चन्द्रमाः
विश्वास-प्रस्तुतिः
च॒न्द्रमा॒ वा अ॑कामयत -
“अ॒होरा॒त्रान् अ॑र्धमा॒सान् मासा॑न्
ऋ॒तून्त् सव्ँ॑वत्स॒रम् आ॒प्त्वा
च॒न्द्रम॑स॒स् सायु॑ज्यँ सलो॒कता॑म् आप्नुया॒म्” इति॑ ।
स ए॒तञ् च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाश॒म् पञ्च॑दश-कपाल॒न् निर॑वपत् ।
ततो॒ वै सो॑ ऽहोरा॒त्रान् अ॑र्धमा॒सान् मासा॑न् ऋ॒तून्त् सव्ँ॑वत्स॒रम् आ॒प्त्वा
च॒न्द्रम॑स॒स् सायु॑ज्यँ
सलो॒कता॑म् आप्नोत् ।
अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्धमा॒सान् मासा॑न् ऋ॒तून्त् सव्ँ॑वत्स॒रम् आ॒प्त्वा
च॒न्द्रम॑स॒स् सायु॑ज्यँ सलो॒कता॑म् आप्नोति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति …
मूलम्
च॒न्द्रमा॒ वा अ॑कामयत ।
अ॒होरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा ।
च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नुया॒मिति॑ ।
स ए॒तञ्च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाश॒म्पञ्च॑दशकपाल॒न्निर॑वपत् ।
ततो॒ वै सो॑ऽहोरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा ।
च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नोत् ।
अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा ।
च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
1चन्द्रमा वा इति ॥ सायुज्यं समानयोगता । सालोक्यं समानलोकता । प्रतीदृश्या तिथिः प्रतिदिनं चन्द्रमसो गत्या पृथक्त्वेन दृश्यमानत्वात् ॥
विश्वास-प्रस्तुतिः
“च॒न्द्रम॑से॒ स्वाहा॑ प्रती॒दृश्या॑यै॒ स्वाहा॑ ।
अ॒हो॒रा॒त्रेभ्य॒स् स्वाहा॑ ऽर्धमा॒सेभ्य॒स् स्वाहा॑ ।
मासे॑भ्य॒स् स्वाह॒र्तुभ्य॒स् स्वाहा॑ । सव्ँ॒व॒त्स॒राय॒ स्वाहे"ति॑ ॥57॥
मूलम्
“च॒न्द्रम॑से॒ स्वाहा॑ प्रती॒दृश्या॑यै॒ स्वाहा॑ ।अ॒हो॒रा॒त्रेभ्य॒स्स्वाहा॑ऽर्धमा॒सेभ्य॒स्स्वाहा॑ । मासे॑भ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा॑ । सव्ँ॒व॒त्स॒राय॒ स्वाहे"ति॑ ॥57॥
अहोरात्रे
विश्वास-प्रस्तुतिः
अ॒हो॒रा॒त्रे वा अ॑कामयेता॒म् -
“अत्य॑होरा॒त्रे मु॑च्येवहि॒ ,
न ना॑वहोरा॒त्रे आ॑प्नुयाता॒म्” इति॑ ।
ते ए॒तम् अ॑होरा॒त्राभ्या॑ञ् च॒रुन् निर॑वपताम्
द्व॒यानाव्ँ॑ व्रीँही॒णाम् शु॒क्लाना॑ञ्च कृ॒ष्णाना॑ञ्च,
सवा॒त्योर्+++(=मृतवत्सयोर्)+++ दु॒ग्धे श्वे॒तायै॑ च कृ॒ष्णायै॑ च ।
ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते ।
नैने॑ अहोरा॒त्रे आ॑प्नुताम् ।
अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते॒,
नैन॑म् अहोरा॒त्रे आ॑प्नुतो॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति …
मूलम्
अ॒हो॒रा॒त्रे वा अ॑कामयेताम् ।
अत्य॑होरा॒त्रे मु॑च्येवहि ।
न ना॑वहोरा॒त्रे आ॑प्नुयाता॒मिति॑ ।
ते ए॒तम॑होरा॒त्राभ्या॑ञ्च॒रुन्निर॑वपताम् ।
द्व॒याना॑व्व्रीँही॒णाम् ।
शु॒क्लाना॑ञ्च कृ॒ष्णाना॑ञ्च ।
स॒वा॒त्योर्दु॒ग्धे ।
श्वे॒तायै॑ च कृ॒ष्णायै॑ च ।
ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते ।
नैने॑ अहोरा॒त्रे आ॑प्नुताम् ।
अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते ।
नैन॑महोरा॒त्रे आ॑प्नुतः ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
2अहोरात्रे इति ॥ अतिक्रम्य मुच्येवहि अहोरात्रनिबन्धनदुःखसंस्पर्शात् । न च पुनरहोरात्रे आवामाप्तुताम् ।
विश्वास-प्रस्तुतिः
“अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा॑ ।
अति॑मुक्त्यै॒ स्वाहे"ति॑ ॥58॥
मूलम्
स॒वा॒त्योर्दु॒ग्धे श्वे॒तायै॑ च कृ॒ष्णायै॑ च ।
ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते ।
नैने॑ अहोरा॒त्रे आ॑प्नुताम् ।
अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते ।
नैन॑महोरा॒त्रे आ॑प्नुतः ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते य उ॑ चैनदे॒वव्ँ वेद॒ सोऽत्र॑ जुहोति । “अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा॑ ।अति॑मुक्त्यै॒ स्वाहे"ति॑ ॥58॥
भट्टभास्कर-टीका
सवात्योः गवोः दुग्धे । वत्सान्तरदोह्या मृतवत्सा, तदीया च माता सवात्यौ ; समानमकं वत्सं वात इति कृत्वा ॥
उषाः
विश्वास-प्रस्तुतिः
उ॒षा वा अ॑कामयत -
“प्रि॒या ऽऽदि॒त्यस्य॑ सु॒भगा॑ स्या॒म्” इति॑ ।
सैतम् उ॒षसे॑ च॒रुन् निर॑वपत् ।
ततो॒ वै सा प्रि॒या ऽऽदि॒त्यस्य॑ सु॒भगा॑ ऽभवत् ।
प्रि॒यो ह॒ वै स॑मा॒नानाँ॑ सु॒भगो॑ भवति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒,
सो ऽत्र॑ जुहोति …
मूलम्
उ॒षा वा अ॑कामयत ।
प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ स्या॒मिति॑ ।
सैतमु॒षसे॑ च॒रुन्निर॑वपत् ।
ततो॒ वै सा प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ऽभवत् ।
प्रि॒यो ह॒ वै स॑मा॒नानाँ॑ सु॒भगो॑ भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
3व्युष्टिः, व्यूषुषी, व्युच्छन्ती, व्युष्टा इति उषसोऽवस्थाविशेषाख्या एताः ॥
विश्वास-प्रस्तुतिः
“उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा॑ । व्यू॒षुष्यै॒ स्वाहा॑ व्यु॒च्छन्त्यै॒ स्वाहा॑ । व्यु॑ष्टायै॒ स्वाहे"ति॑ ॥59॥
मूलम्
“उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा॑ । व्यू॒षुष्यै॒ स्वाहा॑ व्यु॒च्छन्त्यै॒ स्वाहा॑ । व्यु॑ष्टायै॒ स्वाहे"ति॑ ॥59॥
नक्षत्रम्
विश्वास-प्रस्तुतिः
अथै॒तस्मै॒ नक्ष॑त्राय च॒रुन् निर्व॑पति॒ -
“यथा॒ त्वन् दे॒वाना॒म् अस्य्
ए॒वम् अ॒हम् म॑नु॒ष्या॑णाम् भूयास॒म्” इति॑ ।
यथा॑ ह॒ वा ए॒तद् दे॒वाना॑म्
ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम् भवति॒,
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति …
मूलम्
अथै॒तस्मै॒ नक्ष॑त्राय च॒रुनिर्व॑पति ।
यथा॒ त्वन्दे॒वाना॒मसि॑ ।
ए॒वम॒हम्म॑नु॒ष्या॑णाम्भूयास॒मिति॑ ।
यथा॑ ह॒ वा ए॒तद्दे॒वाना॑म् ।
ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
विश्वास-प्रस्तुतिः
“नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा॑ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा॑ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा॑ ।
तप॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहे"ति॑ ॥60॥
मूलम्
“नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा॑ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा॑ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा॑ ।
तप॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहे"ति॑ ॥60॥
भट्टभास्कर-टीका
4उदेष्यते उद्यते उदितायेति नक्षत्रावस्थाविशेषाख्याः ।
हरः हरणसामर्थ्यं, भरः भरणशक्तिः, भ्राजः दीप्तिः, तेजः प्रकाशः, तप ऐश्वर्यं, ब्रह्मवर्चसं ब्राह्मणबलम् ॥
सूर्यः
विश्वास-प्रस्तुतिः
सूर्यो॒ वा अ॑कामयत॒ -
“नक्ष॑त्राणाम् प्रति॒ष्ठा स्या॒म्” इति॑ ।
स ए॒तँ सूर्या॑य॒ नक्ष॑त्रेभ्यश् च॒रुन् निर॑वपत् ।
ततो॒ वै स नक्ष॑त्राणाम् प्रति॒ष्ठा ऽभ॑वत् ।
प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नाना॑म् भवति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति …
मूलम्
सूर्यो॒ वा अ॑कामयत ।
नक्ष॑त्राणाम्प्रति॒ष्ठा स्या॒मिति॑ ।
स ए॒तँ सूर्या॑य॒ नक्ष॑त्रेभ्यश्च॒रुन्निर॑वपत् ।
ततो॒ वै स नक्ष॑त्राणाम्प्रति॒ष्ठाऽभ॑वत् ।
प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नाना॑म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
विश्वास-प्रस्तुतिः
“सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒स् स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहे"ति॑ ॥61॥
मूलम्
“सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒स्स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहे"ति॑ ॥61॥
अदितिः
विश्वास-प्रस्तुतिः
अथै॒तम् अदि॑त्यै च॒रुन् निर्व॑पति ।
इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठति ।
सोऽत्र॑ जुहोत्य् …
मूलम्
अथै॒तमदि॑त्यै च॒रुन्निर्व॑पति ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
5-7सूर्यो नक्षत्राणां प्रतिष्ठा प्रतितिष्ठत्यस्यामिति प्रतिष्ठा ॥
इति तैत्तिरीयब्राह्मणे तृतीये प्रथमे षष्ठोऽनुवाकः ॥ प्रथमप्रश्नः समाप्तः ॥
विश्वास-प्रस्तुतिः
“अदि॑त्यै॒ स्वाहा॑ प्रति॒ष्ठायै॒ स्वाहे"ति॑ ॥62॥
मूलम्
“अदि॑त्यै॒ स्वाहा॑ प्रति॒ष्ठायै॒ स्वाहे"ति॑ ॥62॥
विष्णुः
विश्वास-प्रस्तुतिः
अथै॒तव्ँ विष्ण॑वे च॒रुन्निर्व॑पति ।
य॒ज्ञो वै विष्णु॑र् य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑तिष्ठति ।
सोऽत्र॑ जुहोति ।
मूलम्
अथै॒तव्ँ विष्ण॑वे च॒रुन्निर्व॑पति ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑तिष्ठति ।
सोऽत्र॑ जुहोति ।
विश्वास-प्रस्तुतिः
“विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहे"ति॑ ॥63॥
मूलम्
“विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहे"ति॑ ॥63॥