+०४

कर्म॑णे वान्दे॒वेभ्य॑श् शकेय॒म्

विश्वास-प्रसुतिः

“कर्म॑णे वान्दे॒वेभ्य॑श् शकेय॒म्” इत्या॑ह॒ शक्त्यै॑ ।

मूलम्

कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒"मित्या॑ह॒ शक्त्यै॑ ।

भट्टभास्कर-टीका

1कर्मणे वामित्यादि ॥ ‘कर्मणे वाम्’ इतीह कर्मारम्भे हस्तयोस्संमर्शनम् ।

सायण-टीका

विनाऽपि प्रक्षालनं लौकिकशक्तेः सद्भावाच्छास्त्रीयशक्त्यर्थो मन्त्रः प्रक्षालनहेतुरित्यभिप्रेत्याऽऽह — ‘कर्मणे वां देवेभ्यः शकेयमित्याह शक्त्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

सन्तानम्

विश्वास-प्रसुतिः

य॒ज्ञस्य॒ वै सन्त॑ति॒म् अनु॑
प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते
य॒ज्ञस्य॒ विच्छि॑त्ति॒म् अनु॑
प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते
“य॒ज्ञस्य॒ सन्त॑तिर् असि
य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै ।”

मूलम्

य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते ।
य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते ।
य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै ।

भट्टभास्कर-टीका

यज्ञस्य वा इति । लक्षणेऽनोः कर्मप्रवचनीयत्वम् ।

सायण-टीका

कंचिन्मन्त्रमुत्पाद्य तृणास्तरणे विनियुङ्के — “यज्ञस्य वै संततिमनु प्रजाः पशवो यजमानस्य संतायन्ते। यज्ञस्य विच्छित्तिमनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते। यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै

विश्वास-प्रसुतिः

“त्वा य॒ज्ञस्ये"त्य् आह॑व॒नीया॒त् सन्त॑नोति॒ -
यज॑मानस्य प्र॒जायै॑ पशू॒नाँ सन्त॑त्यै ।

मूलम्

“त्वा य॒ज्ञस्ये"त्याह॑व॒नीया॒त्सन्त॑नोति ।
यज॑मानस्य प्र॒जायै॑ पशू॒नाँ सन्त॑त्यै ।

भट्टभास्कर-टीका

आहवनीयादिति । गार्हपत्यात्प्रक्रम्य संततामुलपराजीं स्तृणात्याहवनीयात् ॥

सायण-टीका

त्वा यज्ञस्येत्याहवनीयात्संतनोति। यजमानस्य प्रजायै पशुनाँसंतत्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति। यज्ञस्य त्वा संतत्या इत्येषां पदानामादरार्थेन द्विरभ्यासेन भूमिर्यथा न दृश्यते तथा स्तरणीयामिति सूच्यते।

अपाम् प्रणयनम्

अपः प्रणयति ...{Loading}...

विश्वास-प्रसुतिः

अ॒पᳶ प्रण॑यति ।
श्र॒द्धा वा आपः॑ ।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।

मूलम्

अ॒पᳶ प्रण॑यति ।
श्र॒द्धा वा आपः॑ ।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।

भट्टभास्कर-टीका

2अपः प्रणयतीत्यसकृद्विधानं फलविशेषार्थम् । सर्वैः श्रद्धेयत्वादपां श्रद्धात्वम् ।

सायण-टीका

प्रणयनं विधत्ते — ‘अपः प्रणयति’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

प्रणयनविधेरर्थवादमाह – ‘श्रद्धा वा आपः। श्रद्धामेवाऽऽरभ्य प्रणीय प्रचरति” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

विश्वास-प्रसुतिः

अ॒पᳶ प्रण॑यति ।
य॒ज्ञो वा आपः॑ ॥ 28॥
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।

मूलम्

अ॒पᳶ प्रण॑यति ।
य॒ज्ञो वा आपः॑ ॥ 28॥
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।

भट्टभास्कर-टीका

इष्टसाधनत्वात् यज्ञत्वमपाम् । प्रचरणं प्रयोगः ।

सायण-टीका

पूर्वोक्तमेव प्रणयनविधिं पुनः पुनरनूय बहुधा स्तौति — “अपः प्रणयति। यज्ञो वा आपः। यज्ञमेवाऽऽरभ्य प्रणीय प्रचरति।

विश्वास-प्रसुतिः

अ॒पᳶ प्रण॑यति ।
वज्रो॒ वा आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यᳶ प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति ।

मूलम्

अ॒पᳶ प्रण॑यति ।
वज्रो॒ वा आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यᳶ प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति ।

भट्टभास्कर-टीका

अरिष्टशमनत्वाद्वज्रत्वम् ।

सायण-टीका

अपः प्रणयति। वज्रो वा आपः। वज्रमेव भ्रातृव्येभ्य प्रह्रत्य प्रणीय प्रचरति।

विश्वास-प्रसुतिः

अ॒पᳶ प्रण॑यति ।
आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।

अ॒पᳶ प्रण॑यति ।
आपो॒ वै दे॒वाना॑म्प्रि॒यन्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ॥29॥

अ॒पᳶ प्रण॑यति ।
आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।

मूलम्

अ॒पᳶ प्रण॑यति ।
आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।

अ॒पᳶ प्रण॑यति ।
आपो॒ वै दे॒वाना॑म्प्रि॒यन्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ॥29॥

अ॒पᳶ प्रण॑यति ।
आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।

भट्टभास्कर-टीका

सर्व देवताप्रीणनत्वात् सर्व देवतात्वम् ॥

सायण-टीका

अपः प्रणयति। आपो वै रक्षोघ्नीः। रक्षसामपहत्यै। अपः प्रणयति। आपो वै देवानां प्रियं धाम। देवानामेव प्रियं धाम प्रणीय प्रचरति। अपः प्रणयति। आपो वै सर्वा देवताः । देवता एवाऽऽरभ्य प्रणीय प्रचरति” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

विश्वास-प्रस्तुतिः

(आपो॒ वै शा॒न्ताः । शा॒न्ताभि॑र् ए॒वास्य॑ शुचँ॑ शमयति ॥)

मूलम्

(आपो॒वैशा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॑ शुचँ॑शमयति ॥)

वेषाय

विश्वास-प्रसुतिः

“वेषा॑य॒ त्वे"त्या॑ह ।
वेषा॑य॒ ह्य् ए॑नद् आद॒त्ते +++(शूर्पम्)+++ ।

मूलम्

“वेषा॑य॒ त्वे"त्या॑ह ।
वेषा॑य॒ ह्ये॑नदाद॒त्ते ।

भट्टभास्कर-टीका

3वेषाय त्वेति शूर्पादानम् ॥ वेषाय व्यापनाय कर्मणे शूर्पमादत्ते॥

सायण-टीका

शूर्पस्य यज्ञार्थत्वं निर्वापावघातादौ प्रसिद्धमित्याह — “वेषाय त्वेत्याह। वेषाय ह्येनदादत्ते” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

प्रतितपनम्

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ ...{Loading}...
विश्वास-प्रस्तुतिः

“प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

“प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।

सायण-टीका

व्याचष्टे — “प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह। रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।


अनिष्टपरिहारायेष्टसिद्धये चोभौ मन्त्रावित्याह – ‘प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह। रक्षसामपहत्यै।

भट्टभास्कर-टीका

4प्रत्युष्टमिति प्रतितपनम् ॥

धूर॒सि

विश्वास-प्रसुतिः

“धूर् अ॒सी"त्य् आ॑ह।
ए॒ष वै धुर्यो॒ ऽग्निः ।
तय्ँ यद् अनु॑पस्पृश्याती॒याद्
अध्व॒र्युञ् च॒ यज॑मानञ् च॒ प्रद॑हेत् ।
उ॒प॒स्पृश्यात्ये॑त्य्
अ॒ध्व॒र्योश् च॒ यज॑मानस्य॒ चाप्र॑दाहाय ।

मूलम्

“धूर॒सी"त्या॑ह।
ए॒ष वै धुर्यो॒ऽग्निः ।
तय्ँ यदनु॑पस्पृश्याती॒याद् अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च॒ प्रद॑हेत् ।
उ॒प॒स्पृश्यात्ये॑त्य् अ॒ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय ।

भट्टभास्कर-टीका

5धूरसीति धुरोऽभिमर्शनम् ॥ धुर्य इति । यज्ञस्य धुरो वोढा धुर्यः । ‘धुरो यढ्ढकौ’ ॥

सायण-टीका

वह्न्याधारभूताया युगधुरः संस्पर्शं विधत्ते — “धुरसीत्याह। एष वै धूर्योऽग्निः। तं यदनुपस्पृश्यातीयात्। अध्वर्युं च यजमानं च प्रदहेत् उपस्पृश्यात्येति। अध्वर्योश्च यजमानस्य चाप्रदाहाय” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

विश्वास-प्रसुतिः

“धूर्व॒ तय्ँ यो॒॑ ऽस्मान् धूर्व॑ति॒
तन् धू॑र्व॒ यव्ँ व॒यन् धूर्वा॑म॒” इत्या॑ह ।

द्वौ वाव पुरु॑षौ॒ -
यञ् चै॒व धूर्व॑ति॒
यश् चै॑न॒न् धूर्व॑ति॒
ताव् उ॒भौ शु॒चा ऽर्प॑यति ।

मूलम्

“धूर्व॒ तय्ँ यो॑स्मान्धूर्व॑ति॒ तन्धू॑र्व॒ यव्ँव॒यन्धूर्वा॑म॒” इत्या॑ह ।
द्वौ वाव पुरु॑षौ ।
यञ्चै॒व धूर्व॑ति॒ यश्चै॑न॒न्धूर्व॑ति॒ तावु॒भौ शु॒चाऽर्प॑यति ।

भट्टभास्कर-टीका

6धूर्वन्तमिति ॥ धुर्वी हिंसायाम् । ‘उपधायां च’ इति दीर्घत्वम् ॥

सायण-टीका

तं धूर्वेति वाक्ययोः पौनरुक्त्यभ्रमं निवारयति — “धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वाम इत्याह। द्वौ वाव पुरुषौ। यं चैव धूर्वति। यश्चैनं धूर्वति। तावुभौ शुचाऽर्पयति” (ब्रा. का. ३ प्र. २ अ. ४ ) इति। शोकेन योजयतीत्यर्थः।

अनोऽभिमन्त्रणम्

विश्वास-प्रसुतिः

“त्वन् दे॒वाना॑म् असि॒
सस्नि॑तम॒म् पप्रि॑तम॒ञ् जुष्ट॑तमव्ँ॒ वह्नि॑तमन् देव॒-हूत॑म॒म्” इत्या॑ह ।
य॒था॒-य॒जुर् ए॒वैतत् ॥ 31॥+++(4)+++

अ-ह्रु॑तम् असि हवि॒र्-धान॒म् इत्या॒हाना॑र्त्यै ।

मूलम्

“त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तमव्ँ॒वह्नि॑तमन्देव॒हूत॑म॒"मित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ॥ 31॥

अह्रु॑तमसि हवि॒र्धान॒मित्या॒हाना॑र्त्यै ।

भट्टभास्कर-टीका

7त्वं देवानामिति अनसोऽभिमन्त्रणम् ॥ यथायजुर्वदति अनसो माहात्म्यं तथा सर्वमेतदस्त्वेव ॥

सायण-टीका

मन्त्रस्य प्रथमभागे स्पष्टार्थत्वं दर्शयति-“त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्रितमं देवहूतममित्याह। यथायजुरेवैतत्” (ब्रा. का. ३ प्र. २ अ. ४ ) इति। मन्त्रपदैर्योऽर्थो यथा प्रतीयते स तथैव न त्वत्र कश्चिद्विवक्षाविशेषोऽस्ति।

द्वितीयभागे व्रीहिभारप्रयुक्तं शैथिल्यं वार्यत इत्याह –”अह्रुतमसि हविर्धानमित्याहानार्त्यै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

दृँह॑स्व॒ ...{Loading}...
विश्वास-प्रस्तुतिः

“दृँह॑स्व॒ मा ह्वा॒र्”+++(=कुटिलीभव)+++ इत्या॑ह॒ धृत्यै॑ ॥17॥

मूलम्

“दृँह॑स्व॒ मा ह्वा॒"र्+++(=कुटिलीभव)+++ इत्या॑ह॒ धृत्यै॑ ॥17॥

सायण-टीका

तृतीयभागे स्वयमप्यारोढुं शकटस्य धैर्यं संपाद्यत इत्याह — “दृँहस्व मा ह्वारित्याह धृत्यै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

प्रेक्षणम्

विश्वास-प्रसुतिः

“मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒” इत्य् आ॑ह मित्र॒त्वाय॑ ।
“मा भेर्, मा सव्ँ वि॑क्था॒, मा त्वा॑ हिँसिष॒म्” इत्य् आ॒हाहिँ॑सायै ।

मूलम्

“मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒” इत्या॑ह मित्र॒त्वाय॑ ।
“मा भेर्मा सव्ँ वि॑क्था॒ मा त्वा॑ हिँसिष॒म्” इत्या॒हाहिँ॑सायै ।

भट्टभास्कर-टीका

8मित्रस्य त्वेति पुरोडाशीयानां प्रोक्षणम् ॥

सायण-टीका

अनुकूलोऽयमिति बुद्ध्युत्पादनाय मित्रशब्दप्रयोग इत्याह — “मित्रस्य त्वा चक्षुषा प्रेक्ष इत्याह मित्रत्वाय” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

भयकम्पयोरपि हिंसावान्तरभेदत्वमित्यभिप्रेत्याऽऽह — “मा भेर्मा संविक्था मा त्वा हिँसिषमित्याह हिँसायै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

उ॒रु वाता॒य

विश्वास-प्रसुतिः

यद् वै किञ्च॒ वातो॒ नाभि॒वाति॒
तत् सर्वव्ँ॑ वरुण-देव॒त्य॑म् ।+++(5)+++
“उ॒रु वाता॒ये"त्य् आ॑ह ।
अ-वा॑रुणम् ए॒वैन॑त् करोति ।

मूलम्

यद्वै किञ्च॒ वातो॒ नाभि॒वाति॒ तत्सर्वव्ँ॑वरुणदेव॒त्य॑म् । “उ॒रु वाता॒ये"त्या॑ह ।
अवा॑रुणमे॒वैन॑त्करोति ।

भट्टभास्कर-टीका

9उरुवातायेति तृणादिनिरसनम् ॥ यद्वातो न प्रविशति तद्वरुणदेवत्यं वारकेण तमसा गृहीतं, तत् तस्मात् तृणादिनिरसनेन वातसञ्चारार्थं महानवकाशः क्रियत इति यावत् ॥

सायण-टीका

वायुप्रवेशे प्रयोजनमाह — “यद्वै किंच वातो नाभिवाति। तत्सर्वं वरुणदेवत्यम्। उरू वातायेत्याह। अवारुणमेवैनत्करोति” (ब्रा. का. ३ प्र. २ अ. ४ ) इति। यद्द्रव्यमावृतत्वेन वायुर्न स्पृशति तस्य सर्वस्याऽऽवरको वरुणः स्वामी। तच्च स्वामित्वं वायुना निवर्त्यते।

निर्वापः

दे॒वस्य॑ त्वा ...{Loading}...
विश्वास-प्रस्तुतिः

“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह॒ प्रसू॑त्यै ।

Keith

‘On the impulse of the god Savitr thee’, he says, for impelling.

मूलम्

“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह॒ प्रसू॑त्यै ।

सायण-टीका

व्याचष्टे- “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।”


अत्र वाक्यपूरणायाग्नय इत्यादिकमध्याहृतमतो यथाम्नातमेवानूद्य व्याचष्टे — “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।”


अत्रानाम्नातमप्यनेनैवाभिप्रायेण व्याचष्टे – “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।”

अ॒श्विनो॑र् बा॒हुभ्या॒म् ...{Loading}...
विश्वास-प्रस्तुतिः

“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्य् आ॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् ।

Keith

‘With the arms of the Aśvins’, he says, for the Aśvins were the Adhvaryus of the gods.

मूलम्

“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।

पद-पाठः

अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।

भट्टभास्कर-टीका

अध्वर्यू इति । अध्वरस्य नेतारौ मणिबन्धादुपरि वा स्तः ।

सायण-टीका

अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्।

विश्वास-प्रस्तुतिः

“पू॒ष्णो हस्ता॑भ्या॒"म् इत्य् आ॑ह॒ यत्यै॑ ।

Keith

‘With the hands of Pusan’, he says, for restraint.

मूलम्

“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।

पद-पाठः

पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ । 4 ।

भट्टभास्कर-टीका

यत्यै यमनाय धारणाय ॥

सायण-टीका

पूष्णो हस्ताभ्यामित्याह यत्यै (ब्रा. का.३ प्र.२ अ.९) इति ।

भट्टभास्कर-टीका

10देवस्यत्वेति हविषो निर्वापणम् ॥ व्याख्यातम् ।

विश्वास-प्रस्तुतिः

“अ॒ग्नये॒ जुष्ट॒न् निर्व॑पा॒मी"त्या॑ह ।
अ॒ग्नय॑ ए॒वैना॒ञ् जुष्ट॒न् निर्व॑पति ।

मूलम्

“अ॒ग्नये॒ जुष्ट॒न्निर्व॑पा॒मी"त्या॑ह ।
अ॒ग्नय॑ ए॒वैना॒ञ्जुष्ट॒न्निर्व॑पति ।

सायण-टीका

अग्नये जुष्टं निर्वपामीत्याह। अग्नय एवेनाञ्जुष्टं निर्वपति” (ब्रा. का. ३ प्र. २ अ. ४ ) इति। एनान्व्रीहीन्प्रियं हविर्यथा भवति तथा निर्वपति।

विश्वास-प्रसुतिः

त्रिर् यजु॑षा ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒म् आप्त्यै॑ ।

तू॒ष्णीञ् च॑तु॒र्थम् ।
अ-प॑रिमितम् ए॒वाव॑रुन्धे । स ए॒वम् ए॒वानु॑पू॒र्वँ ह॒वीँषि॒ निर्व॑पति ॥33॥

मूलम्

त्रिर्यजु॑षा ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।

तू॒ष्णीञ्च॑तु॒र्थम् ।
अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्वँ ह॒वीँषि॒ निर्व॑पति ॥33॥

भट्टभास्कर-टीका

हवींषीति । अग्नीषोमीयादीनि ॥

सायण-टीका

आवृत्तिं विधत्ते — “त्रिर्यजुषा। यत्र इमे लोकाः। एषां लोकानामाप्त्यै। तूष्णीं चतुर्थम्। अपरिमितमेवावरून्धे” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

एतत्सर्वमाभिप्रेत्याऽऽह — “स एवमेवानुपूर्वं हवीँषि निर्वपति” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

अभिमर्शः

विश्वास-प्रसुतिः

“इ॒दन् दे॒वाना॑म् इ॒दम् उ॑ नस् स॒हे"त्य् आ॑ह॒ व्यावृ॑त्यै ।

मूलम्

“इ॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒हे"त्या॑ह॒ व्यावृ॑त्यै ।

भट्टभास्कर-टीका

11इदं देवानामिति निरुप्ताभिमर्शनम् ॥ इदमु न इति निरुप्तशेषाभिमर्शनम् । व्यावृत्तिः निरुप्तानिरुप्तविभागः ॥

सायण-टीका

भागयोरसांकर्याय मन्त्रद्वयमित्याह — ‘इदं देवानामिदमु नः सहेत्याह व्यावृत्त्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

परिणहि निर्वापः

विश्वास-प्रसुतिः

“स्फा॒त्यै त्वा॒ नारा॑त्या॒” इत्या॑ह॒ गुप्त्यै॑ ।

मूलम्

“स्फा॒त्यै त्वा॒ नारा॑त्या॒” इत्या॑ह॒ गुप्त्यै॑ ।

सायण-टीका

सोऽयं मन्त्रो हविषोऽवस्कन्दनेन क्षयो मा भूदित्येवं रक्षार्थ इत्याह — ‘स्फात्यै त्वा नारात्या इत्याह गुप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

विश्वास-प्रसुतिः

तम॑सीव॒ वा ए॒षो॑ऽन्तश् च॑रति॒ यᳶ प॑री॒णहि॑ ।

मूलम्

तम॑सीव॒ वा ए॒षो॑ऽन्तश्च॑रति । यᳶ प॑री॒णहि॑ ।

भट्टभास्कर-टीका

12स्फात्या इति कोष्ठादौ शिष्टावपनम् ॥ परीणत् गहम्, आवपनं वा ॥

सायण-टीका

शकटस्योपरिभागे परितः कटवेष्टिते तमस्विनि प्रदेशेऽवस्थितस्य बहिरवलोकनमप्यपेक्षितमित्याह — ‘तमसीव वा एषोऽन्तश्चरति। यः परीणहि।

सुव॑र॒भि

विश्वास-प्रसुतिः

“सुव॑र् अ॒भि विख्ये॑षव्ँ+++(=व्यपश्यम्)+++ वैश्वान॒रञ् ज्योति॒र्” इत्या॑ह ।

सुव॑र् ए॒वाभि विप॑श्यति वैश्वान॒रञ् ज्योतिः॑ ।

मूलम्

“सुव॑र॒भि विख्ये॑षव्ँ वैश्वान॒रञ्ज्योति॒"रित्या॑ह । सुव॑र् ए॒वाभि विप॑श्यति वैश्वान॒रञ् ज्योतिः॑ ।

भट्टभास्कर-टीका

13सुवरिति आहवनीयानुवीक्षणम् ॥ सुवरेवेति । सुष्ठु श्रेयसां गमयितृ ज्योतिः आहवनीयम् ॥

सायण-टीका

सुवरभि विख्येषं वैश्वानरं ज्योतिरित्याह। सुवरेवाभि विपश्यति वैश्वानरं ज्योतिः” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

दृँह॑न्ता॒न् दुर्या॒

विश्वास-प्रसुतिः

द्यावा॑-पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् ।
“दृँह॑न्ता॒न् दुर्या॒+++(=द्वारवन्ति)+++ द्यावा॑पृथि॒व्यो"र् इत्य् आ॑ह ।
गृ॒हाणा॒न् द्यावा॑पृथि॒व्योर् धृत्यै॑ ।

मूलम्

द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् । “दृँह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्यो"रित्या॑ह ।
गृ॒हाणा॒न्द्यावा॑पृथि॒व्योर्धृत्यै॑ ।

भट्टभास्कर-टीका

14दृंहन्तामिति गृहानुवीक्षणम् ॥

सायण-टीका

अदार्ढ्यशङ्कायाः सद्भावाद्दार्ढ्यमाशंसनीयमित्याह — ‘द्यावापृथिवी हविषि गृहीत उदवेपेताम्। दृँहन्तां दुर्या द्यावापृथिव्योरित्याह। गृहाणां द्यावापृथिव्योर्धृत्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

उ॒र्व॑न्तरि॑क्ष॒म् ...{Loading}...
विश्वास-प्रस्तुतिः

“उ॒र्व॑न्तरि॑क्ष॒म् अन्वि॒ही"त्या॑ह॒ गत्यै॑ ।

मूलम्

“उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ही"त्या॑ह॒ गत्यै॑ ।

भट्टभास्कर-टीका

24उर्विति प्रत्यागच्छति ॥ तत्र अन्तरिक्षस्य उरुत्वाभिधानं गत्यै अविहतायै भवति ॥

सायण-टीका

व्याचष्टे — ‘उर्वन्तरिक्षमन्विहीत्याह गत्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

भट्टभास्कर-टीका

15उर्विति गमनम् ॥

हविस्-सादनम्

विश्वास-प्रसुतिः

“अदि॑त्यास् त्वो॒पस्थे॑ सादया॒मी"त्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॑द् उ॒पस्थे॑ सादयति ।

मूलम्

“अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मी"त्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति ।

भट्टभास्कर-टीका

16अदित्या इति परेण गार्हपत्यमाहवनीयं वा सादनम् ॥

सायण-टीका

अदितिशब्दस्य भूमिरर्थ इत्याह – ‘अदित्यास्त्वोपस्थे सादयामीत्याह। इयं वा अदितिः। अस्या एवैनदुपस्थे सादयति’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।

अग्ने॑ ह॒व्यँ ...{Loading}...
विश्वास-प्रसुतिः

“अग्ने॑ ह॒व्यँ र॑क्ष॒स्वे"त्या॑ह॒ गुप्त्यै॑ ॥34॥

मूलम्

“अग्ने॑ ह॒व्यँ र॑क्ष॒स्वे"त्या॑ह॒ गुप्त्यै॑ ॥34॥

भट्टभास्कर-टीका

17अग्ने हव्यमिति गार्हपत्याभिमन्त्रणम् ॥

सायण-टीका

अत्र हविषो रक्षामात्रं विवक्षितमित्याह- ‘अग्ने हव्यँ रक्षस्वेत्याह गुप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।


पूर्ववद्व्याचष्टे – ‘अग्ने हव्यँ रक्षस्वेत्याह गुप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

इति ब्राह्मणे तृतीये द्वितीये चतुर्थोऽनुवाकः ॥