पर्शु-ग्रहणम्
विश्वास-प्रस्तुतिः
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्य् अ॑श्व-प॒र्शुम् आद॑त्ते॒ प्रसू॑त्यै ।
मूलम्
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्य॑श्वप॒र्शुमाद॑त्ते॒ प्रसू॑त्यै ।
भट्टभास्कर-टीका
1देवस्य त्वेत्यादि ॥ पर्शुः पार्श्ववक्रः ।
सायण-टीका
अत्र ब्राह्मणम् — ‘ देवस्य त्वा सवितुः प्रसव इत्यश्वपर्शुमादत्ते प्रसूत्यै।
अ॒श्विनो॑र् बा॒हुभ्या॒म् ...{Loading}...
विश्वास-प्रस्तुतिः
“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्य् आ॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् ।
Keith
‘With the arms of the Aśvins’, he says, for the Aśvins were the Adhvaryus of the gods.
मूलम्
“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पद-पाठः
अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।
भट्टभास्कर-टीका
अध्वर्यू इति । अध्वरस्य नेतारौ मणिबन्धादुपरि वा स्तः ।
सायण-टीका
अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्।
विश्वास-प्रस्तुतिः
“पू॒ष्णो हस्ता॑भ्या॒"म् इत्य् आ॑ह॒ यत्यै॑ ।
Keith
‘With the hands of Pusan’, he says, for restraint.
मूलम्
“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।
पद-पाठः
पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ । 4 ।
भट्टभास्कर-टीका
यत्यै यमनाय धारणाय ॥
सायण-टीका
पूष्णो हस्ताभ्यामित्याह यत्यै (ब्रा. का.३ प्र.२ अ.९) इति ।
पर्वसु लवनम्
विश्वास-प्रस्तुतिः
यो वा ओष॑धीᳶ पर्व॒शो वेद॑ ।
नैना॒स् स हि॑नस्ति ।
मूलम्
यो वा ओष॑धीᳶ पर्व॒शो वेद॑ ।
नैना॒स्स हि॑नस्ति ।
भट्टभास्कर-टीका
2यो वा इत्यादि अश्वपर्श्वोस्स्तुतिः ॥ पर्वशः पर्वणिपर्वणि । ‘संख्यैकवचनाच्च’ इति शस् । पर्ववेदी पर्वपरिहारेणाच्छिन्दन् एना ओषधीर्न हिनस्ति ।
सायण-टीका
अश्वपर्शुना सह बर्हिः प्राप्तुं गच्छेदिति सार्थवादेन वाक्येन विधिरुन्नीयते, ‘यो वा ओषधीः पर्वशो वेद। मैमाः स हिनस्ति।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र् वा ओष॑धीᳶ पर्व॒शो वे॑द ।
स ए॑ना॒ न हि॑नस्ति ।
मूलम्
प्र॒जाप॑ति॒र्वा ओष॑धीᳶ पर्व॒शो वे॑द ।
स ए॑ना॒ न हि॑नस्ति ।
भट्टभास्कर-टीका
प्रजापतिरेव तद्वेदी तथा कर्तुं शक्रोति ।
सायण-टीका
प्रजापतिर्वा ओषधीः पर्वशो वेद। स एना न हिनस्ति।
विश्वास-प्रस्तुतिः
अ॒श्व॒प॒र्श्वा ब॒र्हिर् अच्छै॑ति ।
प्रा॒जा॒प॒त्यो वा अश्व॑स् - +++(बह्रिषा)+++ स-योनि॒त्वाय॑ +++(भवति)+++॥7॥
ओष॑धीना॒म् अहिँ॑सायै ।
मूलम्
अ॒श्व॒प॒र्श्वा ब॒र्हिरच्छै॑ति ।
प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ ॥7॥
ओष॑धीना॒महिँ॑सायै ।
भट्टभास्कर-टीका
ततः किमित्याह - अश्वश्चायं प्राजापत्यः तदक्षिपरिणामत्वात् तस्मात् अश्वपर्श्वा
बर्हिरभिप्राप्तुं तदर्थां ओषधीः यच्छन्
उभयोः सयोनित्वात् तासां हिंसां नोत्पादयेत् ॥
सायण-टीका
अश्वपर्श्वा बर्हिरच्छैति। प्रजापत्यो वा अश्वः सयोनित्वाय। ओषधीनामहिँसायै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। प्रजापत्यक्षिपरिणामोऽश्व इत्यश्वमेधविधौ श्रूयते — ‘प्रजापतेरक्ष्यश्वयत्। तत्परापतत्। तदश्वोऽभवत्। यदश्वयत्। तदश्वस्याश्वत्वम्’ इति। ततोऽश्वस्य प्राजापत्यत्वात्प्रजापतेश्चौषधीषु तत्तत्पर्वाभिज्ञत्वेन पर्वणोः संधौ छेत्तुं प्रवृत्तस्य पर्वमञ्जकत्वाभावेनाश्वपर्श्वा प्रजापतिरूपया दर्मच्छेदे हिंसा न भवतीति। द्रव्यान्तरपरित्यागेनाश्वपर्शुस्वीकारस्तद्योनिभूतप्रजापतिसाहित्यार्थम्। अस्ति च तत्साहित्यं कारणस्य कार्येऽनुगतत्वात्। तस्मात्प्रजापतिद्वारेण कर्तुर्हिंसादोषाभाव उपपद्यते।
य॒ज्ञस्य॑ घो॒षद्
विश्वास-प्रस्तुतिः
“य॒ज्ञस्य॑ घो॒षद् अ॒सी"त्य् आ॑ह । यज॑मान ए॒व र॒यिन् द॑धाति ।
मूलम्
“य॒ज्ञस्य॑ घो॒षद॒सी"त्या॑ह । यज॑मान ए॒व र॒यिन्द॑धाति ।
भट्टभास्कर-टीका
3यज्ञस्येति अश्वपर्श्वभिमन्त्रणम् ॥ रयिं दधातीति । यज्ञसाधनत्वाभिधानेन रयि-साधनं यज्ञं यजमाने स्थापयति । घोषदिति धननामेति केचित् ॥
सायण-टीका
अत्र ब्राह्मणम् – ‘ यज्ञस्य घोषदसीत्याह। यजमान एव रयिं दधाति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। रयिं धनम्।
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ ...{Loading}...
विश्वास-प्रस्तुतिः
“प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।
मूलम्
“प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।
सायण-टीका
व्याचष्टे — “प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह। रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।
अनिष्टपरिहारायेष्टसिद्धये चोभौ मन्त्रावित्याह – ‘प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह। रक्षसामपहत्यै।
प्रेयम् अ॑गाद्
विश्वास-प्रस्तुतिः
“प्रेयम् अ॑गाद् धि॒षणा॑+++(→पर्शुः)+++ ब॒र्हिर् अच्छे"त्य् आ॑ह ।
मूलम्
“प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छे"त्या॑ह ।
भट्टभास्कर-टीका
4प्रेयमिति गार्हपत्यप्रदेशादाहवनीयप्रदेशगमनम् ॥ ़
सायण-टीका
इयमश्वपर्शुर्विद्यारूपत्वेनाभिज्ञानवती बर्हिराप्तुं गच्छति। कीदृशी सा। प्रजापतिरूपेण मनुना स्वचक्षुषो निर्मिता। अश्वभक्षितान्नलक्षणया स्वधया विशेषेण तीक्ष्णीकृता। यस्मात्ते पूर्वे कवयो विद्वांसोऽनुष्ठातारः पूर्वस्या दिशो बर्हिरानयन्ति तस्मादियं प्राग्गच्छति। हविर्भुग्भ्यः प्रियं बर्हिरिह वेद्यामासादयितव्यम्।
विश्वास-प्रस्तुतिः
वि॒द्या वै धि॒षणा॑ +++(→पर्शुः)+++।
वि॒द्ययै॒वैन॒द् अच्छै॑ति ।
मूलम्
वि॒द्या वै धि॒षणा॑ ।
वि॒द्ययै॒वैन॒दच्छै॑ति ।
भट्टभास्कर-टीका
विद्या वा इति । अश्वपर्शुं धिषणाशब्देन संकीर्तयन् विद्ययैव बर्हिरभिप्राप्तुं गच्छन् भवति ॥
सायण-टीका
अस्य मन्त्रस्य प्रथमभागे पदार्थं तात्पर्यं चाऽऽह — ‘प्रेयमगाद्धिषणा बर्हिरच्छेत्याह। विद्या वै धिषणा। विद्ययैवैतदच्छैति” [ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३] इति।
मनु॑ना कृ॒ता
विश्वास-प्रस्तुतिः
“मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टे"त्य् आ॑ह । मा॒न॒वी हि पर्शु॑स् स्व॒धा-कृ॑ता ॥8॥
मूलम्
“मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टे"त्या॑ह । मा॒न॒वी हि पर्शु॑स्स्व॒धाकृ॑ता ॥8॥
भट्टभास्कर-टीका
5मानवी हीति ॥ मनुना प्रजापतिना कृता मानवी पर्शुः, सा खलु स्वधया अन्नेन कृता यागद्वारेण निर्वर्तिता, तस्मात् स्वधया वितष्टेत्युच्यते । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । श्रुतवन्तः क्रान्तदर्शनाः, तस्मात्त एवं कुर्वन्तीत्याह । अयं यज्ञः पुरस्तात् पूर्वस्यां दिशि वर्तते ।
सायण-टीका
द्वितीयभागस्यार्थे श्रुत्यन्तरप्रसिद्धिमनुमानप्रसिद्धिं चाऽऽह — “ मनुना कृता स्वधया वितष्टेत्याह। मानवी हि पर्शुः स्वधाकृता ” [ब्रा॰ का॰ ३ प्र॰ २ अ॰ २] इति। अन्नेनास्थ्याद्युपचयोऽन्वयव्यतिरेकसिद्धः।
पुरस्ताद् आरम्भः
विश्वास-प्रस्तुतिः
“त आव॑हन्ति क॒वय॑ᳶ पु॒रस्ता॒द् +++(दिशः)+++” इत्या॑ह ।
शु॒श्रु॒वाँसो॒ वै क॒वयः॑ ।
य॒ज्ञᳶ पु॒रस्ता॑त् ।
मु॒ख॒त ए॒व य॒ज्ञम् आर॑भते +++(पुरस्ताद्-आगच्छत्-कवि-कल्पनेन)+++।
मूलम्
“त आव॑हन्ति क॒वय॑ᳶ पु॒रस्ता॒"दित्या॑ह ।
शु॒श्रु॒वाँसो॒ वै क॒वयः॑ ।
य॒ज्ञᳶ पु॒रस्ता॑त् ।
मु॒ख॒त ए॒व य॒ज्ञमार॑भते ।
भट्टभास्कर-टीका
तस्मात् कवयः पुरस्तात् पूर्वस्यां दिशि आवहन्तीत्य् उच्यत इति ।
तस्मात् मुखत् एव वाच्या एवारभ्य यज्ञः निर्वर्तितो भवति ।
सायण-टीका
तृतीयभागे पदार्थं पुरस्ताच्छब्दतात्पर्यं चाऽऽह - ‘ त आवहन्ति कवयः पुरस्तादित्याह। शुश्रुवाँसो वै कवयः। यज्ञः पुरस्तात्। मुखत एव यज्ञमारभते’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। होमाधारस्याऽऽहवनीयस्य पूर्वदिक्स्थत्वाद्यज्ञः पुरस्ताद्वर्तत इत्युच्यते। तच्छब्दपाठेन पुरस्तादेव यज्ञ आरब्धो भवति।
विश्वास-प्रस्तुतिः
अथो॒ यद् ए॒तद् उ॒क्त्वा
यत॒ᳵ कुत॑श् चा॒हर॑ति॒
तत् प्राच्या॑ ए॒व दि॒शो भ॑वति ।
मूलम्
अथो॒ यद् ए॒तद् उ॒क्त्वा यत॒ᳵ कुत॑श् चा॒हर॑ति । तत् प्राच्या॑ ए॒व दि॒शो भ॑वति ।
भट्टभास्कर-टीका
अथो अपि च त एवमुक्त्वा यतः कुतश्चिदपि दिशो यदाहरति तत्प्राच्या एवाहृतं भवति एतन्मन्त्रप्रभावात् ॥
सायण-टीका
अपि च तत्पाठे दिगन्तरप्रयुक्तं वैकल्पं नास्तीत्याह — ‘ अथो यदेतदुक्त्वा यतः कुतश्चाऽऽहरति। तत्प्राच्या एव दिशो भवति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
दे॒वेभ्यो॒ जुष्ट॑मि॒ह
विश्वास-प्रस्तुतिः
“दे॒वेभ्यो॒ जुष्ट॑म् इ॒ह ब॒र्हिर् आ॒सद॒” इत्य् आ॑ह
ब॒र्हिष॒स् समृ॑द्ध्यै॒ कर्म॒णोऽन॑पराधाय ।
मूलम्
दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सद॒ इत्या॑ह । ब॒र्हिष॒स्समृ॑द्ध्यै । कर्म॒णोऽन॑पराधाय ।
भट्टभास्कर-टीका
6देवेभ्योजुष्टमिति वेद्याः प्रत्यवेक्षणम् ॥ तत्र देवेभ्यो जुष्टं प्रियमस्यां वेद्यां आसादनीयं चेति वचनं बर्हिषस्समृद्ध्यै सम्यक्फलसाधनभावाय भवति । तच्च कर्मणोऽनपराधाय अवैकल्याय भवति । तादृशबर्हिरर्थान् दर्भानाहर्तुं इयं अश्वपर्शुः प्राची गच्छतीति भाव इति दर्शितं भवति ॥
सायण-टीका
चतुर्थभाग आसद इत्यस्य तात्पर्यमाह — ‘देवेभ्यो जुष्टमिह बर्हिरासद इत्याह। बर्हिषः समृद्ध्यै। कर्मणोऽनपराधाय’ [ब्रा॰ का॰ ३ प्र॰ २ अ॰ २] इति। आसादयितव्यमित्युक्ते यावद्वेद्यास्तरणस्य युक्तं पर्याप्तं तावतः सूचितत्वादेतत्पदोच्चारणं समृद्ध्यै संपद्यते। ततो न्यूनत्वलक्षणः कर्मणोऽपराधो न भविष्यति।
दे॒वाना॑म् परिषू॒तम्
विश्वास-प्रस्तुतिः
“दे॒वाना॑म् परिषू॒तम् अ॒सी"त्या॑ह ॥9॥
यद् वा इ॒दङ् किञ् च॒
तद् दे॒वाना॑म् परिषू॒तम् ।
मूलम्
दे॒वाना॑म्परिषू॒तम॒सीत्या॑ह ॥9॥
यद्वा इ॒दङ्किञ्च॑ ।
तद्दे॒वाना॑म्परिषू॒तम् ।
भट्टभास्कर-टीका
7देवानामिति प्रस्तरार्थदर्भपरिग्रहः ॥ यन्नाम किंचित् दृश्यते तत्सर्वं देवानां परिषूतं देवतार्थमेव प्रागेव परिगृहीतम् । योपि ‘देवार्थं परिषूतं परिगृहीतमसि, नात्मार्थं वृथा परिषूयसे’ इति अध्वर्युराह तदात्मन अहिंसार्थम् ।
सायण-टीका
परिगृहीतस्य सर्वस्य देवार्थत्वं न त्वेकदेशस्येत्येवं मन्त्राभिप्रायं दर्शयति — ‘देवानां परिषूतमसीत्याह। यद्वा इदं किंच। तद्देवानां परिषूतम्’ [ब्रा॰ का॰ ३ प्र॰ २ अ॰ २] इति।
विश्वास-प्रस्तुतिः
अथो॒ यथा॒ वस्य॑से+++(=वरीयसे)+++ प्रति॒प्रोच्याह॑ “+इ॒दङ् क॑रिष्या॒मी"त्य्
ए॒वम् ए॒व तद् अ॑ध्व॒र्युर्
दे॒वेभ्य॑ᳶ प्रति॒प्रोच्य॑
ब॒र्हिर् दा॑त्य् -
+++(अपराधाभावेन)+++ आ॒त्मनो ऽहिँ॑सायै ।+++(5)+++
मूलम्
अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दङ्क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्य॑ᳶ प्रति॒प्रोच्य॑ ब॒र्हिर्दा॑ति । आ॒त्मनोऽहिँ॑सायै ।
भट्टभास्कर-टीका
अथो अपिच यथा खलु लोके कश्चित् स्वाभिमतं कूर्वन्
वस्यसे प्रशस्ततराय पुरुषाय प्रतिप्रोच्य प्रार्थितं प्रकटीकृत्य ‘अत्र भवत इदं करिष्यामि नात्मार्थम्’ इति वसीयांसं प्रत्यर्थितया व्यपदिशन् स्वाभिमतं करोति एवमेवाध्वर्युर्देवेभ्यः प्रतिप्रोच्य स्वाभिमतं बर्हिदाति लुनाति आत्मनो लवनापराधनिवृत्तये, तच्चाहिंसायै ॥
सायण-टीका
अपि च यथा लोके कश्चिद् भृत्यो राजनियोगाद्ग्रामेषु गत्वा बलाद्गृह्यमाणं दधिक्षीरादिद्रव्यं वसुमत्तमाय राज्ञे न तु मदर्थमिति प्राजनामग्रे प्रतिप्रोच्य निर्भयः सर्वथेदं हरिष्यामीति ब्रूते तद्वदिदमित्यमिप्रायान्तरमाह- ‘अथो यथा वस्यसे प्रतिप्रोच्याऽऽहेदं करिष्यामीति। एवमेव तदध्वर्युर्देवेभ्यः प्रतिप्रोच्य बर्हिर्दाति। आत्मनोऽहिँसायै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
स्तम्ब-परिदेशः
विश्वास-प्रस्तुतिः
याव॑तस् स्त॒म्बान् प॑रिदि॒शेद्
यत् तेषा॑म् उच्छिँ॒ष्याद् +++(“विष्णो॒स्स्तूपो॑ऽसि” इति विसृजेत्)+++
अति॒ तद् य॒ज्ञस्य॑ रेचयेत् ।
मूलम्
याव॑तस्स्त॒म्बान्प॑रिदि॒शेत् । यत्तेषा॑मुच्छिँ॒ष्यात् । अति॒ तद्य॒ज्ञस्य॑ रेचयेत् ।
भट्टभास्कर-टीका
8यावत इति ॥ परिदेशनं परिषवणं,
बर्हिस् स्तम्बपरिग्रहे तेषां मध्ये किंचिद् यद् उच्छिंष्यात् ‘विष्णो॒स् स्तूपो॑ऽसि’ इत्युत्सृजेत् । अतः तत् यज्ञस्य अतिरेचयेत् तस्य स्तम्बस्य यज्ञसम्बन्धं निवर्तयेत् । अयुक्तं च परिषूतस्य अतिरिक्तत्वम्, तस्मादयं पक्षो दृष्टः ।
विश्वास-प्रस्तुतिः
+++(उच्छेद-वारणाय)+++
एकँ॑ स्त॒म्बम् परि॑दिशे॒त्
तँ सर्व॑न् दायाद् - य॒ज्ञस्यान॑तिरेकाय ।
मूलम्
एकँ॑ स्त॒म्बम्परि॑दिशेत् ।
तँ सर्व॑न् दायात् ॥10॥
य॒ज्ञस्यान॑तिरेकाय ।
भट्टभास्कर-टीका
कथं तर्हि कर्तव्यमित्याह - एकमिति ।
एक-स्तम्ब-परिग्रहे उत्स्रष्टव्याभावात्
तस्य च सर्वस्य किंचिद् अप्य् अनुच्छेष्यत्व-वचनान् नातिरेकदोषः ॥
सायण-टीका
स्तम्बस्य स्वीकार्यस्यैकत्वं कृत्स्नलवनं च विधत्ते — ‘यावतः स्तम्बान्परिदिशेत्। यत्तेषामुच्छिँष्यात्। अति तद्यज्ञस्य रेचयेत्। एकँस्तम्बं परिदिशेत। तँ सर्वं दायात्। यज्ञस्यानतिरेकाय’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
व॒र्षवृ॑द्धम्
विश्वास-प्रस्तुतिः
“व॒र्षवृ॑द्धम् अ॒सी"त्या॑ह ।
व॒र्षवृ॑द्धा॒ वा ओष॑धयः ।
मूलम्
“व॒र्षवृ॑द्धम॒सी"त्या॑ह ।
व॒र्षवृ॑द्धा॒ वा ओष॑धयः ।
भट्टभास्कर-टीका
9वर्षवृद्धमसीति स्तम्बोन्मार्जनम् ॥ वर्षवृद्धा इति वर्षेण वर्धिता इति । कर्मणि निष्ठायां ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
सायण-टीका
यज्ञस्य संबन्धि यद्द्रव्यं तस्य यज्ञाद्बहिर्भावेऽतिरेकः स त्वयुक्तः। अकृष्टपच्यानां दर्भदीनां तटाकाद्युदकमनपेक्ष्य वर्षेण वृद्धिः प्रसिद्धेत्याह। वर्षवृद्धा वा ओषधयः’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति॥
छेदनम्
विश्वास-प्रस्तुतिः
“देव॑-बर्हि॒"र् इत्य् आ॑ह ।
दे॒वेभ्य॑ ए॒वैन॑त्करोति ।
मूलम्
“देव॑बर्हि॒"रित्या॑ह ।
दे॒वेभ्य॑ ए॒वैन॑त्करोति ।
भट्टभास्कर-टीका
10देवबर्हिरिति असिदादिना बर्हिषस्संश्लेषणम् ॥ देवपदविशेषणेन देवार्थं बर्हिः करोति ।
सायण-टीका
बर्हिषो देवसंबन्धस्तादर्थ्यरूप इत्यभिप्रायमाह — ‘देवबर्हिरित्याह। देवेभ्य एवैनत्करोति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“मा त्वा॒ऽन्वङ् मा ति॒र्यग् इत्या॒हा"हिँ॑सायै ।
मूलम्
“मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हा"हिँ॑सायै ।
भट्टभास्कर-टीका
अहिंसाया इति । हिंसा हेतुमन्वक्छेदादिं न करोमीति वचनात्, बर्हिषोऽहिंसायै भवति ।
सायण-टीका
निषेधो दोषपरिहारायेत्याह — ‘मा त्वाऽन्वङ्मा तिर्यगित्याहाहिँसायै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“पर्व॑ ते राध्यास॒म्” इत्य् आ॒ह र्ध्यै॑ ।
मूलम्
“पर्व॑ ते राध्यास॒"मित्या॒हर्ध्यै॑ ।
भट्टभास्कर-टीका
पर्वणो राद्धिवचनं च बर्हिष ऋद्ध्यै भवति ॥
सायण-टीका
पुनःप्ररोहसमृद्ध्यर्थं पर्वसादनमित्याह — ‘पर्व ते साध्यासमित्याहर्द्ध्यै” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“आ॒च्छे॒त्ता ते॒ मा रि॑ष॒म्” इत्य् आ॑ह॒
नास्या॒त्मनो॑ मीयते॒+++(=हिंस्यते)+++ य ए॒वव्ँ वेद॑ ॥11॥
मूलम्
आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह ।
नास्या॒त्मनो॑ मीयते ।
य ए॒वव्ँ वेद॑ ॥11॥
भट्टभास्कर-टीका
11आच्छेत्तेत्याच्छेदनम् ॥ एतद्वचनप्रभावाद्योप्येवं वेद, न परं बर्हिरित्येव अस्यापि वेदितुरपि आत्मनस्संबन्धि किंचिदपि न मीयते न हिंस्यते । ‘मिञ् हिंसायाम्’ । अस्यैवंवक्तुस्सबन्धि किंचिदपि न मीयते, अथ य एवं वेद तस्यापीति शेषः ॥
सायण-टीका
अत्र मा रिषमित्येषं मन्त्रं पठतस्तदर्थाभिज्ञस्य च स्वकीयं किमपि न विनश्यतीत्याह — “आच्छेत्ता ते मा रिषमित्याह। नास्याऽऽत्मनो मीयते। य एवं वेद” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“देव॑बर्हिश् श॒त-व॑ल्शव्ँ॒ विरो॒हे"त्य् आ॑ह ,
प्र॒जा वै ब॒र्हिः ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
मूलम्
देव॑बर्हिश्श॒तव॑ल्शव्ँ॒विरो॒हेत्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जाना॑म्प्र॒जन॑नाय ।
भट्टभास्कर-टीका
12देवबर्हिरित्याच्छिन्नाभिमर्शनम् ॥ तत्र प्रजासाधनस्य बर्हिषो विरोहणं प्रजानामेव प्रजननाय भवति । न दर्भप्ररोहणमात्रमिदमाशास्यत इति मन्तव्यमिति भावः ॥
सायण-टीका
बर्हिषः पुत्रादिवदुपकारकत्वात्तत्प्ररोहार्थं यत्नः पुत्रोत्पत्त्यै भवतीति व्याचष्टे — ‘देवबर्हिः शतवल्शं विरोहेत्याह। प्रजा वै बर्हिः। प्रजानां प्रजननाय’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मे"त्य् आ॑ह । आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।
मूलम्
“स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मे"त्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ।
भट्टभास्कर-टीका
13सहस्रवल्शा इत्यात्मप्रत्यभिमर्शनम् ॥ एतामात्मविरोहणविषयामेवाशिषं आशास्ते नातःपरमाशासनीयमिति भावः ॥
सायण-टीका
मन्त्रस्याऽऽशीःपरत्वं स्पष्टमित्याह — ‘सहस्रवल्शा वि वयँ रुहेमेत्याह। आशिषमेवैतामाशास्ते’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
प्रस्तरनिधानम्
विश्वास-प्रस्तुतिः
“पृ॒थि॒व्यास् स॒म्पृच॑ᳶ पा॒ही"त्य् आ॑ह॒ प्रति॑ष्ठित्यै ।
मूलम्
“पृ॒थि॒व्यास्स॒म्पृच॑ᳶ पा॒ही"त्या॑ह॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
14पृथिव्या इति प्रस्तरनिधानम् ॥ आत्मनः पृथिवीसंपृक्तवचनं यजमानस्य प्रतिष्ठित्यै भवति ॥
सायण-टीका
द्रव्यान्तरस्योपरि स्थापने प्रयोजनमाह — ‘पृथिव्याः संपृचः पाहीत्याह प्रतिष्ठित्यै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। यदि लूनमिमं दर्भं पृथिव्यां निदध्यात्तदानीमुच्छिष्टादिस्पर्शेन त्याज्यत्वे सति दर्भोऽप्रतिष्ठितः स्यात्।
विश्वास-प्रस्तुतिः
अयु॑ङ्गायुङ्गान्+++(=अयुग्मान् अयुग्मान्)+++ मु॒ष्टील्ँ लु॑नोति
मिथुन॒त्वाय॒ प्रजा॑त्यै ।
मूलम्
अयु॑ङ्गायुङ्गान्मु॒ष्टील्ँ लु॑नोति । मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
भट्टभास्कर-टीका
15अयुङ्गायुङ्गानिति ॥ अयुग्मान् अयुग्मान् नकारमकारयोः स्थानविनिमयः; पूर्वत्र द्वितीयायाः ‘सुपां सुलुक्’ इत्याकारः । ‘अनुदात्तं च’ इत्याम्रेडितस्य निघातः । निधनभेदनिबन्धना वीप्सा निधनानामप्ययुग्मत्वं बोधयति । अयुग्मत्वे हि मुष्टीनां प्रस्तरेण सह मिथुनत्वं युग्मता भवति । तच्च प्रजात्यै भवति ॥
सायण-टीका
पूर्वं प्रस्तराख्यस्य दर्भमुष्टेः समन्त्रकलवनं प्रपञ्चितम्। इदानीं मुष्ट्यन्तराणां मन्त्रमन्तरेणैव लवनं विधत्ते — ‘अयुङ्गायुङ्गान्मुष्टील्लुँनोति। मिथुनत्वाय प्रजात्यै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। अयुङ्गत्वं युग्मरूपसमसंख्याराहित्यम्।
बन्धनम्
विश्वास-प्रस्तुतिः
“सु॒स॒म्भृता॑ त्वा॒ सम्भ॑रा॒मी"त्या॑ह । ब्रह्म॑णै॒वैन॒त् सम्भ॑रति ॥12॥
मूलम्
“सु॒स॒म्भृता॑ त्वा॒ सम्भ॑रा॒मी"त्या॑ह । ब्रह्म॑णै॒वैन॒त्सम्भ॑रति ॥12॥
भट्टभास्कर-टीका
16सुसंभृतेति शुल्बे निधनसम्भरणम् ॥ ब्रह्मणैवेति । ब्रह्मणा हि सुष्ठु संभ्रियते ॥
सायण-टीका
ब्राह्मणं तु पाठक्रमेणैव व्याचष्टे — “सुसंभृता त्वा संभरामीत्याह। ब्रह्मणेवैनत्संभरति।
विश्वास-प्रस्तुतिः
“अदि॑त्यै॒ रास्ना॒ऽसी"त्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॒द् रास्ना॑ङ्+++(=रशनां)+++ करोति ।
मूलम्
“अदि॑त्यै॒ रास्ना॒ऽसी"त्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॒द्रास्ना॑ङ्करोति ।
भट्टभास्कर-टीका
17अदित्या इति शुल्बकरणम् ॥ सामर्थ्याच्च सम्भरणात्पूर्वमिदं द्रष्टव्यम् । अस्याः पृथिव्याः एनत् शुल्बं रास्नां रशनां करोति ॥
सायण-टीका
अदित्यै रास्नाऽऽसीत्याह। इयं वा अदितिः। अस्या एवैनद्रास्नां करोति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। दर्भमयत्वेन प्रशस्तत्वाद्रज्जोर्ब्रह्मत्वम्। एनद्दर्भजातम्। एनदेनां रशनाम्।
विश्वास-प्रस्तुतिः
“इ॒न्द्रा॒ण्यै स॒न्नह॑न॒म्” इत्य् आ॑ह ।
इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑नाँ॒ सम॑नह्यत ।
साऽऽर्ध्नो॑त् ।
ऋद्ध्यै॒ सन्न॑ह्यति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जाना॒म् अप॑रावापाय ।
तस्मा॒त् स्नाव॑+++(=स्नायु)+++-सन्तताᳶ प्र॒जा जा॑यन्ते ॥13॥+++(4)+++
मूलम्
“इ॒न्द्रा॒ण्यै स॒न्नह॑न॒"मित्या॑ह ।
इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑नाँ॒ सम॑नह्यत ।
साऽऽर्ध्नो॑त् ।
ऋद्ध्यै॒ सन्न॑ह्यति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जाना॒मप॑रावापाय ।
तस्मा॒त्स्नाव॑सन्तताᳶ प्र॒जा जा॑यन्ते ॥13॥
भट्टभास्कर-टीका
18इन्द्राण्यां इति सन्नहनम् ॥ इन्द्रस्य पत्नी इन्द्राणी ‘इन्द्रवरुण’ इति ङीषानुकौ ॥
सायण-टीका
तस्येन्द्राणीप्रियत्वं विशदयति — ‘इन्द्राण्यै संनहनमित्याह। इन्द्राणी वा अग्रं देवतानाँ समनह्यत। साऽऽर्घ्नोत् ऋद्ध्यै संनह्यति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। येयमिदानीमिन्द्राणीन्द्रपत्नी देवतानां मध्ये श्रेष्ठा वर्तते सा पूर्वस्मिञ्जन्मनि शतसंख्याकान्क्रतूननुतिष्ठाता यजमानेन तत्तत्क्रतौ योक्त्रेण बद्धाऽभूत्तद्बन्धनसामर्थ्यादिन्द्राणीत्वरूपां समृद्धिं प्राप्तवती। तस्मात्समृद्ध्यर्थमेवाध्वर्युर्दर्भैः संनह्येत्। किंच बर्हिषः प्रजारूपत्वादिदं संनहनं प्रजानामपरावापाय भवति। तस्मादब्रह्मसृष्टावपि प्रजा धमनीभिर्व्याप्ता जायन्त इत्याह — ‘प्रजा वै बर्हिः। प्रजानामपरावापाय। तस्मात्स्तावसंतताः प्रजा जायन्ते’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“पू॒षा ते॑ ग्र॒न्थिङ् ग्र॑थ्ना॒त्व् इ"त्य् आ॑ह ।
पुष्टि॑म् ए॒व यज॑माने दधाति ।
मूलम्
“पू॒षा ते॑ ग्र॒न्थिङ्ग्र॑थ्ना॒त्वि"त्या॑ह ।
पुष्टि॑मे॒व यज॑माने दधाति ।
भट्टभास्कर-टीका
19पूषेति ग्रन्थिकरणम् ॥ पूष्णः पोषयितुः सङ्कीर्तनाद्यजमाने पुष्टिं ददाति ॥
सायण-टीका
देवताविवक्षायां पूषशब्दस्यैव प्रयोगेऽभिप्रायमाह — ‘पूषा ते ग्रन्थिं ग्रथ्नात्वित्याह। पुष्टिमेव यजमाने दधाति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“स ते॒ मा ऽस्था॒द्” इत्य् आ॒हाहिँ॑सायै ।
+++(तद् उक्त्वा)+++ प॒श्चात् प्राञ्च॒म् उप॑गूहति ।
मूलम्
“स ते॒ मास्था॒दि"त्या॒हाहिँ॑सायै ।
प॒श्चात्प्राञ्च॒मुप॑गूहति ।
भट्टभास्कर-टीका
20स ते इति शुल्बान्तोपगूहनम् ॥ अन्यत्रास्थानस्य ग्रन्थिकरणस्य निषेधात् प्रजानामहिंसायै भवति ॥
सायण-टीका
दर्भोपद्रवपरिहाररूपनिषेधफलमाह — ‘स ते माऽऽस्थादित्याहाहिँसायै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
प॒श्चाद् वै प्रा॒चीनँ॒ रेतो॑ धीयते ।
प॒श्चाद् ए॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति ।
मूलम्
प॒श्चाद्वै प्रा॒चीनँ॒ रेतो॑ धीयते ।
प॒श्चादे॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति ।
भट्टभास्कर-टीका
21पश्चादिति परत आकृष्य प्राञ्चं ग्रन्थिम् उपगूहति ॥
पश्चाद् भागात् प्राचीनं प्राग्-देशाञ्चितं रेतस्-सिच्यते
तथैव कृतं भवति ॥
सायण-टीका
गूहनं विधत्ते — ‘पश्चात्प्राञ्चामुपगूहति। पश्चाद्वैप्राचीनँ रेतो धीयते। पश्चादेवास्मै प्राचीनँ रेतो दधाति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति। तं ग्रन्थिशेषं रज्जोरग्रतो द्विगुणीकृत्य रज्जुवेष्टन स्थानात्पश्चादाकृष्य यथा प्रागग्रं भवति तथोपगूहेत्। पुरषोऽपि पश्चादवस्थाय प्राचीनँ रेतः सिञ्चति। तस्मादीदृशं गूहनमपत्यार्थियजमानार्थं रेतःसिञ्चनरूपेण पर्यवस्यति।
उन्नयनादि
विश्वास-प्रस्तुतिः
“इन्द्र॑स्य त्वा बा॒हुभ्या॒म् उद्य॑च्छ॒” इत्या॑ह ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।
मूलम्
“इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒” इत्या॑ह ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
भट्टभास्कर-टीका
22इन्द्रस्येत्युद्यमनम् ॥ इन्द्रसंकीर्तनात् इन्द्रदत्तं वीर्यं यजमाने दधाति ॥
सायण-टीका
इन्द्रशब्दप्रयोगेणेन्द्रदत्तस्य सामर्थ्यस्य सिद्धिं दर्शयति – ‘इन्द्रस्य त्वा बाहुभ्यामुद्याच्छ इत्याह। इन्द्रियमेव यजमाने दधाति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
विश्वास-प्रस्तुतिः
“बृह॒स्पते॑र् मू॒र्ध्ना ह॑रा॒मी"त्य् आ॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्-पतिः॑ ॥14॥
ब्रह्म॑णै॒वैन॑द् +धरति ।
मूलम्
“बृह॒स्पते॑र्मू॒र्ध्ना ह॑रा॒मी"त्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ॥14॥
ब्रह्म॑णै॒वैन॑द्धरति ।
भट्टभास्कर-टीका
23बृहस्पतेरिति शीर्ष्णि निधानम् ॥
सायण-टीका
प्राशस्त्याद्ब्रह्मत्वेन बृहस्पतिं स्तौति – ‘बृहस्पतेर्मूर्ध्ना हरामीत्याह। ब्रह्म वै देवानां बृहस्पतिः। ब्रह्मणैवैनद्धरति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
उ॒र्व॑न्तरि॑क्ष॒म् ...{Loading}...
विश्वास-प्रस्तुतिः
“उ॒र्व॑न्तरि॑क्ष॒म् अन्वि॒ही"त्या॑ह॒ गत्यै॑ ।
मूलम्
“उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ही"त्या॑ह॒ गत्यै॑ ।
भट्टभास्कर-टीका
24उर्विति प्रत्यागच्छति ॥ तत्र अन्तरिक्षस्य उरुत्वाभिधानं गत्यै अविहतायै भवति ॥
सायण-टीका
व्याचष्टे — ‘उर्वन्तरिक्षमन्विहीत्याह गत्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।
विश्वास-प्रस्तुतिः
“दे॒व॒ङ्-ग॒मम् अ॒सी"त्य् आ॑ह ।
दे॒वान् ए॒वैन॑द् गमयति ।
मूलम्
“दे॒व॒ङ्ग॒मम॒सी"त्या॑ह ।
दे॒वाने॒वैन॑द्गमयति ।
भट्टभास्कर-टीका
25देवंगममित्युपरिसादनम् ॥
सायण-टीका
असीत्यस्याभिप्रायमाह — ‘देवंगममसीत्याह। देवानेवैनद्गमयति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ २) इति।
अनधस् सादनम्
अनधस् सादनम् ...{Loading}...
विश्वास-प्रस्तुतिः
अन॑धस् सादयति॒ -
गर्भा॑णा॒न् धृत्या॒ अप्र॑पादाय+++(=अप्रच्युतये)+++ ।
तस्मा॒द् गर्भा॑ᳶ प्र॒जाना॒म् अप्र॑पादुकाः ।
मूलम्
अन॑धस्सादयति ।
गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः ।
भट्टभास्कर-टीका
14अनध इति ॥ कस्मिंश्चिद् आधारे सादयति, गर्भाणां धारणाय,
तदपि अप्रपादाय अप्रच्युतये ।
सायण-टीका
शाखाबर्हिषोरिव सांनाय्येऽपि विधत्ते — ‘अनधः सादयति। गर्भाणां धृत्या अप्रपादाय। तस्माद्गर्भाः प्रजानामप्रपादुकाः।
विश्वास-प्रस्तुतिः
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥
मूलम्
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥
भट्टभास्कर-टीका
उपरीवेति । ऊर्ध्वायामेव दिशि । इवशब्दोऽवधारणे । उपरितनत्वसामान्यात् तच्छब्दस्य । स्वर्गस्य समष्टयै सम्यक् प्राप्त्यै भवति तस्या उपरिसादनम् ॥
इति तैत्तिरीयब्राह्मणे तृतीये द्वितीये प्रथमोऽनुवाकः ॥
सायण-टीका
उपरीव निदधाति। उपरीव हि सुवर्गो लोकः। सुवर्गस्य लोकस्य समष्ट्यै’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
भट्टभास्कर-टीका
26अनघ इत्यादि व्याख्यातम् ॥
इति तैत्तिरीयब्राह्मणे तृतीये द्वितीये द्वितीयोऽनुऽवाकः ॥