०१ स्रुक्-सम्मार्गः

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ ...{Loading}...
विश्वास-प्रस्तुतिः

“प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

“प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।

सायण-टीका

व्याचष्टे — “प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह। रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।


अनिष्टपरिहारायेष्टसिद्धये चोभौ मन्त्रावित्याह – ‘प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह। रक्षसामपहत्यै।

विश्वास-प्रस्तुतिः

“अ॒ग्नेर् व॒स् तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मी"त्या॑ह मेध्य॒त्वाय॑ ।

मूलम्

“अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मी"त्या॑ह मेध्य॒त्वाय॑ ।

सायण-टीका

अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्याह मेध्यत्वाय’ (ब्रा. का. ३ प्र. ३ अ. “१) इति।

सम्मार्गः

विश्वास-प्रस्तुतिः

स्रुच॒स् सम्मा॑र्ष्टि ।
स्रु॒वम् अग्रे॑ ।
पुमाँ॑सम् ए॒वाभ्य॒स् सँश्य॑ति मिथुन॒त्वाय॑ ।

मूलम्

स्रुच॒स्सम्मा॑र्ष्टि ।
स्रु॒वमग्रे॑ ।
पुमाँ॑समे॒वाभ्य॒स्सँश्य॑ति मिथुन॒त्वाय॑ ।

सायण-टीका

मन्त्राणां स्पष्टार्थत्वमभिप्रेत्य तद्व्याख्यानमुपेक्ष्यानुष्ठानं विधत्ते ‘स्रुचः संमार्ष्टि’ (ब्रा. का. ३ प्र. ३ अ. १) इति। तत्र क्रमं विधत्ते – ‘स्रुवमग्रे। पुमाँसमेवाऽऽभ्यः सँश्यति मिथुनत्वाय’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

अथ॑ जु॒हूम् ।
अथो॑प॒भृत॑म् ।
अथ॑ ध्रु॒वाम् ।

मूलम्

अथ॑ जु॒हूम् ।
अथो॑प॒भृत॑म् ।
अथ॑ ध्रु॒वाम् ।

भट्टभास्कर-टीका

1प्रत्युष्टमिति गार्हपत्ये स्रुवादीनां प्रतितपनम् ॥ संश्यति संस्करोति ।

सायण-टीका

जुह्वादीनां पौर्वापर्यं विधत्ते — ‘अथ जुहूम्। अथोपभृतम्। अथ ध्रुवाम्’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

अ॒सौ वै जु॒हूः ॥1॥
अ॒न्तरि॑क्षम् उप॒भृत् ।
पृ॒थि॒वी ध्रु॒वा ।
इ॒मे वै लो॒कास् स्रुचः॑ ।

मूलम्

अ॒सौ वै जु॒हूः ॥1॥
अ॒न्तरि॑क्षम् उप॒भृत् ।
पृ॒थि॒वी ध्रु॒वा ।
इ॒मे वै लो॒कास्स्रुचः॑ ।

भट्टभास्कर-टीका

इमे वा इति । लोकवत् प्रजानां धारकत्वात् ।

सायण-टीका

प्रशंसति – ‘असौ वै जुहूः। अन्तरिक्षमुपभृत्। पृथिवी ध्रुवा। इमे वै लोकाः स्रुचः।

विश्वास-प्रस्तुतिः

वृष्टि॑स् स॒म्मार्ज॑नानि । वृष्टि॒र् वा इ॒माल्ँ लो॒कान् अ॑नुपू॒र्वङ् क॑ल्पयति
ते तत॑ᳵ कॢ॒प्तास् समे॑धन्ते

मूलम्

वृष्टि॑स्स॒म्मार्ज॑नानि । वृष्टि॒र्वा इ॒माल्ँ लो॒कान॑नुपू॒र्वङ्क॑ल्पयति ।
ते तत॑ᳵ कॢ॒प्तास्समे॑धन्ते ।

भट्टभास्कर-टीका

वृष्टिरिति वृष्टिहेतुत्वात् स्रुक्संमार्जनानि वृष्टिः ।

सायण-टीका

वृष्टिः संमार्जनानि। वृष्टिर्वा इमाल्ँ लोकाननुपूर्वं कल्पयति। ते ततः कॢप्ताः समेधन्ते’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

समे॑धन्ते ऽस्मा इ॒मे लो॒काᳶ प्र॒जया॑ प॒शुभि॒र्
य ए॒वव्ँ वेद॑ ।

मूलम्

समे॑धन्तेऽस्मा इ॒मे लो॒काᳶ प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

अनुपूर्वमिति सस्यनिष्पत्त्यादिक्रमेण लोकत्रयं स्वकार्यसमर्थं करोति ॥

सायण-टीका

वेदनं प्रशंसति – ‘समेधन्तेऽस्मा इमे लोकाः प्रजया पशुभिः। य एवं वेद’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

यदि॑ का॒मये॑त॒ वर्षु॑कᳶ प॒र्जन्य॑स् स्या॒द् इत्य्
अ॑ग्र॒तस् सम्मृ॑ज्यात् ॥2॥

वृष्टि॑म् ए॒व निय॑च्छति ।
अ॒वा॒चीना॑ग्रा॒ हि वृष्टिः॑ ।

मूलम्

यदि॑ का॒मये॑त॒ वर्षु॑कᳶ प॒र्जन्य॑स्स्या॒दिति॑ ।
अ॒ग्र॒तस्सम्मृ॑ज्यात् ॥2॥

वृष्टि॑मे॒व निय॑च्छति ।
अ॒वा॒चीना॑ग्रा॒ हि वृष्टिः॑ ।

भट्टभास्कर-टीका

2अग्रत इति ॥ वेदाग्राणां अग्रैः । नियच्छति न्यक्पातयति ।

सायण-टीका

वेदपरिवासनानामग्रमूलावयवयोर्व्यवस्थां दर्शयति — ‘यदि कामयेत वर्षुकः पर्जन्यः स्यादिति। अग्रतः संमृज्यात्। वृष्टिमेव नियच्छति। अवाचीनाग्रा हि वृष्टिः।

विश्वास-प्रस्तुतिः

यदि॑ का॒मये॒ताव॑र्षुकस् स्या॒दिति॑ ।
मू॒ल॒तस् सम्मृ॑ज्यात् ।
वृष्टि॑म् ए॒वोद्य॑च्छति ।

मूलम्

यदि॑ का॒मये॒ताव॑र्षुकस्स्या॒दिति॑ मूल॒तस्सम्मृ॑ज्यात् ।

वृष्टि॑मे॒वोद्य॑च्छति ।

भट्टभास्कर-टीका

मूलतः तेषां मूलैः संमार्जने वृष्टिमुद्यच्छति ऊर्ध्वं गमयति निवर्तयति पृथिव्याम् ।

सायण-टीका

यदि कामयेतावर्षुकः स्यादिति। मूलतः संमृज्यात्। वृष्टिमेवोद्यच्छति’ (ब्रा. का. ३ प्र. ३ अ. १) इति। नियच्छति न्यग्भावेन प्रवर्तयति। उद्यच्छत्योर्ध्वाकारेण वारयति।

विश्वास-प्रस्तुतिः

तद् उ॒ वा आ॑हुः- “अग्र॒त ए॒वोपरि॑ष्टा॒त् सम्मृ॑ज्यान्,
मूल॒तो॒॑ ऽधस्ता॑त्।
तद् अ॑नुपू॒र्वङ् क॑ल्पते ।
वर्षु॑को भव॒ती"ति॑ ॥3॥

मूलम्

तदु॒ वा आ॑हुः । अ॒ग्र॒त ए॒वोपरि॑ष्टा॒त्सम्मृ॑ज्यात् । मू॒ल॒तो॑ऽधस्ता॑त् ।

तद॑नुपू॒र्वङ्क॑ल्पते ।
वर्षु॑को भव॒ती"ति॑ ॥3॥

भट्टभास्कर-टीका

तदु वा इति । तत्रैव विशेषमाहुः यज्ञविदः - अग्रैः उपरिष्टात् बिलप्रदेशमेव संमृज्यात् मूलैः अधस्तात् दण्डप्रदेशं तदनुपूर्वं अनुक्रमेण क्रियमाणं कल्पते स्वकार्यसमर्थं भवति । पर्जन्यश्च वर्षुको भवति ॥

सायण-टीका

तस्मिन्नेव विषये संप्रदायविदां मतमाह – ‘तदु वा आहुः। अग्रत एवोपरिष्टात्संमृज्यात्। मूलतोऽधस्तात्। तदनुपूर्वं कल्पते। वर्षुको भवतीति’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

+++(सृचम्)+++ प्राची॑म् अभ्या॒कार॒म् +++(सम्मृ॑ज्यात्)+++
अग्रै॑र् +++(बिलस्य)+++ अन्तर॒तः ।

मूलम्

प्राची॑मभ्या॒कार॑म् ।
अग्रै॑रन्तर॒तः ।

भट्टभास्कर-टीका

3अथ स्रुवां विशेषमाह - प्राचीमिति ॥ प्राचीं स्रुचं संमृज्यात् अभ्याकारं अभितः आकृष्य अभ्यस्येति केचित् ।
अग्रैरन्तरतः अग्रैः वेदाग्रैः अन्तरतः बिलस्याभ्यन्तरम् ।

सायण-टीका

बिलभागे विशेषमाह – ‘प्राचीमभ्याकारम्। अग्रैरन्तरतः।

विश्वास-प्रस्तुतिः

ए॒वम् इ॑व॒ ह्य् अन्न॑म् अ॒द्यते॑ ।
अथो॒ अग्रा॒द् वा ओष॑धीना॒म् ऊर्ज॑म् प्र॒जा उप॑जीवन्ति ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।

मूलम्

ए॒वमि॑व॒ ह्यन्न॑म॒द्यते॑ ।
अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्ज॑म्प्र॒जा उप॑जीवन्ति ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

एवमिवेति । प्राचीनमानीय आस्यबिलाभ्यन्तरे जिह्वाग्रेण अभितः आकृष्यान्नं भुङ्क्ते ।

अथो अपि च ओषधीनां अग्रात् आदाय प्रजाः ऊर्जं रसं उपजीवन्ति तस्मात् रसवतः अन्नाद्यम्य लाभाय भवति ।

सायण-टीका

एवमिव ह्यन्नमद्यते। अथो अग्राद्वा ओषधीनामूर्जं प्रजा उपजीवन्ति। ऊर्ज एवान्नाद्यास्यावरुद्ध्यै’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

अ॒धस्ता॑त् प्र॒तीची॑म् +++(सम्मृ॑ज्यात् )+++,
द॒ण्डम् उ॑त्तम॒तो मूले॑न॒ मूल॒म् प्रति॑ष्ठित्यै ।

मूलम्

अ॒धस्ता॑त्प्र॒तीची॑म् +++(सम्मृ॑ज्यात् )+++।
द॒ण्डमु॑त्तम॒तः । मूले॑न॒ मूल॒म् प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

अथ अधस्तात् दण्डप्रदेशे प्रतीचीनं संमृज्यात्
उत्तमतः उत्तमेन वेदाग्राणां भागेन ।
उत्तमं = दण्डत्रिभागम् इति केचित् ।

अथ तेषां मूलेन स्रुचः मूलं मृज्यात् ।

सायण-टीका

दण्डभागे विशेषमाह — ‘अधस्तात्प्रतीचीम्। दण्डमुत्तमतः। मूलेन मूलं प्रतिष्ठित्यै’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

विश्वास-प्रस्तुतिः

तस्मा॑द् अर॒त्नौ
प्राञ्च्य् उ॒परि॑ष्टा॒ल् लोमा॑नि
प्र॒त्यञ्च्य् अ॒धस्ता॑त् ॥4॥

मूलम्

तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल्लोमा॑नि ।
प्र॒त्यञ्च्य॒धस्ता॑त् ॥4॥

भट्टभास्कर-टीका

तस्मादिति । उपरिष्टात् ऊर्ध्वभागे प्राञ्चि प्रागञ्चितानि, अधोभागे प्रत्यगञ्चितानि । अरत्निः प्रकोष्ठः ।

सायण-टीका

बिलदण्डयोरुक्तां व्यस्थां लौकिक लिङ्गेन द्रढयति — तस्मादरत्नौ प्राञ्च्युपरिष्टाल्लोमानि। प्रत्यञ्च्यधस्तात्। स्रुग्ध्येषा’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

मणिबन्धादूर्ध्वं सूक्ष्मरोमाणि प्राङ्मुखान्य् अधस्तात्तु प्रत्यङ्मुखानि। एषा हि लौकिकी स्रुक्तद्दृष्टान्तेन वैदिक्यामपि स्रुचि यथोक्तप्रकारो द्रष्टव्यः।

अत्र केचिदाहुः –

ऊर्ध्वबिलत्वेन हस्तधृतायाः स्रुच ऊर्ध्वाधोभागौ कृत्स्नाव् अप्य् उपरिष्टाद्-अधस्ताच्-छब्दाभ्यां विवक्षितौ न तु बिलभाग–दण्डभागौ। एवं धारकहस्ते ऽप्य् ऊर्ध्वाधोदेशौ। तथा सत्युक्तं लोम-लिङ्गम् अनुकूलम्

इति। तर्हि तथैवास्तु।

विश्वास-प्रस्तुतिः

स्रुग् घ्य् ए॑षा +++(अरत्निः)+++।
प्रा॒णो वै स्रु॒वः ।
जु॒हूर् दक्षि॑णो॒ हस्तः॑ ।
उ॒प॒भृत् स॒व्यः ।
आ॒त्मा ध्रु॒वा ।
अन्नँ॑ स॒म्मार्ज॑नानि ।

मूलम्

स्रुग्घ्ये॑षा। प्रा॒णो वै स्रु॒वः ।
जु॒हूर्दक्षि॑णो॒ हस्तः॑ ।
उ॒प॒भृत्स॒व्यः ।
आ॒त्मा ध्रु॒वा ।
अन्नँ॑ स॒म्मार्ज॑नानि ।

भट्टभास्कर-टीका

स्रुग्घ्येषा स्वयं स्रुगेवारत्निः ॥

सायण-टीका

स्रवस्य प्रथमतः संमार्जनं रूपककल्पनायोपपादयति – ‘स्रुग्घ्येषा । प्राणो वै स्रुवः। जुहूर्दक्षिणो हस्तः। उपभृत्सव्यः। आत्मा ध्रुवा। अन्नँ संमार्जनानि।

विश्वास-प्रस्तुतिः

मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा
आ॒त्मान॒म् अन्न॑म् प्र॒विश्य॑
बाह्य॒तस् त॒नुवँ॑ शुभयति

मूलम्

मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा ।
आ॒त्मान॒मन्न॑म्प्र॒विश्य॑ ।
बा॒ह्य॒तस्त॒नुवँ॑ शुभयति ।

भट्टभास्कर-टीका

4प्राणो वा इत्यादिना स्रुवस्य प्राथम्ये हेतुमाह -
निर्गच्छन् प्राणः, प्रविशन् अपानः,
प्राणापानभावेन प्रथमं भूत्वा मुखतः आत्मानं अनुप्रविश्य
अन्नं बाह्यतः तनुवं हस्तादिकां शुभयति
रसपरिणामेन तनोः शोभां करोति
तस्मात् प्राणाधीनत्वात्
हस्तादिस्थितेः स्रुवस्य प्राणत्वात्
स्रुवमेवाग्रे सम्मार्ष्टीति स्वभाव उक्तः ॥

सायण-टीका

मुखतो वै प्राणोऽपानो भूत्वा। आत्मानमन्नं प्रविश्य। बाह्यतस्तनुवँ शुभयति।

विश्वास-प्रस्तुतिः

तस्मा॑त् स्रु॒वम् ए॒वाग्रे॒ सम्मा॑र्ष्टि ।
मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा
आ॒त्मान॒म् अन्न॑म् आवि॒शति॑ ।
तौ प्रा॑णापा॒नौ +++(अन्नम्)+++।
अ-व्य॑र्धुकᳶ +++(→वर्धुकः)+++ प्राणापा॒नाभ्या॑म् भवति॒
य ए॒वव्ँ वेद॑ ॥5॥

मूलम्

तस्मा॑त्स्रु॒वमे॒वाग्रे॒ सम्मा॑र्ष्टि ।
मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्न॑मावि॒शति॑ ।

तौ प्रा॑णापा॒नौ ।
अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति ।
य ए॒वव्ँ वेद॑ ॥5॥

भट्टभास्कर-टीका

5इदानीं हेतुमाह - मुखतो हीति ॥
प्रथमं प्राणापान-भूतं अन्नम् आत्मानं आविशति
आत्मना एकी-भवति
ततः तद् अन्नं प्राणापान-भावेन परिणतं भवति ।
एवं प्राणापान-सन्तानक-प्रतिपादनेन पूर्वोक्तं समर्थितम् ।
एवं वेदिता प्राणापान-वृद्धि-शीलो भवति ॥

इति तैत्तिरीये ब्राह्मणे तृतीयेऽष्टके तृतयिप्रपाठके पौरोडाशिकब्राह्मणे प्रथमोऽनुवाकः ॥

सायण-टीका

तस्मात्स्रुवमेवाग्रे संमार्ष्टि। मुखतो हि प्राणोऽपानो भूत्वा। आत्मानमन्नमाविशति’ (ब्रा. का. ३ प्र. ३ अ. १) इति।

प्रसङ्गात् प्राणापानवेदनं प्रशंसति – ‘तौ प्राणापानौ। अव्यर्धकः प्राणापानाभ्यां भवति। य एवं वेद’ (ब्रा. का. ३ प्र. ३ अ. १) इति। प्रकर्षेण बहिरनितीति प्राणः।