कर-टीका
तस्माद् आहुर् इति ।
यश्चैवं संनहन-महिमानं वेद
यश्च न वेद लौकिकः
ते सर्वेऽपि वक्ष्यमाणम् आहुः ।
योक्त्रेण यत् संनहनं, तद् युते मिश्रयति
नित्याविनाभूताम् एनां करोति ।
व्यत्ययेनात्मनेपदम् ।
कथं? यमन्वास्ते अनुवर्तते तस्यैव अमुष्मिन् परस्मिन् लोके भवति योक्त्रेण सन्नद्धा पत्नीति, एवं संनहनं अवियोगायेति सर्वेपि वदन्ति । ‘अनुव्रता’ इति मन्त्रपदमेतेन व्याख्यातम् ।
सायण-टीका
अस्मिन्नर्थे लौकिकवैदिकप्रसिद्धिं दर्शयति — ‘तस्मादाहुः। यश्चैवं वेद यश्च न। योक्त्रमेव युते। यमन्वास्ते। तस्यामुष्मिल्ँ लोके भवतीति योक्त्रेण’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।
विश्वास-प्रस्तुतिः
यद् योक्त्रं॒ स योगः॑ ।
यद् आस्ते॒ स क्षेमः॑ ॥13॥
यो॒ग॒-क्षे॒मस्य॒ कॢप्त्यै॑ ।
मूलम्
यद्योक्त्र॑म् । स योगः॑ ।
यदास्ते॑ । स क्षेमः॑ ॥13॥
यो॒ग॒क्षे॒मस्य॒ कॢप्त्यै॑ ।
भट्टभास्कर-टीका
किञ्चेत्याह - योक्त्रं योगः अलब्धलाभतुल्यः, आसनं नाम क्षेमः लब्धपरिपालनतुल्यः, तस्मादासनं योक्त्रेण संनहनं योगक्षेमस्य कॢप्त्यै भवति, योगः सन्निहितः क्षेमः योगक्षेमः ॥
सायण-टीका
प्रकारान्तरेण योक्त्रं स्तौति – ‘यद्योक्त्रम्। स योगः। यदास्ते। स क्षेमः। योगक्षेमस्य कॢप्त्यै’ (ब्रा. का. ३ प्र. ३ अ. ३) इति। अप्राप्तस्य वस्तुनः प्राप्तिर्योगः। प्राप्तस्य रक्षणं क्षेमः।
विश्वास-प्रस्तुतिः
यु॒क्तङ् क्रि॑याता, आ॒शीᳵ कामे॑ युज्याता॒
इत्य् आ॒शिष॒स् समृ॑द्ध्यै ।
मूलम्
यु॒क्तङ्क्रि॑याता आ॒शीᳵ कामे॑ युज्याता॒ इति॑ । आ॒शिष॒स्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
3पुनश्च प्रयोजनान्तरवत्तया संनहनं स्तूयते - अतः परं मया युक्तम् एव क्रियेत मया कृतं सर्वं युक्तम् एवास्तु ।
आशीः कामे कामानामाशीः सद्य एव युज्येत युक्ता एव आशिषस्सन्तु इत्यनया धिया योक्ष्यमाणा संनह्मतेऽसौ, तस्मात् आशिषस्समृद्ध्यै भवति । संनहनमन्त्रलिङ्गं च ‘आशासाना'1 इति । उभयत्रापि लेटि ‘वैतोऽन्यत्र’ इत्यैकारः ।
सायण-टीका
मनसि किमभिप्रेत्यासौ बध्यत इत्याशङ्क्याऽऽह — ‘युक्तं क्रियाता आशीः कामे युज्याता इति। आशिषः समृद्ध्यै’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।
ग्रन्थिः
विश्वास-प्रस्तुतिः
ग्र॒न्थिङ् ग्र॑थ्नाति ।
आ॒शिष॑ ए॒वास्या॒म् परि॑गृह्णाति ।
मूलम्
ग्र॒न्थिङ्ग्र॑थ्नाति ।
आ॒शिष॑ ए॒वास्या॒म्परि॑गृह्णाति ।
सायण-टीका
विधत्ते — ‘ग्रन्थिं ग्रथ्नाति। आशिष एवास्यां परिगृह्णाति।
विश्वास-प्रस्तुतिः
पुमा॒न् वै ग्र॒न्थिः ।
स्त्री पत्नी॑ ।
तन् मि॑थु॒नम् ।
मि॒थु॒नम् ए॒वास्य॒ तद् य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र् यज॑मानः ॥14॥
मूलम्
पुमा॒न्वै ग्र॒न्थिः ।
स्त्री पत्नी॑ ।
तन्मि॑थु॒नम् ।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥14॥
सायण-टीका
पुमान्वै ग्रन्थिः। स्त्री पत्नी। तन्मिथुनम्। मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय। प्रजायते प्रजया पशुभिर्यजमानः।
विश्वास-प्रस्तुतिः
अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत् पत्नी॑ ।
+++(तद्-गत-ग्रन्थि-धृतस्य)+++ य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलम्भावाय ।
मूलम्
अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑ ।
यत्पत्नी॑ ।
य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलम्भावाय ।
भट्टभास्कर-टीका
अशिथिलंभावाय अशिथिलभावाय । च्वेरम्भावः छान्दसः ॥
सायण-टीका
अथो अर्धो वा एष आत्मनः। यत्पत्नी। यज्ञस्य धृत्या अशिथिलंभावाय’ (ब्रा. का. ३ प्र. ३ अ. ३)
सौमनस्याद्याशिषः सर्वा अपि योक्त्रग्रन्थिना तस्यां परिगृहीता भवन्ति।
यज्ञ-कर्तुर् अर्ध-स्वरूप-भूता पत्नी।
ततस्तदीय-ग्रन्थिना यज्ञो ध्रियते न तु शिथिलो भवति।
उपसादनम्
विश्वास-प्रस्तुतिः
“सु॒प्र॒जस॑स् त्वा व॒यँ सु॒पत्नी॒र् उप॑सेदि॒मे"त्य् आ॑ह । य॒ज्ञम् ए॒व तन् मि॑थु॒नी-क॑रोति । “ऊ॒नेऽति॑रिक्तन् धीयाता॒” इति॒ प्रजा॑त्यै ।
मूलम्
सु॒प्र॒जस॑स्त्वा व॒यँ सु॒पत्नी॒रुप॑सेदि॒मेत्या॑ह । य॒ज्ञमे॒व तन्मि॑थु॒नीक॑रोति । “ऊ॒नेऽति॑रिक्तन् धीयाता॒” इति॒ प्रजा॑त्यै ।
भट्टभास्कर-टीका
4सुप्रजस इति पत्न्या गार्हपत्योपसदनम् ॥ मिथुनीकरोतीति । मिथुनवान् मिथुनी पत्न्यनुप्रवेशेन यज्ञो मिथुनवान् क्रियते ।
कोऽर्थोऽनयेति चेत् पत्नीकृत्यं दर्शयति - ऊने छिद्रे अतिरिक्तं धीयातै कथं नाम छिद्रपूरणेन समीकृतो यज्ञः स्यादिति । तच्च मिथुनत्वं प्रजात्यै भवति, छिद्रपूरणरूपत्वात् मिथुनव्यापारस्य ॥
सायण-टीका
पत्न्या उपसी(स)दने प्रयोजनं दर्शयति — ‘सुप्रजसस्त्वा वयँ सुपत्नीरुपसेदिमेत्याह। यज्ञमेव तन्मिथुनी करोति। ऊनेऽतिरिक्तं धीयाता इति प्रजात्यै’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।
आज्य-निर्वापः
विश्वास-प्रस्तुतिः
“म॒ही॒नाम् पयो॒ ऽस्य्, ओष॑धीनाँ॒ रस॒” इत्य् आ॑ह । रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
“म॒ही॒नाम्पयो॒ऽस्योष॑धीनाँ॒ रस॒” इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
भट्टभास्कर-टीका
5महीनाम् इत्याज्यनिर्वपणम् ॥
इति तैत्तिरीयब्राह्मणे तृतीये तृतीये तृतीयोऽनुवाकः ॥
सायण-टीका
इमं विष्यामि समायुषेत्यस्य मन्त्रद्वयस्यात्राप्रासङ्गिकत्वात्तद्व्याख्यानमुपेक्ष्यानन्तरस्य मन्त्रस्य पूर्वभागे स्पष्टार्थतां दर्शयति – ‘महीनां पयोऽस्योषधीनाँ रस इत्याह। रूपेमवास्यैतन्महिमानं व्याचष्टे’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।
विश्वास-प्रस्तुतिः
तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह । आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।। 15 ।।
मूलम्
तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते ।। 15 ।।
सायण-टीका
उत्तरभागस्य तेऽक्षीयमाणस्येति पदस्याभिप्रायमाह – ‘तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इत्याह। आशिषमेवैतामाशास्ते’ (ब्रा. का. ३ प्र. ३ अ. ३) इति।