०९ वेदिकरणम्

स्फ्य-ग्रहणम्

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ स्फ्यम् आद॑त्ते॒ प्रसू॑त्यै ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू॑त्यै ।

सायण-टीका

यथोक्तमादानं विधत्ते — देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै ।

अ॒श्विनो॑र् बा॒हुभ्या॒म् ...{Loading}...
विश्वास-प्रस्तुतिः

“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्य् आ॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् ।

Keith

‘With the arms of the Aśvins’, he says, for the Aśvins were the Adhvaryus of the gods.

मूलम्

“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।

पद-पाठः

अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।

भट्टभास्कर-टीका

अध्वर्यू इति । अध्वरस्य नेतारौ मणिबन्धादुपरि वा स्तः ।

सायण-टीका

अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्।

विश्वास-प्रस्तुतिः

“पू॒ष्णो हस्ता॑भ्या॒"म् इत्य् आ॑ह॒ यत्यै॑ ।

Keith

‘With the hands of Pusan’, he says, for restraint.

मूलम्

“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।

पद-पाठः

पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ । 4 ।

भट्टभास्कर-टीका

यत्यै यमनाय धारणाय ॥

सायण-टीका

पूष्णो हस्ताभ्यामित्याह यत्यै (ब्रा. का.३ प्र.२ अ.९) इति ।

भट्टभास्कर-टीका

1देवस्य त्वेति स्फ्यादानम् ॥ गतम् ॥

इन्द्रस्य बाहुः ...{Loading}...
विश्वास-प्रस्तुतिः

“इन्द्र॑स्य बा॒हुर् अ॑सि॒ दक्षि॑ण॒” इत्य् आ॑ह ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।

मूलम्

“इन्द्र॑स्य बा॒हुर् अ॑सि॒ दक्षि॑ण॒” इत्य् आ॑ह ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।

सायण-टीका

मन्त्रस्य प्रथमभाग इन्द्रशब्दविविक्षामाह — ‘आदद इन्द्रस्य बाहुरसि दक्षिण इत्याह । इन्द्रियमेव यजमाने दधाति’ (ब्रा. का.३ प्र.२ अ.९) इति । अत्राऽऽदद इति पदं पूर्वमन्त्रस्वरूपम् । तच्च स्पष्टार्थम् । इन्द्रस्येति मन्त्रादिः ।


इन्द्रस्य बाहुरसि दक्षिण इत्याह। इन्द्रियमेव यजमाने दधाति।

विश्वास-प्रस्तुतिः

“स॒हस्र॑-भृष्टिश् श॒तते॑जा॒” इत्य् आ॑ह ।
रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।

मूलम्

“स॒हस्र॑भृष्टिश्श॒तते॑जा॒” इत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।

भट्टभास्कर-टीका

2इन्द्रस्येति सफ्यानुमन्त्रणम् ॥ आदद इति सावित्रशेषः ॥

सायण-टीका

द्वितीयभागे मन्त्रगतशब्दस्वरूपमेव बाहुसदृशस्य स्फ्यस्य महिमानं ख्यापयतीत्याह — ‘सहस्रभृष्टिः शततेजा इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे’ (ब्रा. का.३ प्र.२ अ.९) इति ।

तिग्मीकरणम्

विश्वास-प्रस्तुतिः

“वा॒युर् अ॑सि ति॒ग्म-ते॑जा॒” इत्या॑ह ।
तेजो॒ वै वा॒युः +++(तेजोवृद्धिहेतुत्वात्)+++ ॥68॥
तेज॑ ए॒वास्मि॑न् दधाति ।

मूलम्

“वा॒युर॑सि ति॒ग्मते॑जा॒” इत्या॑ह ।
तेजो॒ वै वा॒युः ॥68॥
तेज॑ ए॒वास्मि॑न्दधाति ।

भट्टभास्कर-टीका

3वायुरिति तीक्ष्णीकरणम् ॥ तेजो वा इत्यादि । तेजोवृद्धिहेतुत्वात् ताच्छब्द्यम् ॥

सायण-टीका

तृतीयभागे तेजोजनकतया तेजोरूपेण वायुना स्फ्यरूप उपमिते सति यजमाने तेजो भवतीत्याह — ‘वायुरसि तिग्मतेजा इत्याह । तेजो वै वायुः । तेज एवास्मिन्दधाति’ (ब्रा. का.३ प्र.२ अ.९) इति ।

बर्हिः-प्रहरणम्

विश्वास-प्रस्तुतिः

वि॒ष+अद् वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेद् - “य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्ती"ति॑ ।

मूलम्

वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ ।

भट्टभास्कर-टीका

4विषाद्वा इत्यादि ॥ विषमत्तीति विषात् । ‘अदोऽनन्ने’ इति विट् । आसुरः असुरस्यापत्यम् । शिवाद्यण्, अन्तोदात्तः । स्वार्थिकाणन्तो वा । असुरस्यापत्यस्यापि असुरत्वात्, न हि काकापत्यत्वात्काकः ।

सोऽबिभेदित्यादि । गतम् ।

सायण-टीका

अत्र देवयजनीति विशेषणेन वान्तिलोहिताभ्यामापादितमशुचित्वं निवारयतीत्याह — ‘विषाद्वै नामासुर आसीत्। सोऽबिभेत्। यज्ञेन मा देवा अभिभविष्यन्तीति।

विश्वास-प्रस्तुतिः

स पृ॑थि॒वीम् अ॒भ्य॑वमीत् ।
साऽमे॒ध्याऽभ॑वत् ।

मूलम्

स पृ॑थि॒वीम॒भ्य॑वमीत् । साऽमे॒ध्याऽभ॑वत् ।

भट्टभास्कर-टीका

अभ्यवमीदिति । भीत्या पृथिव्या उपरि वमनं कृतवान् ।
ततः सा पृथिवी अमेध्या अयज्ञार्हा अभवत् ।
‘ययतोश् चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।

सायण-टीका

स पृथिवीमभ्यवमीत्। साऽमेध्याऽभवत्।

विश्वास-प्रस्तुतिः

अथो॒ यद् इन्द्रो॑ वृ॒त्रम् अहन्न्‌॒
तस्य॒ लोहि॑तम् पृथि॒वीम् अनु॒ व्य॑धावत् ।
साऽमे॒ध्याऽभ॑वत् ।

मूलम्

अथो॒ यदिन्द्रो॑ वृ॒त्रमह॑न् । तस्य॒ लोहि॑तम्पृथि॒वीमनु॒ व्य॑धावत् । साऽमे॒ध्याऽभ॑वत् ।

भट्टभास्कर-टीका

अनुव्यधावदिति । पृथिव्या उपरि विविधं अधावत्, सा चामेध्याऽभवत् ।

सायण-टीका

अथो यदिन्द्रो वृत्रमहन्। तस्य लोहितं पृथिवीमनु व्यधावत्। साऽमेध्याऽभवत्।

विश्वास-प्रस्तुतिः

“पृथि॑वि देवयज॒नी"त्य् आ॑ह ॥69॥
मेध्या॑म् ए॒वैना॑न् देव॒-यज॑नीङ् करोति ।

“ओष॑ध्यास् ते॒ मूल॒म् मा हिँ॑सिष॒म्” इत्य् आ॑ह॒ -
ओष॑धीना॒म् अ-हिँ॑सायै ।

मूलम्

“पृथि॑वि देवयज॒नी"त्या॑ह ॥69॥
मेध्या॑मे॒वैना॑न्देव॒यज॑नीङ्करोति ।

“ओष॑ध्यास्ते॒ मूल॒म्मा हिँ॑सिष॒"मित्या॑ह । ओष॑धीना॒महिँ॑सायै ।

भट्टभास्कर-टीका

पृथिवीति बर्हिःप्रहरणम् । देवयजनि इत्यामन्त्रणेन मेधार्हामेनां करोति ॥

सायण-टीका

पृथिवि देवयजनीत्याह। मेध्यामेवैनां देवयजनीं करोति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।
विषमत्तीति विषात्। इतरभागप्रयोजनमाह — ‘ओषध्यास्ते मूलं मा हिँसिषमित्याह। ओषधीनामहिँसायै’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

हरणम्, निवपनम्

विश्वास-प्रस्तुतिः

“व्र॒जङ् ग॑च्छ गो॒स्थान॒म्” इत्य् आ॑ह ।
छन्दाँ॑सि॒ वै व्र॒जो गो॒स्थानः॑ ।
छन्दाँ॑स्य् ए॒वास्मै॑ व्र॒जङ् गो॒स्थान॑ङ् करोति ।

मूलम्

“व्र॒जङ्ग॑च्छ गो॒स्थान॒"मित्या॑ह ।
छन्दाँ॑सि॒ वै व्र॒जो गो॒स्थानः॑ ।
छन्दाँ॑स्ये॒वास्मै॑ व्र॒जङ्गो॒स्थान॑ङ्करोति ।

भट्टभास्कर-टीका

5व्रजमिति सतृणपुरीषहरणम् ॥
व्रजन्त्यस्मिन्निति व्रजः । गोचरादौ निपात्यते । गवां स्थानमधिकरणभूतो व्रजः ।
छन्दांसि शब्दानां स्थानाधिकरणत्वात् तत्-साम्याद् उत्करोपि तथोच्यते । सोऽपि हि प्रत्याश्रावणलक्षणस्य शब्दस्य स्थानं, एवं छन्दस्त्वेन उत्करस्य स्तुतिः । छन्दांस्येवेति छन्दांसीव व्रजं गोस्थानमुत्करं करोति ॥

सायण-टीका

अपहतोऽररुः पृथिव्या इत्येवं पूर्वं मन्त्रं स्पष्टार्थत्वादुपेक्ष्योत्तरं मन्त्रं ब्याचष्टे – ‘व्रजं गच्छ गोस्थानमित्याह। छन्दाँसि वै व्रजो गोस्थानः। छन्दाँस्येवास्मै व्रजं गोस्थानं करोति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

“वर्ष॑तु ते॒ द्यौ"र् इत्य् आ॑ह ।
वृष्टि॒र् वै द्यौः ।
वृष्टि॑म् ए॒वाव॑रुन्धे ।

मूलम्

“वर्ष॑तु ते॒ द्यौ"रित्या॑ह ।
वृष्टि॒र्वै द्यौः ।
वृष्टि॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

6वर्षत्विति वेदिप्रत्यवेक्षणम् ॥ वृष्टिर्वा इति । अधिकरणे कर्तरि वा क्तिन् ॥

सायण-टीका

पर्जन्याधारतया तद्रूत्वोपचारो दिव इत्याह – ‘वर्षतु ते द्यौरित्याह। वृष्टिर्वै द्यौः। वृष्टिमेवाववरुन्धे’ (ब्रा. का. ३ प्र. २ अ. ९) इति। वर्षतीति वृष्टिः पर्जन्यः।

विश्वास-प्रस्तुतिः

“ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म् परा॒वती"त्या॑ह ॥70॥
द्वौ वाव पुरु॑षौ -यञ् चै॒व द्वेष्टि॒, यश् चै॑न॒न् द्वेष्टि॑। ताव् उ॒भौ ब॑ध्नाति पर॒मस्या॑म् परा॒वति॑ श॒तेन॒ पाशैः॑ । “यो॒॑ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्मस्, तम् अतो॒ मा मौ॒"ग् इत्य् आ॒हानि॑म्रुक्त्यै ।

मूलम्

“ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वती"त्या॑ह ॥70॥
द्वौ वाव पुरु॑षौ । यञ्चै॒व द्वेष्टि॑ । यश्चै॑न॒न्द्वेष्टि॑ ।
तावु॒भौ ब॑ध्नाति पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशैः॑ । “यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒"गित्या॒हानि॑म्रुक्त्यै ।

भट्टभास्कर-टीका

7बधानेति निवपति ॥ अनिम्रुक्त्यै अनन्तर्धानाय तमतो देशात् मा मुच इति वचनम् ॥

सायण-टीका

अत्र योऽस्मान्यं चेति न पुनरुक्तिर्द्वेषं प्रति कर्तृत्वेन कर्मत्वेन च पुरुषभेदादित्याह – ‘बधान देव सवितः परमस्यां परावतीत्याह। द्वौ वाव पुरुषौ। यं चैव द्वेष्टि। यश्चैनं द्वेष्टि। तावुभौ बध्नाति। परमस्यां परावति शतेन पाशैः। योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगित्याहानिम्रुक्त्यै’ (ब्रा. का. ३ प्र. २ अ. ९) इति। परावति दूरभूमौ। अनिम्रुक्तिरनिर्मोक्षः।

अररुः

विश्वास-प्रस्तुतिः

अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् ।
स पृ॑थि॒व्याम् उप॑म्लुप्तोऽशयत् ।
तन् दे॒वा “अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या” इति॑ पृथि॒व्या अपा॑घ्नन् ।

मूलम्

अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् ।
स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् ।
तन्दे॒वा “अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या” इति॑ पृथि॒व्या अपा॑घ्नन् ।

सायण-टीका

व्याख्यातान्मन्त्रत्रयात्पूर्वभावी यो मन्त्र स्पष्टार्थबुद्ध्योपेक्षितस्तं पुनः सिंहावलोकनन्यायेन स्मृत्वा व्याचष्टे — ‘अररुर्वै नामासुर आसीत्। स पृथिव्यामुपम्लुप्प्तोऽशयत्। तं देवा अपहतोऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्।

विश्वास-प्रस्तुतिः

भ्रातृ॑व्यो॒ वा अ॒ररुः॑ ।
“अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या” इति॒ यद् आह॒ -
भ्रातृ॑व्यम् ए॒व पृ॑थि॒व्या अप॑हन्ति ।

मूलम्

भ्रातृ॑व्यो॒ वा अ॒ररुः॑ ।
अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या इति॒ यदाह॑ ॥71॥
भ्रातृ॑व्यम् ए॒व पृ॑थि॒व्या अप॑हन्ति ।

भट्टभास्कर-टीका

8अररुर्वा इति ॥ पूर्ववदासुरशब्दोऽणन्तोऽन्तोदात्तः । उपम्लुप्तः तिरोहितः अशयत् अशेत । म्लुचेरन्त्यविकारः छान्दसः, शेतेर्व्यत्ययेन शप् परस्मैपदं च ।

सायण-टीका

भ्रातृव्यो वा अररुः। अपहतोऽररुः पृथिव्या इति यदाह। भ्रातृव्यमेव पृथिव्या अपहन्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

ते॑ऽमन्यन्त॒ - “दिवव्ँ॒ वा अ॒यम् इ॒तᳶ प॑तिष्य॒ती"ति॑ ।
तम् अ॒ररु॑स्ते॒ “दिव॒म् मा ऽस्का॒न्” इति॑ दि॒वᳶ पर्य॑बाधन्त ।

मूलम्

ते॑ऽमन्यन्त । दिवव्ँ॒ वा अ॒यमि॒तᳶ प॑तिष्य॒तीति॑ । तम॒ररु॑स्ते॒ “दिव॒म्माऽस्का॒"निति॑ दि॒वᳶ पर्य॑बाधन्त ।

सायण-टीका

द्वितीयतृतीयपर्याययोः प्रथमव्याख्ययाऽवबोद्धुं शक्यतया तावपेक्ष्य मन्त्रमेतं व्याचष्टे – ‘तेऽमन्यन्त। दिवं वा अयमितः पतिष्यतीति। तमररुस्ते दिवं माऽस्कानिति दिवः पर्यबाधन्त।

विश्वास-प्रस्तुतिः

भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । “अ॒ररु॑स् ते॒ दिव॒म् मा स्का॒न्” इति॒ यदाह॒
भ्रातृ॑व्यमे॒व दि॒वᳶ परि॑बाधते ।

मूलम्

भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिव॒म्मा स्का॒निति॒ यदाह॑ ।
भ्रातृ॑व्यमे॒व दि॒वᳶ परि॑बाधते ।

सायण-टीका

भ्रातृव्यो वा अररुः। अररुस्ते दिवं मा स्कानिति यदाह। भ्रातृव्यमेव दिवः परिबाधते ‘ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

स्त॒म्ब॒-य॒जुर् ह॑रति ।
पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒म् अप॑हन्ति ।

द्वि॒तीयँ॑ हरति ॥72॥
अ॒न्तरि॑क्षाद् ए॒वैन॒म् अप॑हन्ति ।

तृ॒तीयँ॑ हरति ।
दि॒व ए॒वैन॒म् अप॑हन्ति ।

तू॒ष्णीञ् च॑तु॒र्थँ ह॑रति ।
अप॑रिमिताद् ए॒वैन॒म् अप॑हन्ति ।

मूलम्

स्त॒म्ब॒य॒जुर्ह॑रति ।
पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति ।

द्वि॒तीयँ॑ हरति ॥72॥
अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति ।

तृ॒तीयँ॑ हरति ।
दि॒व ए॒वैन॒मप॑हन्ति ।

तू॒ष्णीञ्च॑तु॒र्थँ ह॑रति ।
अप॑रिमितादे॒वैन॒मप॑हन्ति ।

भट्टभास्कर-टीका

तृतीयपर्याय शेषः - अररुस्ते दिवमिति । स्तम्बयजुर्हरतीति विधिः । स्फ्यप्रहृतानि तृणानि स्तम्बः तत्प्रधानो यज्ञावयवः स्तम्बयजुः, हरणीयं च सतृणं पुरीषमुपचारेणोच्यते । द्वितीयादीनि पदानि क्रियाविशेषणानि ॥

सायण-टीका

मन्त्रान्व्याख्यायानुष्ठानं विधत्ते — ‘स्तम्बयजुर्हरति पृथिव्या एव भ्रातृव्यमपहन्ति। द्वितीयँ हरति। अन्तरिक्षादेवैनमपहन्ति। तृतीयँ हरति। दिव एवैनमपहन्ति। तूष्णीं चतुर्थँ हरति। अपरिमितादेवैनमपहन्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति। यजुर्मन्त्रेण च्छिन्नो दर्भः स्तम्बयजुः।

वेदि-परिग्रहः

विश्वास-प्रस्तुतिः

असु॑राणाव्ँ॒ वा इ॒यम् अग्र॑ आसीत् ।

मूलम्

असु॑राणाव्ँ॒वा इ॒यमग्र॑ आसीत् ।

भट्टभास्कर-टीका

9असुराणां वा इत्यादि ॥ इयं पृथिवी असुराणां स्वभूता पूर्वमासीत् ।

सायण-टीका

तमिमं परिग्राहं विधत्ते — ‘असुराणां वा इयमग्र आसीत्।

विश्वास-प्रस्तुतिः

याव॒द् आसी॑नᳶ परा॒पश्य॑ति॒
ताव॑द् दे॒वाना॑म् ।

मूलम्

याव॒दासी॑नᳶ परा॒पश्य॑ति । ताव॑द्दे॒वाना॑म् ।

भट्टभास्कर-टीका

अनन्तर्हिते देशे आसीनो यावत्परा पश्यति दूरं पश्यति यावद्दूरं द्रष्टुं शक्नोति पुरुषः तावदेव देवानां स्वमासीत् । न तु कश्चिदपि पृथिव्यवयवो नित्यभूत आसीत् ।

सायण-टीका

यावदासीनः परापश्यति। तावद्देवानाम्।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॑ब्रुव॒न्न् - “अस्त्व् ए॒व नो॒ऽस्याम् अपी"ति॑ ॥73॥
“क्य॑न् नो दास्य॒थे"ति॑ ।
+++(असुराः -)+++ “याव॑त् स्व॒यम् प॑रिगृह्णी॒थे"ति॑ ।

मूलम्

ते दे॒वा अ॑ब्रुवन् । अस्त्वे॒व नो॒ऽस्यामपीति॑ ॥73॥
क्य॑न्नो दास्य॒थेति॑ ।
याव॑त्स्व॒यम्प॑रिगृह्णी॒थेति॑ ।

भट्टभास्कर-टीका

अथ देवाः असुरानब्रुवन् नः अस्माकमपि अस्यां पृथिव्यां नित्यस्वभूतः कश्चिदंशोऽस्त्वेव अवश्यमस्तु तत्र अस्मभ्यं क्यत् कियद्दास्यथेति । इकारलोपः छान्दसः ।

सायण-टीका

ते देवा अब्रुवन्। अस्त्वेव नोऽस्यामपीति। क्यन्नो दास्यथेति। यावत्स्वयं परिगृह्णीथेति।

विश्वास-प्रस्तुतिः

“ते वस॑व॒स् त्वे"ति॑ दक्षिण॒तᳶ पर्य॑गृह्णन् ।
“रु॒द्रास् त्वे"ति॑ प॒श्चाद्,
“आदि॒त्यास् त्वे"त्य् उ॑त्तर॒तः।

ते॒॑ऽग्निना॒ प्राञ्चो॑ ऽजयन्
वसु॑भिर् दक्षि॒णा
रु॒द्रैᳶ प्र॒त्यञ्च॑
आदि॒त्यैर् उद॑ञ्चः।

मूलम्

ते वस॑व॒स्त्वेति॑ दक्षिण॒तᳶ पर्य॑गृह्णन् ।
रु॒द्रास्त्वेति॑ प॒श्चात् ।
आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः ।

ते॑ऽग्निना॒ प्राञ्चो॑ऽजयन् ।
वसु॑भिर्दक्षि॒णा ।
रु॒द्रैᳶ प्र॒त्यञ्चः॑ ।
आ॒दि॒त्यैरुद॑ञ्चः ।

भट्टभास्कर-टीका

अथ असुराः अब्रुवन् यूयं स्वयमेव यावत्परिगृह्णीथ तावद्युष्माकमस्त्विति । वसवस्त्वेत्याद्याः वेदिपरिग्रहणमन्त्राः । गतम् ॥

सायण-टीका

ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्। रुद्रास्त्वेति पश्चात्। आदित्यास्त्वेत्युत्तरतः। तेऽग्निना प्राञ्चोऽजयन्। वसुभिर्दक्षिणा। रुद्रैः प्रत्यञ्चः। आदित्यैरुदञ्चः।

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँ वि॒दुषो॒ वेदि॑म् परिगृ॒ह्णन्ति॒
भव॑त्य् आ॒त्मना॒,
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

यस्यै॒वव्ँवि॒दुषो॒ वेदि॑म्परिगृ॒ह्णन्ति॑ ॥74॥
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

सायण-टीका

यस्यैवं विदुषो वेदिं प्रतिगृह्णन्ति। भवत्यात्मना। पराऽस्य भ्रातृव्यो भवति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

वेदि-खननम्

विश्वास-प्रस्तुतिः

“दे॒वस्य॑ सवि॒तुस् स॒व” इत्य् आ॑ह॒ प्रसू॑त्यै ।
“कर्म॑ कृण्वन्ति वे॒धस॒” इत्य् आ॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।

मूलम्

“दे॒वस्य॑ सवि॒तुस्स॒व” इत्या॑ह॒ प्रसू॑त्यै ।
“कर्म॑ कृण्वन्ति वे॒धस॒” इत्या॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।

भट्टभास्कर-टीका

10देवस्य सवितुरिति वेदिखवननम् ॥ इषितं हीति ये हि वेधसो विधायकाः तैरिष्टं कर्तव्यं क्रियते तस्मादहमपि वेदिं खनामीति भावः ।

सायण-टीका

ईश्वरानुज्ञया सर्वैर्जनैः स्वाभीष्टं कर्म क्रियत इत्येतद्विदुषां प्रसिद्धमित्याह — ‘देवस्य सवितुः सव इत्याह प्रसूत्यै। कर्म कृण्वन्ति वेधस इत्याह। इषितँ हि कर्म क्रियते’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

पृ॒थि॒व्यै मेध्य॑ञ् चामे॒ध्यञ् च॒ व्युद॑क्रामताम्,
प्रा॒चीन॑म् उदी॒चीन॒म् मेध्य॑म्,
प्रती॒चीन॑न् दक्षि॒णा ऽमे॒ध्यम्

मूलम्

पृ॒थि॒व्यै मेध्य॑ञ्चामे॒ध्यञ्च॒ व्युद॑क्रामताम् ।
प्रा॒चीन॑म् उदी॒चीन॒म् मेध्य॑म् +++( व्युद॑क्रामताम् )+++।
प्र॒ती॒चीन॑न् दक्षि॒णा ऽमे॒ध्यम् ।

भट्टभास्कर-टीका

पृथिव्या इत्यादि । व्युत्क्रम्य पृथक्त्वेन स्थिते । प्रागञ्चितं प्राचीनम् । ‘विभाषाञ्चेः’ इति खः । एवं सर्वत्र । दक्षिणा । ‘दक्षिणादाच्’ । अमेध्यमिति । पर्वूवदन्तोदात्तत्वम् ।

सायण-टीका

वेदेर्दिग्द्वये निम्नतां विधत्ते – ‘पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम्। प्राचीनमुदीचीनं मेध्यम्। प्रतीचीनं दक्षिणा ऽमेध्यम्।

विश्वास-प्रस्तुतिः

प्राची॒म् उदी॑चीम् प्रव॒णाङ् क॑रोति ।
मेध्या॑म् ए॒वैना॑न् देव॒-यज॑नीङ् करोति ॥75॥+++(5)+++

मूलम्

प्राची॒मुदी॑चीम्प्रव॒णाङ्क॑रोति ।
मेध्या॑मे॒वैना॑न्देव॒यज॑नीङ्करोति ॥75॥

भट्टभास्कर-टीका

प्रवणां प्रकर्षेण वनित्रीम् । ‘प्रनिरन्तः’ इत्यादिना णत्वम्,

सायण-टीका

प्राचीमुदीचीं प्रवणां करोति। मेध्यामेवैनां देवयजनीं करोति’ (ब्रा. का. ३ प्र. २ अ. ९) इति। व्युदक्रामतां विभागमाप्नुताम्।

विश्वास-प्रस्तुतिः

प्राञ्चौ॑ वेद्यँ॒साव् उन्न॑यत्य्
आहव॒नीय॑स्य॒ परि॑गृहीत्यै,
प्र॒तीची॒ श्रोणी॒ गार्ह॑पत्यस्य॒ परि॑गृहीत्या, अथो॑ मिथुन॒त्वाय॑ ।

मूलम्

प्राञ्चौ॑ वेद्यँ॒सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तीची॒ श्रोणी॑ ।
गार्ह॑पत्यस्य॒ परि॑गृहीत्यै ।
अथो॑ मिथुन॒त्वाय॑ ।

सायण-टीका

अंसाकारेण श्रोण्याकारेण च कोणेषु चतुर्ष्वौन्नत्यं विधत्ते –प्राञ्चौ वेद्यँसावुन्नयति। आहवनीयस्य परि गृहीत्यै। प्रतीची श्रोणी। गार्हपत्यस्य परिगृहीत्यै। अथो मिथुनत्वाय’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

उद्ध॑न्ति ।
यद् ए॒वास्या॑ अमे॒ध्यन् तद् अप॑हन्ति ।

उद्ध॑न्ति ।
तस्मा॒द् ओष॑धय॒ᳶ परा॑भवन्ति ॥76॥

मूलम्

उद्ध॑न्ति ।
यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति ।

उद्ध॑न्ति ।
तस्मा॒दोष॑धय॒ᳶ परा॑भवन्ति ॥76॥

भट्टभास्कर-टीका

पराभवन्ति पक्वान्नश्यन्ति ।

सायण-टीका

भूमेरूर्ध्वभागस्य त्वक्स्थानीयस्य स्फ्येनापसारणं विधत्ते – ‘उद्धन्ति। यदेवास्या अमेध्यम्। तदपहन्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

तमेव विधिमनूद्यार्थवादान्तरमाह — ‘उद्धन्ति। तस्मादोषधयः पराभवन्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति। तस्मादुद्धननाद्भूमिष्ठास्तृणस्तम्बा बर्हिरास्तरणहविरासादनविरोधिनो विनश्यन्ति।

विश्वास-प्रस्तुतिः

मूल॑ञ् छिनत्ति
भ्रातृ॑व्यस्यै॒व मूल॑ञ् छिनत्ति । मूलव्ँ॒ वा अ॑ति॒तिष्ठ॒द् रक्षाँ॒स्य् अनूत्पि॑पते

मूलम्

मूल॑ञ्छिनत्ति ।
भ्रातृ॑व्यस्यै॒व मूल॑ञ्छिनत्ति ।
मूलव्ँ॒ वा अ॑ति॒तिष्ठ॒द्रक्षाँ॒स्यनूत्पि॑पते ।

सायण-टीका

भूमावत्यन्तं निरूढानां तृणमूलानामुद्धननमात्रेणापगमाभावात्पृथग्यत्नेन च्छेदनं विधत्ते – ‘मूलं छिनत्ति। भ्रातृव्यस्यैव मूलं छिनत्ति। मूलं वा अतितिष्ठद्रक्षाँस्यनूत्पिपते’ (ब्रा. का. ३ प्र. २ अ. ९) इति। वैरिणो मूलं निवासाधिकरणं गृहादिकम्।

विश्वास-प्रस्तुतिः

यद्धस्ते॑न छि॒न्द्यात् कु॑न॒खिनी॑ᳶ प्र॒जास् स्युः॑ ।

स्फ्येन॑ च्छिनत्ति ।
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञाद् रक्षाँ॒स्य् अप॑हन्ति ।

मूलम्

यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनी॑ᳶ प्र॒जास्स्युः॑ । स्फ्येन॑ छिनत्ति ।
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति ।

भट्टभास्कर-टीका

मूलं वा इति । अतितिष्ठत् अतिक्रम्य मूलं अनु अनुलक्ष्य । यद्वा - मूलमतितिष्ठत् अतितिष्ठन्ति अधितिष्ठन्ति, रक्षांसि । वचनव्यत्ययः । अध्यर्थे अतिशब्दः । अनूत्पिपते अनुक्रमेणात्मानं रक्षन्ति, हवींषि वा भुञ्जते । व्यत्ययेन शपश्श्लुः, आत्मनेपदं च ।

सायण-टीका

यदि तृणमूलां भूमिमतीत्य किंचिदवतिष्ठेत तदा तदनु रक्षाँस्युद्भवेयुः तस्मान्मूलं छेदनीयम् छेदनसाधनं विधत्ते — ‘यद्धस्तेन छिन्द्यात्। कुनखिनीः प्रजाः स्युः। स्फ्येन छिनत्ति। वज्रो वै स्फ्यः। वज्रेणैव यज्ञाद्रक्षाँस्यपहन्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

पि॒तृ॒-दे॒व॒त्या +++(द्व्य्-अङ्गुलादि-प्रमाणाद्)+++ ऽति॑खाता
इय॑तीङ् खनति
प्र॒जा-प॑तिना यज्ञ-मु॒खेन॒ सम्मि॑ताम् ।

मूलम्

पि॒तृ॒दे॒व॒त्याऽति॑खाता ।
इय॑तीङ्खनति ॥77॥
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् ।

भट्टभास्कर-टीका

अतिखाता द्व्य्-अङ्गुलादि-प्रमाणातिरेकेण खाता,
तस्मात् इयतीं एतावतीं प्रादेश-प्रमाणवतीं
इत्य् अभिनयेन दर्शयति ।
प्रजापतिना यज्ञमुखेन सम्मितां तुल्यप्रमाणां उभयोः प्रादेशप्रमाणत्वात् ।
यद्वा - यज्ञमुखस्य प्रजापतित्वेन प्रस्तुतिः मुखं च सर्वेषां प्रादेशमात्रमिति ॥

सायण-टीका

प्रदेशपरिमितं वेदिखननं विधत्ते — “पितृदेवत्याऽतिखाता। इयतीं खनति। प्रजापतिना यज्ञमुखेन संमिताम्’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

वेदि॑र् दे॒वेभ्यो॒ निला॑यत । ताञ् च॑तुर्-अङ्गु॒ले ऽन्व॑विन्दन् ।
तस्मा॑च् चतुर्-अङ्गु॒लङ् खेया॑ ।

मूलम्

वेदि॑र्दे॒वेभ्यो॒ निला॑यत । ताञ्च॑तुरङ्गु॒लेऽन्व॑विन्दन् ।
तस्मा॑च्चतुरङ्गु॒लङ्खेया॑ ।

भट्टभास्कर-टीका

11वेदिर्देवेभ्य इति चतुरङ्गुलत्वविधिः ॥ निलायत । ‘उपसर्गस्यायतौ’ इति लत्वम् । चतुरङ्गुले चतुरङ्गुलप्रमाणे परिमाणशब्दोऽयम् । ‘अङ्गुलेर्वारुणि’ इति अच् समासान्तः ।

सायण-टीका

पक्षान्तरं विधत्ते – ‘वेदिर्देवेभ्यो निलायत। तां चतुरङ्गुलेऽन्वविन्दन्। तस्माच्चतुरङ्गुलं खेया’ (ब्रा. का. ३ प्र. २ अ. ९) इति। केनापि निमित्तेन देवेभ्यो विमुखीभूता वेदिदेवता भूमौ निलीना सती चतुरङ्गुलमात्रां खननेन लब्धा। तस्माच्चतुरङ्गुलं खनेत्।

विश्वास-प्रस्तुतिः

च॒तु॒र्-अ॒ङ्गु॒लङ् ख॑नति
च॒तु॒र्-अ॒ङ्गु॒ले ह्य् ओष॑धयᳶ प्रति॒तिष्ठ॑न्ति
आ प्र॑ति॒ष्ठायै॑ खनति
यज॑मानम् ए॒व प्र॑ति॒ष्ठाङ् ग॑मयति ।

मूलम्

च॒तु॒र॒ङ्गु॒लङ्ख॑नति ।
च॒तु॒र॒ङ्गु॒ले ह्य् ओष॑धयᳶ प्रति॒तिष्ठ॑न्ति ।
आ प्र॑ति॒ष्ठायै॑ खनति ।
यज॑मानमे॒व प्र॑ति॒ष्ठाङ्ग॑मयति ।

सायण-टीका

तं विधिमनूद्यार्थवादान्तरमाह — ‘चतुरङ्गुलं खनति। चतुरङ्गुले ह्योषधयः प्रतितिष्ठन्ति’ (ब्रा. का. ३ प्र. २ अ. ९) इति। ओषधिमूले भूमेरन्तश्चतुरङ्गुलं प्रसृते सति ता ओषधयो वायुना नोन्मूल्यन्ते।
पक्षान्तरं विधते – ‘आ प्रतिष्ठायै खनति। यजमानमेव प्रतिष्ठां गमयति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

द॒क्षि॒ण॒तो वर्षी॑यसीङ् करोति ।
दे॒व॒-यज॑नस्यै॒व रू॒पम् अ॑कः ॥78॥

मूलम्

द॒क्षि॒ण॒तो वर्षी॑यसीङ्करोति ।
दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ॥78॥

भट्टभास्कर-टीका

वर्षीयसीं उत्तरतो वृद्धतरां अकः करोति । ‘मन्त्रे घस’ इति च्लेर्लुक्, लङि वा शपो लुक् ।

सायण-टीका

दक्षिणस्यां दिश्यौन्नत्यं विधत्ते – ‘दक्षिणतो वर्षीयसीं करोति। देवयजनस्यैव रूपमकः’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

पुरी॑षवतीङ् करोति ।
प्र॒जा वै प॒शव॒ᳶ पुरी॑षम् ।
प्र॒जयै॒वैन॑म् प॒शुभि॒ᳶ पुरी॑षवन्तङ् करोति ।

मूलम्

पुरी॑षवतीङ्करोति ।
प्र॒जा वै प॒शव॒ᳶ पुरी॑षम् ।
प्र॒जयै॒वैन॑म्प॒शुभि॒ᳶ पुरी॑षवन्तङ्करोति ।

भट्टभास्कर-टीका

पुरीषवतीं मृदा पूर्णां एतां वेदिं च करोति पुरीषवतीं वेदिरेव तत्र वेद्या उत्तरपरिग्रहणेन । तस्याः वेद्याः सम्बन्धिनः एवावतः प्रदेशात् सर्वपृथिवीप्रमाणप्रमितात् तत्रतत्र स्थितं भ्रातृव्यं निर्भज्य उत्सार्य आत्मार्थं सर्वामपि पृथिवीं आत्मसात्कर्तुं उत्तरं परिग्राहं परिगृह्णाति । ‘परौ यज्ञे’ इति घञ् ।

सायण-टीका

लोष्टभावरहितां सिकतया सदृशीं मृदं वेद्यां सर्वत्र विकिरेदित्याह – ‘पुरीषवतीं करोति। प्रजा वै पशवः पुरीषम्। प्रजयैवैनं पशुभिः पुरीषवन्तं करोति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

परिग्राह-ग्रहणम्

विश्वास-प्रस्तुतिः

उत्त॑रम् परिग्रा॒हम् परि॑गृह्णाति ।
ए॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदिः॑ ।
तस्या॑ ए॒तावत॑ ए॒व भ्रातृ॑व्यन् नि॒र्भज्य॑
आ॒त्मन॒ उत्त॑रम् परिग्रा॒हम् परि॑गृह्णाति ।

मूलम्

उत्त॑रम्परिग्रा॒हम्परि॑गृह्णाति ।
ए॒ताव॑ती॒ वै पृ॑थि॒वी ।
याव॑ती॒ वेदिः॑ । तस्या॑ ए॒तावत॑ ए॒व भ्रातृ॑व्यन्नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑गृह्णाति ।

सायण-टीका

विधत्ते – ‘उत्तरं परिग्राहं परिगृह्णाति। एतावती वै पृथिवी। यावती वेदिः। तस्या एतावत एव भ्रातृव्यं निर्भज्य। आत्मन उत्तरं परिग्राहं परिगृह्णाति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

“ऋ॒तम् अ॑स्य्, ऋत॒-सद॑नम् अस्य् ऋत॒श्रीर् अ॒सी"त्या॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ॥79॥

मूलम्

“ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सी"त्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ॥79॥

भट्टभास्कर-टीका

तत्र ‘ऋतमसि'18 इत्यादयः उत्तरपरिग्रहणमन्त्राः ॥

सायण-टीका

मन्त्रार्थो मन्त्रपदेष्वेवाभिव्यक्त इत्याह — “ऋतमस्यृतसदनमस्यृतश्रीरसीत्याह । यथायजुरेवैतत्” (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒ यद् वेदि॑ङ् क॒रोति॑
“धा अ॑सि स्व॒धा अ॒सी"ति॑ योयुप्यते॒+++(←यूप विमोहने)+++ शान्त्यै॑ ।

मूलम्

क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति । यद्वेदि॑ङ्क॒रोति॑ । धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॑ ।

भट्टभास्कर-टीका

12क्रूरमिवेति॥ हिंसात्वात् खननस्य । धा असीति समीकरणम् । योयुप्यते भृशं विमोहयति समीकरणेन खातानि तिरोदधाति । यूप विमोहने । तच्छान्त्यै भवति खननापराधच्छादनेन सुखायैव भवति ।

सायण-टीका

समीकरणं विधत्ते — ‘क्रूरमिव वा एतत्करोति। यद्वेदिं करोति। धा असि स्वधा असीति योयुप्यते शान्त्यै’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

“उ॒र्वी चासि॒+++(←चवायोगे प्रथमा)+++ वस्वी॑ चा॒सी"त्या॑ह ।
उ॒र्वीम् ए॒वैनाव्ँ॒ वस्वी॑ङ् करोति ।

मूलम्

उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह ।
उ॒र्वीमे॒वैनाव्ँ॒वस्वी॑ङ्करोति ।

सायण-टीका

विशेषणद्वयेन कृत्स्नभूमिरूपत्वमशेषधनोपेतत्वं च संपाद्यत इत्याह – ‘उर्वी चासि वस्वी चासीत्याह। उर्वीमेवैनां वस्वीं करोति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

“पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्न् इ"त्य् आ॑ह मेध्य॒त्वाय॑ ।

मूलम्

पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेध्य॒त्वाय॑ ।

सायण-टीका

विसृपः पुरेत्युक्याऽररुप्रयुक्तमशुचित्वं निवार्यत इत्याह ‘पुरा क्रूरस्य विसृपो विरप्शिन्नित्याह मेध्यत्वाय’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

“उ॒दा॒दाय॑ पृथि॒वीञ् जी॒र+++(=अग्नि/बुद्धि)+++-दा॑नु॒र्
याम् ऐर॑यञ् च॒न्द्रम॑सि स्व॒धाभि॒"र्

इत्य् आ॑ह ।
यद् ए॒वास्या॑ अमे॒ध्यन्
तद् अ॑प॒हत्य॒
मेध्या॑न् देव॒-यज॑नीङ् कृ॒त्वा
यद् अ॒दश् च॒न्द्रम॑सि॒ मेध्य॒न्
तद् अ॒स्याम् एर॑यति

मूलम्

“उ॒दा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒"रित्या॑ह । यदे॒वास्या॑ अमे॒ध्यम् । तद॑प॒हत्य॑ । मेध्यां॑ देव॒यज॑नीं कृ॒त्वा । यद॒दश्च॒न्द्रम॑सि॒ मेध्य॑म् । तद॒स्यामेर॑यति ।

भट्टभास्कर-टीका

एरयति आगमयति । ईर प्रेरणे ॥

सायण-टीका

चन्द्रमस्यैरयन्नित्यनुसंधानस्य प्रयोजनमाह – ‘उदादाय पृथिवीं जीरदानुर्यामैरयञ्चन्द्रमसि स्वधाभिरित्याह। यदेवास्या अमेध्यम्। तदपहत्य। मेध्यां देवयजनीं कृत्वा। यददश्चन्द्रमसि मेध्यम्। तदस्यामेरयति’ (ब्रा. का. ३ प्र. २ अ. ९) इति। एरयति आनयतीत्यर्थः।

विश्वास-प्रस्तुतिः

“तान् धीरा॑सो अनु॒दृश्य॑ यजन्त॒” इत्य् आ॒हानु॑ख्यात्यै ।

मूलम्

तान्धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै ।

सायण-टीका

अनुदृश्येति पदस्याभिप्रायमाह — ‘तां धीरासो अनुदृश्य यजन्त इत्याहानुख्यात्यै’ (ब्रा. का. ३ प्र. २ अ. ९) इति। अनुसंधानायेत्यर्थः।

प्रोक्षणी-सादनादि

विश्वास-प्रस्तुतिः

“प्रोक्ष॑णी॒र् आसा॑दय”
“इ॒ध्माब॒र्हिर् उप॑सादय”
“स्रु॒वञ्च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि”
“पत्नीँ॒ सन्न॑ह्य”
“आज्ये॑नो॒देही"त्य् आ॑हानुपू॒र्वता॑यै ।

मूलम्

प्रोक्ष॑णी॒रासा॑दय ।
इ॒ध्माब॒र्हिरुप॑सादय ।

स्रु॒वञ्च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि ।
पत्नीँ॒ सन्न॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै ।

भट्टभास्कर-टीका

13प्रोक्षणीरित्यादि संप्रैषः ॥ अनुपूर्वतायै अनुक्रमेण अनुष्ठानाय ।

सायण-टीका

आग्नीध्रं प्रति प्रैषमुत्पादयति – प्रोक्षणीरासादय। इध्माबर्हिरुपसादय। स्रुवं च स्रुचश्च संमृड्ढि पत्नीँ संनह्य। आज्येनोदेहीत्याहानुपूर्वतायै’ (ब्रा. का. ३ प्र. २ अ. ९) इति। बह्वर्थविषयप्रैषोऽनुक्रमेणानुष्ठानायोपयुज्यते।

विश्वास-प्रस्तुतिः

प्रोक्ष॑णी॒र् आसा॑दयति ।
आपो॒ वै र॑क्षो॒घ्नीः ॥81॥
रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

प्रोक्ष॑णी॒रासा॑दयति ।
आपो॒ वै र॑क्षो॒घ्नीः ॥81॥
रक्ष॑सा॒मप॑हत्यै ।

सायण-टीका

आग्नीध्रस्यानुष्ठानं विधत्ते — ‘प्रोक्षणीरासादयति। आपो वै रक्षोघ्नीः। रक्षसामपहत्यै।

विश्वास-प्रस्तुतिः

स्फ्यस्य॒ वर्त्म॑न्त् सादयति॒
य॒ज्ञस्य॒ सन्त॑त्यै ।

मूलम्

स्फ्यस्य॒ वर्त्म॑न्त्सादयति ।
य॒ज्ञस्य॒ सन्त॑त्यै ।

सायण-टीका

स्फ्यस्य वर्त्मन्त्सादयति यज्ञस्य संतत्यै’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

उ॒वाच॒ हासि॑तो दैव॒लः-

“ए॒ताव॑ती॒र् वा अ॒मुष्मिल्ँ॑ लो॒क आप॑ आस॒न्न्
याव॑ती॒ᳶ प्रोक्ष॑णी॒"र्

इति॑।
तस्मा॑द् ब॒ह्वीर् आ॒साद्याः॑ ।

मूलम्

उ॒वाच॒ हासि॑तो दैव॒लः ।
ए॒ताव॑ती॒र्वा अ॒मुष्मिल्ँ॑ लो॒क आप॑ आसन् ।

याव॑ती॒ᳶ प्रोक्ष॑णी॒रिति॑ ।
तस्मा॑द्ब॒ह्वीरा॒साद्याः॑ ।

भट्टभास्कर-टीका

यावतीरिति । यावत्यः प्रोक्षण्यः तावत्य एव देवलोके आपो वर्तन्ते तस्मात् बह्व्यः आपः आसाद्याः यथा देवानां पर्याप्ता भवन्ति ॥

सायण-टीका

प्रोक्षणीनामपां बाहुल्यं विधत्ते — ‘उवाच हासितो दैवलः। एतावतीर्वा अमुष्मिल्ँ लोके आप आसन्। यावतीः प्रोक्षणीरिति। तस्माद्बह्वीरासाद्याः’ (ब्रा. का. ३ प्र. २ अ. ९) इति।

विश्वास-प्रस्तुतिः

स्फ्यम् उ॒दस्य॑न् ।
यन् द्वि॒ष्यात् तन् ध्या॑येत् ।
शु॒चैवैन॑म् अर्पयति ॥82॥

मूलम्

स्फ्यमु॒दस्य॑न् ।
यन्द्वि॒ष्यात्तन्ध्या॑येत् ।
शु॒चैवैन॑मर्पयति ॥82॥

भट्टभास्कर-टीका

14स्फ्यमित्यादि ॥ गतम् ॥

इति तैत्तिरीये ब्राह्मणे तृतीये द्वितीये नवमः ॥

सायण-टीका

उत्करे स्फ्यस्य परित्यागं ध्यानविशिष्टं विधत्ते – ‘स्फ्यमुदस्यन्। यं द्विष्यात्तं ध्यायेत्। शुचैवैनमर्पयति’ (ब्रा. का. ३ प्र. २ अ. ९) इति।