स्फ्य-प्रयोगः
विश्वास-प्रस्तुतिः
वज्रो॒ वै स्फ्यः ।
यद् अ॒न्वञ्चं॑ धा॒रये॒त् -
वज्रे॑ ऽध्व॒र्युः क्ष॑ण्वीत ।
पु॒रस्ता॑त् ति॒र्यञ् चं॑ धारयति ।
मूलम्
वज्रो॒ वै स्फ्यः ।
यद् अ॒न्वञ्चं॑ धा॒रये॑त् ।
वज्रे॑ऽध्व॒र्युः क्ष॑ण्वीत ।
पु॒रस्ता॑त्ति॒र्यञ्चं॑ धारयति ।
भट्टभास्कर-टीका
1वज्रो वा इत्यादि ॥ अन्वञ्चं आत्माभिमुखं क्षण्वीत हिंस्यात् आत्मानं अध्वर्युः । कर्मणि वा कर्तृप्रत्ययः । क्षण्येत हिंस्येत ।
सायण-टीका
यथोक्तप्रैषकाले स्फ्यस्य तिर्यग्वारणं विधत्ते – ‘वज्रो वै स्फ्यः। यदन्वञ्चं धारयेत्। वज्रेऽध्वर्युः क्षण्वीत। पुरस्तात्तिर्यञ्चं धारयति।
विश्वास-प्रस्तुतिः
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्य् अप॑हन्ति
अ॒ग्निभ्या॒म् प्राच॑श् च प्र॒तीच॑श् च॒ स्फ्येनोदी॑चश् चाध॒राच॑श् च।
मूलम्
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑हन्ति ।
अ॒ग्निभ्या॒म्प्राच॑श्च प्र॒तीच॑श्च ।
स्फ्येनोदी॑चश्चाध॒राच॑श्च ।
भट्टभास्कर-टीका
वज्रेणैवेति, यत्तुल्यः स्फ्यः ।
अग्निभ्यामिति । आहवनीयगार्हपत्याभ्याम् ।
स्फयेनोदीचश् चाधराश् चेति
तिर्यञ्चं स्फ्यं स्तब्ध्वा संप्रैषात्
सायण-टीका
वज्रो वै स्फ्यः। वज्रेणैव यज्ञस्य दक्षिणतो रक्षाँस्यपहन्ति। अग्निभ्यां प्राचश्च प्रतीचश्च। स्फ्येनोदीचश्चाधराचश्च।
विश्वास-प्रस्तुतिः
स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मान॒म् भ्रातृ॑व्यम् अप॒हत्य॑
उत्क॒रेऽधि॒ प्रवृ॑श्चति ॥83॥
यथो॑प॒धाय॑ वृ॒श्चन्त्य् ए॒वम् ।
मूलम्
स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मान॒म्भ्रातृ॑व्यमप॒हत्य॑ । उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति ॥83॥ यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम् ।
भट्टभास्कर-टीका
एवं स्फ्येन वज्रतुल्येनास्याः पृथिव्याः सम्बधिनं पाप्मानं भ्रातृव्यं अपहत्य उत्पाट्य
उत्करे उपधानस्थानीये अधिनिधाय वृश्चति
यथा लोके किञ्चित् काष्ठादिकम् उपधाय व्रश्चनीयं वृश्चन्ति एवमेतत् ।
सायण-टीका
स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यमपहत्य। उत्करेऽधि प्रवृश्चति। यथोपधाय वृश्चन्त्येवम्’ (ब्रा. का. ३ प्र. २ अ. ९) इति।
क्षालनम्
विश्वास-प्रस्तुतिः
हस्ता॒व् अव॑नेनिक्त,
आ॒त्मान॑म् ए॒व प॑वयते ।
स्फ्यम् प्रक्षा॑लयति मेध्य॒त्वाय॑ ।
मूलम्
हस्ता॒वव॑नेनिक्त आ॒त्मान॑मे॒व प॑वयते ।
स्फ्यम्प्रक्षा॑लयति मेध्य॒त्वाय॑ ।
भट्टभास्कर-टीका
नेनिक्ते शोधयति ।
सायण-टीका
हस्तप्रक्षालनं विधत्ते – ‘हस्ताववनेनिक्ते। आत्मानमेव पवयते’ (ब्रा. का. ३ प्र. २ अ. ९) इति। स्फ्यस्यापि तद्विधत्ते – ‘स्फ्यं प्रक्षालयति मेध्यत्वाय।
विश्वास-प्रस्तुतिः
अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गञ् छि॑नत्ति ।
मूलम्
अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गञ्छि॑नत्ति ।
भट्टभास्कर-टीका
अथो इति अपि च भ्रातृव्यस्य पाप्मनः न्यङ्गं न्यञ्जनं शरीरशोभां तेजः छिनत्ति स्फ्यप्रक्षाळनेन । निभृतं वा अङ्गं न्यङ्गम् ॥
सायण-टीका
अथो पाप्मन एव भातृव्यस्य न्यङ्गं छिनत्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।
इध्मा-बर्हिस्-सादनम्
विश्वास-प्रस्तुतिः
इ॒ध्माब॒र्हिर् उप॑सादयति॒ युक्त्यै॑,
य॒ज्ञस्य॑ मिथुन॒त्वाय॑ ।
मूलम्
इ॒ध्माब॒र्हिरुप॑सादयति॒ युक्त्यै॑ ।
य॒ज्ञस्य॑ मिथुन॒त्वाय॑ ।
भट्टभास्कर-टीका
2इध्माबर्हिः इध्मं च बर्हिश्च उत्तरेणाहवनीयं प्रागग्रमुपसादयति युक्त्यै यज्ञेन योगो यथा स्यात् । किञ्च - यज्ञस्य मिथुनत्वाय द्वयोस्सहोपसादनम् ।
सायण-टीका
आग्नीध्रस्यानुष्ठानं विधत्ते — ‘इध्माबर्हिरुपसादयति युक्त्यै। यज्ञस्य मिथुनत्वाय।
विश्वास-प्रस्तुतिः
अथो॑ पुरो॒-रुच॑म् ए॒वैतान् द॑धात्य्
उत्त॑रस्य॒ कर्म॒णो ऽनु॑ख्यात्यै ।
मूलम्
अथो॑ पुरो॒रुच॑मे॒वैतान्द॑धाति ।
उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै ।
भट्टभास्कर-टीका
अपि च पुरोरुचं पुरस्ताद्दीपनां इमां यज्ञस्य स्थापयति
उत्तरस्य करिष्यमाणस्य कर्मणोऽनुख्यात्यै
अनुक्रमेण प्रकाशनार्थं, रोचनार्थत्वात् ।
सायण-टीका
अथो पुरो रुचमेवैतां दधाति। उत्तरस्य कर्मणोऽनुख्यात्यै’ (ब्रा. का. ३ प्र. २ अ. ९) इति।
विश्वास-प्रस्तुतिः
न पु॒रस्ता॑त् प्र॒त्यग् उप॑सादयेत् ॥84॥
यत् पु॒रस्ता॑त् प्र॒त्यग् उ॑पसा॒दये॑द्
अ॒न्यत्रा॑हुति-प॒थाद् इ॒ध्मम् प्रति॑पादयेत् ।
प्र॒जा वै ब॒र्हिः ।
अप॑राध्नुयाद् ब॒र्हिषा॑ प्र॒जाना॑म् प्र॒जन॑नम् ।
मूलम्
न पु॒रस्ता॑त्प्र॒त्यगुप॑सादयेत्॥84॥
यत्पु॒रस्ता॑त्प्र॒त्यगु॑पसा॒दये॑त् ।
अ॒न्यत्रा॑हुतिप॒थादि॒ध्मम्प्रति॑पादयेत् ।
प्र॒जा वै ब॒र्हिः ।
अप॑राध्नुयाद्ब॒र्हिषा॑ प्र॒जाना॑म्प्र॒जन॑नम् ।
भट्टभास्कर-टीका
अन्यत्रेति । आहुतिपथात् आहुतिन्यायात् प्राचीनत्वात् अन्यत्र अनाहुतिपथे इध्मं प्रवर्तयेत् । अथ बर्हिषः प्रतीचीनत्वे दोषमाह - प्रजा वा इति । बर्हिषा हेतुना प्रजानां प्रजननं प्राचीनवृत्तिं अपराध्नुयात् अयुक्तेन रूपेण प्रवर्तयेत् ।
सायण-टीका
तयोरुपसादने प्रागग्रत्वं विधत्ते – ‘न पुरस्तात्प्रत्यगुपसादयेत्। यत्पुरस्तात्प्रत्यगुपसादयेत्। अन्यत्राऽऽहुतिपथादिध्मं प्रतिपादयेत।
प्रजा वै बर्हिः। अपराध्नुयाद्बर्हिषा प्रजानां प्रजननम्।
विश्वास-प्रस्तुतिः
प॒श्चात् प्राग् उप॑सादयति ।
आ॒हु॒ति॒प॒थेने॒ध्मम् प्रति॑पादयति ।
स॒म्प्र॒त्ये॒॑व ब॒र्हिषा॑ प्र॒जाना॑म् प्र॒जन॑न॒म् उपै॑ति ।
मूलम्
प॒श्चात्प्रागुप॑सादयति ।
आ॒हु॒ति॒प॒थेने॒ध्मम्प्रति॑पादयति ।
स॒म्प्र॒त्ये॑व ब॒र्हिषा॑ प्र॒जाना॑म्प्र॒जन॑न॒मुपै॑ति ।
भट्टभास्कर-टीका
पश्चात्प्रागुपसादने दोषद्वयाभावः ।
सायण-टीका
पश्चात्प्रागुपसादयति। आहुतिपथेनेध्मं प्रतिपादयति। संप्रत्येव बर्हिषा प्रजानां प्रजननमुपैति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।
विश्वास-प्रस्तुतिः
दक्षि॑णम् इ॒ध्मम् ।
उत्त॑रम् ब॒र्हिः ।
मूलम्
दक्षि॑णमि॒ध्मम् ।
उत्त॑रम्ब॒र्हिः ।
भट्टभास्कर-टीका
संप्रत्येवेति । युक्तेन रूपेण ।
सायण-टीका
इध्माबर्हिषोः परस्परं दिग्भेदं विधत्ते — ‘दक्षिणमिध्मम्। उत्तरं बर्हिः।
विश्वास-प्रस्तुतिः
आ॒त्मा वा इ॒ध्मः ।
प्र॒जा ब॒र्हिः । +++(5)+++
प्र॒जा ह्य् आ॒॑त्मन॒ उत्त॑रतरा ती॒र्थे ।
मूलम्
आ॒त्मा वा इ॒ध्मः ।
प्र॒जा ब॒र्हिः ।
प्र॒जा ह्या॑त्मन॒ उत्त॑रतरा ती॒र्थे ।
भट्टभास्कर-टीका
आत्मेति । अग्नेरभ्यन्तरत्वात् । प्रजा बर्हिः संतन्यमानत्वात् प्रजातुल्यम् ।
सायण-टीका
आत्मा वा इध्मः। प्रजा बर्हिः। प्रजा ह्यात्मन उत्तरतरा तीर्थे।
विश्वास-प्रस्तुतिः
ततो॒ मेध॑म् उप॒नीय॑
यथा-देव॒तम् ए॒वैन॒त् प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र् यज॑मानः ॥85॥
मूलम्
ततो॒ मेध॑मुप॒नीय॑ ।
य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥85॥
भट्टभास्कर-टीका
उत्तरतरेति । तीर्थे भावे उद्गततरा, ततः तेनैव क्रमेण मेधमुपनीय
यथादेवतं आत्मप्रजास्वभावानतिक्रमेण एनत् इध्माबर्हिः प्रतिष्ठापयति
ततः प्रजया पशुभिश्च यजमानः प्रतिष्ठितो भवति ॥ इति तैत्तिरीये ब्राह्मणे तृतीये अष्टके द्वितीये प्रपाठके दशमोऽनुवाकः समाप्तश्च प्रपाठकः ॥ प्रथमं पौरोडाशिकं समाप्तम् ॥
सायण-टीका
ततो मेघमुपनीय। यथादेवतमेवैनत्प्रतिष्ठापयति। प्रतितिष्ठति प्रजया पशुभिर्यजमानः’ (ब्रा. का. ३ प्र. २ अ. ९) इति।