कृत्तिकाः - अग्निः
विश्वास-प्रस्तुतिः
अ॒ग्निर्वा अ॑कामयत -
“अन्ना॒दो दे॒वानाँ॑ स्या॒म्” इति॑ ।
मूलम्
अ॒ग्निर्वा अ॑कामयत ।
अ॒न्ना॒दो दे॒वानाँ॑ स्या॒मिति॑ ।
भट्टभास्कर-टीका
1अथ नक्षत्रेष्टीनां ब्राह्मणं - अग्निर्वा अकामयतेत्यादि ॥ देवानां मध्ये अहं अतिशयेन अन्नादः स्यामिति ।
विश्वास-प्रस्तुतिः
स ए॒तम् अ॒ग्नये॒ कृत्ति॑काभ्यᳶ पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपत् ।
ततो॒ वै सो॑ ऽन्ना॒दो दे॒वाना॑म् अभवत् ।
अ॒ग्निर् वै दे॒वाना॑म् अन्ना॒दः ।
मूलम्
स ए॒तम॒ग्नये॒ कृत्ति॑काभ्यᳶ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् ।
ततो॒ वै सो॑ऽन्ना॒दो दे॒वाना॑मभवत् ।
अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः ।
भट्टभास्कर-टीका
स तथा कामयमानः एतमग्निं कृत्तिकादेवत्यं अष्टकपालं पुरोडाशं निरवपत् । एकस्यैव यष्टृत्वयष्टव्यत्वोपपत्तिः प्रागेवोक्ता ।
ततो वा इति । गतम् ।
विश्वास-प्रस्तुतिः
यथा॑ ह॒ वा अ॒ग्निर् दे॒वाना॑म् अन्ना॒द
ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम् भवति
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
यथा॑ ह॒ वा अ॒ग्निर्दे॒वाना॑मन्ना॒दः । ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
यथा हेत्यादि । ययुः विदुषश्च स्तुतिः । सोऽत्रेति स यष्टा अत्र इष्टो वक्ष्यमाणान् होमान् जुहोति ।
विश्वास-प्रस्तुतिः
“अ॒ग्नये॒ स्वाहा॑ ।
कृत्ति॑काभ्य॒स् स्वाहा॑ ।
अ॒म्बायै॒ स्वाहा॑ ।
दु॒लायै॒ स्वाहा॑ ।
नि॒त॒त्न्यै स्वाहा॑ ।
अ॒भ्रय॑न्त्यै॒ स्वाहा॑ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ ।
व॒र्षय॑न्त्यै॒ स्वाहा॑ ।
चु॒पु॒णीका॑यै॒ स्वाहा॑” +इति॑ ॥27॥
मूलम्
अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒स्स्वाहा॑ ।
अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा॑ ।
नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा॑ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्षय॑न्त्यै॒ स्वाहा॑ ।
चु॒पु॒णीका॑यै॒ स्वाहेति॑ ॥27॥
भट्टभास्कर-टीका
अम्बाद्याः सप्त कृत्तिकाः तारकाख्या अग्निकाण्डे व्याख्याताः ॥
+++(अनुकृतव्याख्यानम् प्रारम्भः)+++
-
अ॒म्बा +++(नामा॑सि)+++ ।
-
दु॒ला +++(नामा॑सि)+++।
-
नि॒त॒त्निः +++(नामा॑सि)+++ ।
-
अ॒भ्रय॑न्ती +++(नामा॑सि)+++ ।
-
मे॒घय॑न्ती +++(नामा॑सि)+++ ।
-
व॒र्षय॑न्ती +++(नामा॑सि)+++ ।
-
चुपु॒णीका॒ नामा॑सि ।
- टीका कल्पः—“अम्बा नामासीति सप्त कृत्तिकाः” इति । पाठस्तु— अम्बा दुलेति । अम्वातिचुपुणीकान्तानि सप्त षदानि सप्तानां कृत्तिकादेवीनां नामानि । नामासीत्यादिशेषः सर्वेष्वपि पदेष्वनुपज्यते । ततः सप्तैते मन्त्राः । हे इष्टके या कृत्तिकाऽम्बानामा तद्र्पा त्वमसि । एवं दुला नामासीत्यादिकं योजनियम् ।
+++(अनुकृतव्याख्यानम् समाप्तम्)+++
- टीका कल्पः—“अम्बा नामासीति सप्त कृत्तिकाः” इति । पाठस्तु— अम्बा दुलेति । अम्वातिचुपुणीकान्तानि सप्त षदानि सप्तानां कृत्तिकादेवीनां नामानि । नामासीत्यादिशेषः सर्वेष्वपि पदेष्वनुपज्यते । ततः सप्तैते मन्त्राः । हे इष्टके या कृत्तिकाऽम्बानामा तद्र्पा त्वमसि । एवं दुला नामासीत्यादिकं योजनियम् ।
रोहिणी - प्रजापतिः
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात् सृ॒ष्टाᳶ परा॑चीर् आयन् ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
भट्टभास्कर-टीका
2प्रजापतिरिति ॥ प्रजापतिना सृष्टाः प्रजाः अस्मात् पराचीः अपुनरावृत्ता गताः ।
विश्वास-प्रस्तुतिः
तासाँ॑ रोहि॒णीम् अ॒भ्य॑ध्यायत् ।
मूलम्
तासाँ॑ रोहि॒णीम॒भ्य॑ध्यायत् ।
भट्टभास्कर-टीका
तासां मध्ये रोहिणीमभ्यध्यायत् प्रजापतिः ध्यातवान् ।
विश्वास-प्रस्तुतिः
सो॑ ऽकामयत॒-
“उप॒ मा व॑र्तेत॒, सम् ए॑नया गच्छे॒ये“ति॑ ।
मूलम्
सो॑ ऽकामयत ।
उप॒ मा व॑र्तेत ।
समे॑नया गच्छे॒येति॑ ।
भट्टभास्कर-टीका
अथ स तामभिध्यायन्नकामयत इयं मामुपावर्तेत उपागच्छेत् अहं एनया संगच्छेयेति ।
विश्वास-प्रस्तुतिः
स ए॒तम् प्र॒जाप॑तये रोहि॒ण्यै च॒रुन् निर॑वपत् ।
ततो॒ वै सा तम् उ॒पाव॑र्तत ।
सम् ए॑नया ऽगच्छत ।
मूलम्
स ए॒तम्प्र॒जाप॑तये रोहि॒ण्यै च॒रुन्निर॑वपत् ।
ततो॒ वै सा तमु॒पाव॑र्तत ।
समे॑नयाऽगच्छत ।
भट्टभास्कर-टीका
स एतमिति । गतम् ।
विश्वास-प्रस्तुतिः
उप॑ ह॒ वा ए॑नम् प्रि॒यम् आव॑र्तते॒ , सम् प्रि॒येण॑ गच्छते॒,
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
उप॑ ह॒ वा ए॑नम्प्रि॒यमाव॑र्तते ।
सम्प्रि॒येण॑ गच्छते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
उप हेत्यादि । यष्टुर्विदुषश्च फलम् ।
रोचमानाया इति । प्रजापतये रोचत इति रोचमाना रोहणी तारकाख्यैषा प्रजानां च मध्ये रोचत इति सर्वाभ्यः प्रजाभ्यः होमः ॥
विश्वास-प्रस्तुतिः
“प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा॑ ।
रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहे"ति॑ ॥28॥
मूलम्
“प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा॑ । रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहे"ति॑ ॥28॥
मृगशीर्षम् - सोमः
विश्वास-प्रस्तुतिः
सोमो॒ वा अ॑कामयत॒ - “ओष॑धीनाँ रा॒ज्यम् अ॒भिज॑येय॒म्” इति॑ ।
स ए॒तँ सोमा॑य मृगशी॒र्षाय॑
श्यामा॒कञ् च॒रुम ्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स ओष॑धीनाँ रा॒ज्यम् अ॒भ्य॑जयत् ।
स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम् अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
सोमो॒ वा अ॑कामयत ।
ओष॑धीनाँ रा॒ज्यम॒भिज॑येय॒मिति॑ ।
स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
3ओषधीनां राज्यं राजत्वम् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
“सोमा॑य॒ स्वाहा॑
मृगशी॒र्षाय॒ स्वाहा॑ ,
इन्व॒काभ्य॒स् स्वाहौष॑धीभ्य॒स् स्वाहा॑ ,
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥29॥
मूलम्
सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा॑ ।
इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा॑ ।
रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥29॥
भट्टभास्कर-टीका
समानानां हेति । यष्टुर्विदुषश्च स्तुतिः । मृगशीर्षतारका इन्वकाः । इवि प्रीणने । क्वनिपि तारकादित्वादित्वाभावः ॥
आर्द्रा - रुद्रः
विश्वास-प्रस्तुतिः
रु॒द्रो वा अ॑कामयत॒ - “पशु॒मान्त्स्या॒म्” इति॑ ।
स ए॒तँ रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवञ् च॒रुम्
पय॑सि॒ निर॑वपत् ।
ततो॒ वै स प॑शु॒मान् अ॑भवत् ।
प॒शु॒मान् ह॒ वै भ॑वति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
रु॒द्रो वा अ॑कामयत ।
प॒शु॒मान्त्स्या॒मिति॑ ।
स ए॒तँ रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवञ्च॒रुम्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शु॒मान् ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
4प्रैयङ्गवमिति ॥ ‘ओरञ्’ । पिन्वमाना पशून् वर्धयमाना ॥
विश्वास-प्रस्तुतिः
“रु॒द्राय॒ स्वाहा॒ ऽर्द्रायै॒ स्वाहा॑ , पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहे"ति॑ ॥30॥
मूलम्
“रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा॑ , पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहे"ति॑ ॥30॥
पुनर्वसू - अदितिः
विश्वास-प्रस्तुतिः
ऋ॒क्षा+++(=शून्या)+++ वा इ॒यम् +++(पृथिवी)+++ अ॑लो॒मका॑ ऽऽसीत् ।
सा ऽका॑मयत॒ -
“ओष॑धीभि॒र् वन॒स्पति॑भि॒ᳶ प्रजा॑ये॒ये"ति॑ ।
सैतम् अदि॑त्यै॒ पुन॑र्वसुभ्याञ् च॒रुन् निर॑वपत् ।
ततो॒ वा इ॒यम् ओष॑धीभि॒र् वन॒स्पति॑भि॒ᳶ प्राजा॑यत ।
प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभि॒र्
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् ।
साऽका॑मयत ।
ओष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्रजा॑ये॒येति॑ ।
सैतमदि॑त्यै॒ पुन॑र्वसुभ्याञ्च॒रुन्निर॑वपत् ।
ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत ।
प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
5ऋक्षा वा इति ॥ इयं पृथिवी पूर्वं ऋक्षा शून्या अलोमका ओषध्यादिभिर्लोमस्थानीयै रहिता । पूर्ववदित्वाभावः । आभूतिः प्रजाती पुनर्वसू तारके ॥
विश्वास-प्रस्तुतिः
“अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां॒ स्वाहा॑, भूत्यै॒ स्वाहा॒ प्रजा॑त्यै॒ स्वाहे"ति॑ ॥31॥
मूलम्
“अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां॒ स्वाहा॑, भूत्यै॒ स्वाहा॒ प्रजा॑त्यै॒ स्वाहे"ति॑ ॥31॥
तिष्यम् / पुष्यम् - बृहस्पतिः
विश्वास-प्रस्तुतिः
बृह॒स्पति॒र् वा अ॑कामयत - “ब्रह्मवर्च॒सी स्या॒म्” इति॑ ।
स ए॒तम्बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रञ्च॒रुम्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् ।
ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
बृह॒स्पति॒र्वा अ॑कामयत ।
ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ ।
स ए॒तम्बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रञ्च॒रुम्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् ।
ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
6नैवारमिति ॥ अनुदात्तादित्वेऽपि पलाशादित्वादञ्भावः ॥
विश्वास-प्रस्तुतिः
“बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा॑ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहे"ति॑ ॥32॥
मूलम्
“बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा॑ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहे"ति॑ ॥32॥
आश्रेषाः - सर्पाः
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वास् स॒र्पेभ्य॑ आश्रे॒षाभ्य॒
आज्ये॑ कर॒म्भन् निर॑वपन् ।
ताने॒ताभि॑र् ए॒व दे॒वता॑भि॒र् उपा॑नयन् ।
ए॒ताभि॑र्ह॒ वै दे॒वता॑भिर् द्वि॒षन्त॒म् भ्रातृ॑व्य॒म् उप॑नयति॒,
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वास्स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भन्निर॑वपन् ।
ताने॒ताभि॑रे॒व दे॒वता॑भि॒रुपा॑नयन् ।
ए॒ताभि॑र्ह॒ वै दे॒वता॑भिर्द्वि॒षन्त॒म्भ्रातृ॑व्य॒मुप॑नयति।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
7देवासुरा इत्यादि ॥ करम्भनिर्वापेण तानसुरानुपानयन् नाशितवन्तः । एताभिर्देवताभिः सर्वैराश्लेषाभिश्च । द्रवसंमिश्राः सक्तवः करम्भाः ।
विश्वास-प्रस्तुतिः
“स॒र्पेभ्य॒स् स्वाहा॑ ऽऽश्रे॒षाभ्य॒स् स्वाहा॑ ।
द॒न्द॒शूके॑भ्य॒स् स्वाहे"ति॑ ॥33॥
मूलम्
“स॒र्पेभ्य॒स्स्वाहा॑ऽऽश्रे॒षाभ्य॒स्स्वाहा॑ ।
द॒न्द॒शूके॑भ्य॒स्स्वाहे"ति॑ ॥33॥
भट्टभास्कर-टीका
दंदशूकाः दंशनशीलाः सर्पाख्यैषा । ‘यजजपदशां यङः’ इत्यूकप्रत्ययः ॥
मघाः - पितरः
विश्वास-प्रस्तुतिः
पि॒तरो॒ वा अ॑कामयन्त -
“पितृलो॒क ऋ॑ध्नुया॒मे"ति॑ ।
त ए॒तम् पि॒तृभ्यो॑ म॒घाभ्य॑ᳶ
पुरो॒डाशँ॒ षट्क॑पाल॒न् निर॑वपन् ।
ततो॒ वै ते पि॑तृलो॒क आ॑र्ध्नुवन् ।
पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
पि॒तरो॒ वा अ॑कामयन्त - “पितृलो॒क ऋ॑ध्नुया॒मे"ति॑ ।
त ए॒तम्पि॒तृभ्यो॑ म॒घाभ्य॑ᳶ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर॑वपन् ।
ततो॒ वै ते पि॑तृलो॒क आ॑र्ध्नुवन् ।
पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
विश्वास-प्रस्तुतिः
“पि॒तृभ्य॒स् स्वाहा॑ म॒घाभ्य॒स् स्वाहा॑
ऽन॒घाभ्य॒स् स्वाहा॑ग॒दाभ्य॒स् स्वाहा॑
ऽरुन्ध॒तीभ्य॒स् स्वाहे"ति॑ ॥34॥
मूलम्
“पि॒तृभ्य॒स् स्वाहा॑ म॒घाभ्य॒स् स्वाहा॑ ऽन॒घाभ्य॒स् स्वाहा॑ग॒दाभ्य॒स् स्वाहा॑ ऽरुन्ध॒तीभ्य॒स् स्वाहे"ति॑ ॥34॥
पूर्व-फल्गुन्यः - अर्यमा
विश्वास-प्रस्तुतिः
अ॒र्य॒मा वा अ॑कामयत॒ - “पशु॒मान्त् स्या॒म्” इति॑ ।
स ए॒तम् अ॑र्य॒म्णे फल्गु॑नीभ्याञ्
च॒रुन् निर॑वपत् ।
ततो॒ वै स प॑शु॒मान् अ॑भवत् ।
प॒शुमान् ह॒ वै भ॑वति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
प॒शुमान् ह॒ वै भ॑वति॒ य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
अ॒र्य॒मा वा अ॑कामयत - “पशु॒मान्त्स्या॒"मिति॑ ।
स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शुमान् ह॒ वै भ॑वति ।
प॒शुमान् ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
8-9अनघाः, अगदाः अरुन्धत्य इहि मखानामाख्याः ॥
विश्वास-प्रस्तुतिः
“अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ ,
प॒शुभ्य॒स् स्वाहे"ति॑ ॥35॥
मूलम्
“अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ , प॒शुभ्य॒स्स्वाहे"ति॑ ॥35॥
उत्तर-फल्गुन्यः - भगः
विश्वास-प्रस्तुतिः
भगो॒ वा अ॑कामयत -
“भ॒गी श्रे॒ष्ठी दे॒वानाँ॑ स्या॒म्” इति॑ ।
स ए॒तम् भगा॑य॒ फल्गु॑नीभ्याञ्
च॒रुन् निर॑वपत् ।
ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑म् अभवत् ।
भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नाना॑म् भवति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
भगो॒ वा अ॑कामयत - “भ॒गी श्रे॒ष्ठी दे॒वानाँ॑ स्या॒"मिति॑ ।
स ए॒तम्भगा॑य॒ फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् ।
ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् ।
भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नाना॑म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
10भगी ऐश्वर्यादिमान् । श्रेष्ठी श्रेष्ठेनैश्वर्यादिना तद्वान् ॥
विश्वास-प्रस्तुतिः
“भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ । श्रैष्ठ्या॑य॒ स्वाहे"ति॑ ॥36॥
मूलम्
“भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ । श्रैष्ठ्या॑य॒ स्वाहे"ति॑ ॥36॥
हस्तः - सविता
विश्वास-प्रस्तुतिः
स॒वि॒ता वा अ॑कामयत॒ -
“श्रन्मे॑ दे॒वा दधी॑र॒न्न् -सवि॒ता स्या॒म्” इति॑ ।
स ए॒तँ स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒न् द्वाद॑श-कपाल॒न् निर॑वपद्
आशू॒नाव्ँ व्रीँ॑ही॒णाम् ।
ततो॒ वै तस्मै॒ श्रद् दे॒वा अद॑धत ।
स॒वि॒ता ऽभ॑वत् ।
मूलम्
श्रन्मे॑ दे॒वा दधी॑रन्न् - “सवि॒ता स्या॒"मिति॑ ।
स ए॒तँ स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपदाशू॒नाव्ँ व्रीँ॑ही॒णाम् ।
ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत ।
स॒वि॒ताऽभ॑वत् ।
भट्टभास्कर-टीका
11श्रन्म इति ॥ श्रद्दधीरन् देवा मह्यं, श्रद्धेयवचनः तेषां भूयासम्, सविता प्रेरकः अनुज्ञाता वा । आशुव्रीहयः त्रिपक्षपक्वाः ।
विश्वास-प्रस्तुतिः
श्रद्+ध॒ वा अ॑स्मै मनु॒ष्या॑ दधते,
सवि॒ता स॑मा॒नाना॑म् भवति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
श्रद्ध॒वा अ॑स्मै मनु॒ष्या॑ दधते ।
स॒वि॒ता स॑मा॒नाना॑म् भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
अनुज्ञातृविशेषाः ददत्, पृणन्, प्रयच्छन्, प्रतिगृभ्णन् । ददत् विधानेन, पृणन् प्रीणयन्, प्रयच्छन् विध्यनपेक्ष उदारः, प्रतिगृभ्णन् उक्तं स्वीकुर्वन् ॥
विश्वास-प्रस्तुतिः
“स॒वि॒त्रे स्वाहा॒ हस्ता॑य॒ स्वाहा॑
दद॒ते स्वाहा॑ पृण॒ते स्वाहा॑
प्र॒यच्छ॑ते॒ स्वाहा॑ प्रतिगृभ्ण॒ते स्वाहे"ति॑ ॥37 ॥
मूलम्
“स॒वि॒त्रे स्वाहा॒ हस्ता॑य॒ स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते स्वाहा॑ प्र॒यच्छ॑ते॒ स्वाहा॑ प्रतिगृभ्ण॒ते स्वाहे"ति॑ ॥37 ॥
चित्रा - त्वष्टा
विश्वास-प्रस्तुतिः
त्वष्टा॒ वा अ॑कामयत -
“चि॒त्रम् प्र॒जाव्ँ वि॑न्दे॒ये"ति॑ ।
स ए॒तन् त्वष्ट्रे॑ चि॒त्रायै॑
पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपत् ।
ततो॒ वै स चि॒त्रम् प्र॒जाम् अ॑विन्दत ।
चि॒त्रँ ह॒ वै प्र॒जाव्ँ वि॑न्दते॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
त्वष्टा॒ वा अ॑कामयत - “चि॒त्रम्प्र॒जाव्ँ वि॑न्दे॒ये"ति॑ ।
स ए॒तन्त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् ।
ततो॒ वै स चि॒त्रम्प्र॒जाम॑विन्दत ।
चि॒त्रँ ह॒ वै प्र॒जाव्ँ वि॑न्दते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
12चित्रं बहुधा प्रजां विन्देय लप्सीयेति । चैत्राय चित्रत्वाय ॥
विश्वास-प्रस्तुतिः
“त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा॑ ।
चैत्रा॑य॒ स्वाहा॑ प्र॒जायै॒ स्वाहे"ति॑ ॥38॥
मूलम्
“त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा॑ । चैत्रा॑य॒ स्वाहा॑ प्र॒जायै॒ स्वाहे"ति॑ ॥38॥
निष्ट्या, स्वातिः - वायुः
विश्वास-प्रस्तुतिः
वा॒युर् वा अ॑कामयत॒ -
“काम॒-चार॑म् ए॒षु लो॒केष्व् अ॒भिज॑येय॒म्” इति॑ ।
स ए॒तद् वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धम् पयो॒ निर॑वपत् ।
ततो॒ वै स का॑म॒-चार॑म् ए॒षु लो॒केष्व् अ॒भ्य॑जयत् ।
का॒म॒चारँ॑ ह॒ वा ए॒षु लो॒केष्व् अ॒भिज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
वा॒युर्वा अ॑कामयत - “काम॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒"मिति॑ ।
स ए॒तद्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धम्पयो॒ निर॑वपत् ।
ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् ।
का॒म॒चारँ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
विश्वास-प्रस्तुतिः
“वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा॑ ।
का॒म॒चारा॑य॒ स्वाहा॒
ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥39॥
मूलम्
“वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा॑ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥39॥
विशाखे - इन्द्राग्नी
विश्वास-प्रस्तुतिः
इ॒न्द्रा॒ग्नी वा अ॑कामयेता॒म् -
“श्रैष्ठ्य॑न् दे॒वाना॑म् अ॒भिज॑ये॒वे"ति॑ ।
ताव् ए॒तम् इ॑न्द्रा॒ग्निभ्याव्ँ॒ विशा॑खाभ्याम्
पुरो॒डाश॒म् एका॑दश-कपाल॒न् निर॑वपताम् ।
ततो॒ वै तौ श्रैष्ठ्य॑न् दे॒वाना॑म् अ॒भ्य॑जयताम् ।
श्रैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भि ज॑यति॒
य ए॒तेन॑ ह॒विषा॒ यज॑ते।
य उ॑ च+एनद् ए॒वव्ँ वेद॒, सो ऽत्र॑ जुहोति …
मूलम्
इ॒न्द्रा॒ग्नी वा अ॑कामयेता॒म् - “श्रैष्ठ्य॑न्दे॒वाना॑म॒भिज॑ये॒वे"ति॑ ।
तावे॒तमि॑न्द्रा॒ग्निभ्याव्ँ॒विशा॑खाभ्याम्पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपताम् ।
ततो॒ वै तौ श्रैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयताम् ।
श्रैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भि ज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
13-14इच्छया सर्वत्र चारः कामचारः । निष्ट्या इति स्वातेराख्या । गृष्टिस्सकृत्प्रसूता । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
“इ॒न्द्रा॒ग्निभ्याँ॒ स्वाहा॒ विशा॑खाभ्याँ॒ स्वाहा॑ ।
श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥40॥
मूलम्
“इ॒न्द्रा॒ग्निभ्याँ॒ स्वाहा॒ विशा॑खाभ्याँ॒ स्वाहा॑ । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहे"ति॑ ॥40॥
पूर्णिमा
विश्वास-प्रस्तुतिः
अथै॒तत् पौ॑र्णमा॒स्या आज्य॒न् निर्व॑पति ।
कामो॒ वै पौ॑र्णमा॒सी ,
काम॒ आज्य॒म् ,
कामे॑नै॒व कामँ॒ सम॑र्धयति ।
क्षि॒प्रम् ए॑नँ॒ सकाम॒ उप॑नमति॒
येन॒ कामे॑न॒ यज॑ते।
सो ऽत्र॑ जुहोति …
मूलम्
अथै॒तत्पौ॑र्णमा॒स्या आज्य॒न्निर्व॑पति ।
कामो॒ वै पौ॑र्णमा॒सी , काम॒ आज्य॒म् , कामे॑नै॒व कामँ॒ सम॑र्धयति ।
क्षि॒प्रमे॑नँ॒ सकाम॒ उप॑नमति ।
येन॒ कामे॑न॒ यज॑ते।
सोऽत्र॑ जुहोति ।
भट्टभास्कर-टीका
15कामो वा इति ॥ तत्साधनत्वात्ताच्छब्द्यम् ॥
इति तृतीये प्रथमे चतुर्थोऽनुवाकः ॥
विश्वास-प्रस्तुतिः
“पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहे"ति॑ ॥41॥
मूलम्
“पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहे"ति॑ ॥41॥