५ यमनक्षत्रेष्टिब्राह्मणम्

अनूराधाः - मित्रः

विश्वास-प्रस्तुतिः

मि॒त्रो वा अ॑कामयत -
“मित्र॒-धेय॑म् ए॒षु लो॒केष्व् अ॒भिज॑येय॒म्” इति॑ ।
स ए॒तम् मि॒त्राया॑नूरा॒धेभ्य॑श् च॒रुन् निर॑वपत्
ततो॒ वै स मि॑त्र॒धेय॑म् ए॒षु लो॒केष्व् अ॒भ्य॑जयत्
मि॒त्र॒धेयँ॑ ह॒ वा ए॒षु लो॒केष्व् अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

मि॒त्रो वा अ॑कामयत ।
मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ ।

स ए॒तम्मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुन्निर॑वपत् ।
ततो॒ वै स मि॑त्र॒धेय॑मे॒षु लो॒केष्व॒भ्य॑जयत् ।
मि॒त्र॒धेयँ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

1मित्रो वा इति ॥ मित्र-धेयं मित्रत्वं सर्वस्य । मित्राय वा धातव्यं दातव्यं मित्रधेयम् ॥

विश्वास-प्रस्तुतिः

“मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्य॒स् स्वाहा॑ ।
मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥42॥

मूलम्

“मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा॑ । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥42॥

ज्येष्ठा - इन्द्रः

विश्वास-प्रस्तुतिः

इन्द्रो॒ वा अ॑कामयत॒ - “ज्यैष्ठ्य॑न् दे॒वाना॑म् अ॒भिज॑येय॒म्” इति॑ ।
स ए॒तम् इन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒म् एका॑दश-कपाल॒न् निर॑वपन् म॒हाव्री॑हीणाम् ।

ततो॒ वै स ज्यैष्ठ्य॑न् दे॒वाना॑म् अ॒भ्य॑जयत्
ज्यैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म् अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

इन्द्रो॒ वा अ॑कामयत ।
ज्यैष्ठ्य॑न्दे॒वाना॑म॒भिज॑येय॒मिति॑ ।

स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपन्म॒हाव्री॑हीणाम् ।

ततो॒ वै स ज्यैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयत् ।
ज्यैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

2महाव्रीहयः महाशालयः ॥

विश्वास-प्रस्तुतिः

“इन्द्रा॑य॒ स्वाहा॑ ज्ये॒ष्ठायै॒ स्वाहा॑ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥43॥

मूलम्

“इन्द्रा॑य॒ स्वाहा॑ ज्ये॒ष्ठायै॒ स्वाहा॑ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहे"ति॑ ॥43॥

मूलम् - निरृतिः

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र् वा अ॑कामयत॒ -
“मूल॑म् प्र॒जाव्ँ वि॑न्दे॒ये"ति॑
स ए॒तम् प्र॒जाप॑तये॒ मूला॑य च॒रुन् निर॑वपत्

ततो॒ वै स मूल॑म् प्र॒जाम् अ॑विन्दत
मूलँ॑ ह॒ वै प्र॒जाव्ँ वि॑न्दते॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒,
सोऽत्र॑ जुहोति

मूलम्

प्र॒जाप॑ति॒र्वा अ॑कामयत ।
मूल॑म्प्र॒जाव्ँवि॑न्दे॒येति॑ ।

स ए॒तम्प्र॒जाप॑तये॒ मूला॑य च॒रुन्निर॑वपत् ।
ततो॒ वै स मूल॑म्प्र॒जाम॑विन्दत ।
मूलँ॑ ह॒ वै प्र॒जाव्ँ वि॑न्दते ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

3मूलं प्रधानभूतम् ॥

विश्वास-प्रस्तुतिः

“प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा॑ । प्र॒जायै॒ स्वाहे"ति॑ ॥44॥

मूलम्

“प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा॑ । प्र॒जायै॒ स्वाहे"ति॑ ॥44॥

अषाढाः पूर्वाः - आपः

विश्वास-प्रस्तुतिः

आपो॒ वा अ॑कामयन्त - “समु॒द्रङ् काम॑म् अ॒भिज॑ये॒मे"ति॑
ता ए॒तम् अ॒द्भ्यो॑ ऽषा॒ढाभ्य॑श् च॒रुन् निर॑वपन्
ततो॒ वै तास् स॑मु॒द्रङ् काम॑म् अ॒भ्य॑जयन्
स॒मु॒द्रँ ह॒ वै काम॑म् अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

आपो॒ वा अ॑कामयन्त ।
स॒मु॒द्रङ्काम॑म॒भिज॑ये॒मेति॑ ।

ता ए॒तम॒द्भ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन् ।
ततो॒ वै तास्स॑मु॒द्रङ्काम॑म॒भ्य॑जयन् ।
स॒मु॒द्रँ ह॒ वै काम॑म॒भिज॑यति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

4समुद्रं कामं कामानां साधकमभिजयेमेति ॥

विश्वास-प्रस्तुतिः

“अ॒द्भ्यस् स्वाहा॑ ऽषा॒ढाभ्य॒स् स्वाहा॑ ।
स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा॑ ।
अ॒भिजि॑त्यै॒ स्वाहे"ति॑ ॥45॥

मूलम्

“अ॒द्भ्यस् स्वाहा॑ऽषा॒ढाभ्य॒स् स्वाहा॑ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा॑ । अ॒भिजि॑त्यै॒ स्वाहे"ति॑ ॥45॥

अषाढाः उत्तराः - विश्वे देवाः

विश्वास-प्रस्तुतिः

विश्वे॒ वै दे॒वा अ॑कामयन्त -अनपज॒य्यञ् ज॑ये॒मे"ति॑
त ए॒तव्ँ विश्वे॑भ्यो दे॒वेभ्यो॑ ऽषा॒ढाभ्य॑श् च॒रुन् निर॑वपन्

ततो॒ वै ते॑ ऽनपज॒य्यम् अ॑जयन्
अ॒न॒प॒ज॒य्यँ ह॒ वै ज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

विश्वे॒ वै दे॒वा अ॑कामयन्त ।
अ॒न॒प॒ज॒य्यञ्ज॑ये॒मेति॑ ।

त ए॒तव्ँ विश्वे॑भ्यो दे॒वेभ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन् ।
ततो॒ वै ते॑ऽनपज॒य्यम॑जयन् ।
अ॒न॒प॒ज॒य्यँ ह॒ वै ज॑यति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

विश्वास-प्रस्तुतिः

“विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑ ऽषा॒ढाभ्य॒स् स्वाहा॑ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहे"ति॑ ॥46॥

मूलम्

“विश्वे॑भ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा॑ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहे"ति॑ ॥46॥

अभिजित्

विश्वास-प्रस्तुतिः

ब्रह्म॒ वा अ॑कामयत - “ब्रह्म-लो॒कम् अ॒भिज॑येय॒म्” इति॑ ।
तद् ए॒तम् ब्रह्म॑णे ऽभि॒जिते॑ च॒रुन् निर॑वपत्
ततो॒ वै तद् ब्र॑ह्मलो॒कम् अ॒भ्य॑जयत्
ब्र॒ह्म॒लो॒कँ ह॒ वा अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

ब्रह्म॒ वा अ॑कामयत ।
ब्र॒ह्म॒लो॒कम॒भिज॑येय॒मिति॑ ।

तदे॒तम्ब्रह्म॑णेऽभि॒जिते॑ च॒रुन्निर॑वपत् ।
ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् ।
ब्र॒ह्म॒लो॒कँ ह॒ वा अ॒भिज॑यति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

5-6अनपजय्यं केनचिदप्यपजेतुमशक्यम् । “क्षय्यजय्यौ शक्यार्थे” इति निपात्यते । “ययतोः " इत्युत्तरपदान्तोदात्तत्वम् । क्रियाविशेषण चेदम् ॥

विश्वास-प्रस्तुतिः

“ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा॑ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥47॥

मूलम्

“ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा॑ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥47॥

श्रोणा / श्रवणम् - विष्णुः

विश्वास-प्रस्तुतिः

विष्णु॒र् वा अ॑कामयत॒ -
“पुण्यँ॒ श्लोकँ॑ शृण्वीय॒,
न मा॑ पा॒पी की॒र्तिर् आग॑च्छे॒द्” इति॑ ।
स ए॒तव्ँ विष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑न् त्रि-कपा॒लन् निर॑वपत्
ततो॒ वै स पुण्यँ॒ श्लोक॑म् अशृणुत
नैन॑म् पा॒पी की॒र्तिर् आग॑च्छत्

पुण्यँ॑ ह॒ वै श्लोकँ॑ शृणुते॒,
नैन॑म् पा॒पी की॒र्तिर् आग॑च्छति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

विष्णु॒र्वा अ॑कामयत ।
पुण्यँ॒ श्लोकँ॑ शृण्वीय ।
न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ ।

स ए॒तव्ँ विष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑न्त्रिकपा॒लन्निर॑वपत् ।
ततो॒ वै स पुण्यँ॒ श्लोक॑मशृणुत ।
नैन॑म्पा॒पी की॒र्तिराग॑च्छत् ।

पुण्यँ॑ ह॒ वै श्लोकँ॑ शृणुते ।
नैन॑म्पा॒पी की॒र्तिराग॑च्छति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

7पुण्यश्लोकः पावनशब्दः ॥

विश्वास-प्रस्तुतिः

“विष्ण॑वे॒ स्वाहा॑ श्रो॒णायै॒ स्वाहा॑ ।
श्लोका॑य॒ स्वाहा॑ श्रु॒ताय॒ स्वाहे"ति॑ ॥48॥

मूलम्

“विष्ण॑वे॒ स्वाहा॑ श्रो॒णायै॒ स्वाहा॑ । श्लोका॑य॒ स्वाहा॑ श्रु॒ताय॒ स्वाहे"ति॑ ॥48॥

धनिष्ठाः/ श्रविष्ठाः - वसवः

विश्वास-प्रस्तुतिः

वस॑वो॒ वा अ॑कामयन्त॒ -
“अग्र॑न् दे॒वता॑ना॒म् परी॑या॒मे"ति॑
त ए॒तव्ँ वसु॑भ्य॒श् श्रवि॑ष्ठाभ्यᳶ पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपन्

ततो॒ वै ते ऽग्र॑न् दे॒वता॑ना॒म् पर्या॑यन्
अग्रँ॑ ह॒ वै स॑मा॒नाना॒म् पर्ये॑ति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

वस॑वो॒ वा अ॑कामयन्त ।
अग्र॑न्दे॒वता॑ना॒म्परी॑या॒मेति॑ ।

त ए॒तव्ँवसु॑भ्य॒श्श्रवि॑ष्ठाभ्यᳶ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् ।
ततो॒ वै तेऽग्र॑न्दे॒वता॑ना॒म्पर्या॑यन् ।
अग्रँ॑ ह॒ वै स॑मा॒नाना॒म्पर्ये॑ति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
वसु॑भ्य॒स् स्वाहा॒ श्रवि॑ष्ठाभ्य॒स् स्वाहा॑ ।
अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहेति॑ ॥49॥

भट्टभास्कर-टीका

8अग्रं प्राधान्यम् ॥

विश्वास-प्रस्तुतिः

“वसु॑भ्य॒स् स्वाहा॒ श्रवि॑ष्ठाभ्य॒स् स्वाहा॑ ।
अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहे"ति॑ ॥49॥

मूलम्

“वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा॑ । अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहे"ति॑ ॥49॥

शतभिषग् - वरुणः

विश्वास-प्रस्तुतिः

इन्द्रो॒ वा अ॑कामयत -
“दृ॒ढो ऽशि॑थिलस् स्या॒म्” इति॑ ।
स ए॒तव्ँ वरु॑णाय श॒त-भि॑षजे भेष॒जेभ्य॑ᳶ पुरो॒डाश॒न् दश॑-कपाल॒न् निर॑वपत् कृ॒ष्णानाव्ँ॑ व्रीही॒णाम् ।
ततो॒ वै स दृ॒ढो ऽशि॑थिलो ऽभवत्
दृ॒ढो ह॒ वा अशि॑थिलो भवति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

इन्द्रो॒ वा अ॑कामयत ।
दृ॒ढोऽशि॑थिलस्स्या॒मिति॑ ।

स ए॒तव्ँवरु॑णाय श॒तभि॑षजे भेष॒जेभ्य॑ᳶ पुरो॒डाश॒न्दश॑कपाल॒न्निर॑वपत्कृ॒ष्णाना॑व्व्ँरीही॒णाम् ।
ततो॒ वै स दृ॒ढोऽशि॑थिलोऽभवत् ।
दृ॒ढो ह॒ वा अशि॑थिलो भवति ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

9-10दृढः चिरजीवनः अशिथिलः अशिथिलाङ्गः ॥

विश्वास-प्रस्तुतिः

“वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा॑ । भे॒ष॒जेभ्य॒स् स्वाहे"ति॑ ॥50॥

मूलम्

“वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा॑ । भे॒ष॒जेभ्य॒स् स्वाहे"ति॑ ॥50॥

प्रोष्ठपदाः/ भाद्रपदाः पूर्वाः - अज एकपात्

विश्वास-प्रस्तुतिः

अ॒जो वा एक॑पाद् अकामयत -
“तेज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒म्” इति॑ ।
स ए॒तम् अ॒जायैक॑पदे प्रोष्ठ-प॒देभ्य॑श्
च॒रुन् निर॑वपत्

ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य् अ॑भवत्
ते॒ज॒स्वी ह॒ वै ब्र॑ह्म-वर्च॒सी भ॑वति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒,
सोऽत्र॑ जुहोति

मूलम्

अ॒जो वा एक॑पादकामयत ।
ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।

स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑श्च॒रुन्निर॑वपत् ।
ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् ।
ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति ।

य ए॒तेन॑ ह॒विषा॒ यजते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

विश्वास-प्रस्तुतिः

“अ॒जायैक॑पदे॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स् स्वाहा॑ ।
तेज॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहे"ति॑ ॥51॥

मूलम्

“अ॒जायैक॑पदे॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स्स्वाहा॑ । तेज॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहे"ति॑ ॥51॥

प्रोष्ठपदाः/ भाद्रपदाः उत्तराः - अहिर् बिध्नियः

विश्वास-प्रस्तुतिः

अहि॒र् वै बु॒ध्नियो॑ ऽकामयत -
“इ॒माम् प्र॑ति॒ष्ठाव्ँ वि॑न्दे॒ये"ति॑ ।
स ए॒तम् अह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्य॑ᳶ पुरो॒डाश॒म् भूमि॑-कपाल॒न् निर॑वत्
ततो॒ वै स इ॒माम् प्र॑ति॒ष्ठाम् अ॑विन्दत
इ॒माँ ह॒ वै प्र॑ति॒ष्ठाव्ँ वि॑न्दते॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

अहि॒र्वै बु॒ध्नियो॑ऽकामयत ।
इ॒माम्प्र॑ति॒ष्ठाव्ँ वि॑न्दे॒येति॑ ।
स ए॒तमह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्य॑ᳶ पुरो॒डाश॒म्भूमि॑कपाल॒न्निर॑वत् ।
ततो॒ वै स इ॒माम्प्र॑ति॒ष्ठाम॑विन्दत ।
इ॒माँ ह॒ वै प्र॑ति॒ष्ठाव्ँ वि॑न्दते ।

य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

11-12इमां पृथिवीमेव प्रतिष्ठां लभेथेति । भूमिकपालः भूमिरेव कपालमस्येति ॥

विश्वास-प्रस्तुतिः

“अह॑ये बु॒ध्निया॑य॒ स्वाहा॑
प्रोष्ठप॒देभ्य॒स् स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहे"ति॑ ॥52॥

मूलम्

“अह॑ये बु॒ध्निया॑य॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स्स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहे"ति॑ ॥52॥

रेवती - पूषा

विश्वास-प्रस्तुतिः

पू॒षा वा अ॑कामयत - “पशु॒मान्त् स्या॒म्” इति॑ ।
स ए॒तम्पू॒ष्णे रे॒वत्यै॑ च॒रुन् निर॑वपत्
ततो॒ वै स प॑शु॒मान् अ॑भवत् ।
प॒शु॒मान् ह॒ वै भ॑वति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

पू॒षा वा अ॑कामयत ।
प॒शु॒मान्त्स्या॒मिति॑ ।
स ए॒तम्पू॒ष्णे रे॒वत्यै॑ च॒रुन्निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शु॒मान् ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

विश्वास-प्रस्तुतिः

“पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा॑ । प॒शुभ्य॒स् स्वाहे"ति॑ ॥53॥

मूलम्

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा॑ ।
प॒शुभ्य॒स्स्वाहेति॑ ॥53॥

अश्विनौ

विश्वास-प्रस्तुतिः

अ॒श्विनौ॒ वा अ॑कामयेताम्- “श्रोत्र॒स्विना॒वब॑धिरौ स्या॒वे"ति॑ ।
तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्या॑म्पुरो॒डाश॑न्द्विकपा॒लन्निर॑वपताम् ।
ततो॒ वै तौ श्रो॑त्र॒स्विना॒वब॑धिरावभवताम् ।
श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

अ॒श्विनौ॒ वा अ॑कामयेताम् ।
श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ ।
तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्या॑म्पुरो॒डाश॑न्द्विकपा॒लन्निर॑वपताम् ।
ततो॒ वै तौ श्रो॑त्र॒स्विना॒वब॑धिरावभवताम् ।
श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति ।
य एते॒न॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अ॒श्विभ्याँ॒ स्वाहा॑ऽश्व॒युग्भ्याँ॒ स्वाहा॑ ।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ॥54॥

विश्वास-प्रस्तुतिः

“अ॒श्विभ्याँ॒ स्वाहा॑ ऽश्व॒युग्भ्याँ॒ स्वाहा॑ ।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहे"ति॑ ॥54॥

मूलम्

“अ॒श्विभ्याँ॒ स्वाहा॑ऽश्व॒युग्भ्याँ॒ स्वाहा॑ । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहे"ति॑ ॥54॥

भरणी - यमः

विश्वास-प्रस्तुतिः

य॒मो वा अ॑कामयत - " पितृ॒णाँ रा॒ज्यम् अ॒भिज॑येय॒म्” इति॑ ।
स ए॒तय्ँ य॒माया॑प॒भर॑णीभ्यश् च॒रुन् निर॑पवत्
ततो॒ वै स पि॑तृ॒णाँ रा॒ज्यम् अ॒भ्य॑जयत्
स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम् अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सोऽत्र॑ जुहोति

मूलम्

य॒मो वा अ॑कामयत ।
पि॒तृ॒णाँ रा॒ज्यम॒भिज॑येय॒मिति॑ ।
स ए॒तय्ँ य॒माया॑प॒भर॑णीभ्यश्च॒रुन्निर॑पवत् ।
ततो॒ वै स पि॑तृ॒णाँ रा॒ज्यम॒भ्य॑जयत् ।
स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।

विश्वास-प्रस्तुतिः

“य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒स् स्वाहा॑ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥55॥

मूलम्

“य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा॑ । रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहे"ति॑ ॥55॥

अमावास्या

विश्वास-प्रस्तुतिः

अथै॒तद् अ॑मावा॒स्या॑या॒ आज्य॒न् निर्व॑पति
कामो॒ वा अ॑मावा॒स्या॑ ,
काम॒ आज्य॒म् ,
कामे॑नै॒व कामँ॒ सम॑र्धयति

क्षि॒प्रम् ए॑नँ॒ सकाम॒ उप॑नमति
येन॒ कामे॑न॒ यज॑ते सोऽत्र॑ जुहोति॒

मूलम्

अथै॒तद॑मावा॒स्या॑या॒ आज्य॒न्निर्व॑पति ।
कामो॒ वा अ॑मावा॒स्या॑ ।
काम॒ आज्य॑म् ।
कामे॑नै॒व कामँ॒ सम॑र्धयति ।
क्षि॒प्रमे॑नँ॒ सकाम॒ उप॑नमति ।
येन॒ कामे॑न॒ यज॑ते ।
सोऽत्र॑ जुहोति ।

भट्टभास्कर-टीका

13-15श्रोत्रस्विनौश्रोत्रवन्तौ प्रशस्तश्रोत्रौ । सकारोपजनः छान्दसः । अबधिरौ श्रवणशक्तिमन्तौ । गतमन्यत् ॥

इति तैत्तिरीयब्राह्मणे तृतीये प्रथमे पञ्चमोऽनुवाकः ॥

विश्वास-प्रस्तुतिः

“अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहे"ति॑ ॥56॥

मूलम्

“अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहे"ति॑ ॥56॥