सायणोक्त-विनियोगः
(SB) 1अष्टमेऽन्नार्थपश्वादीनां सूक्तान्यभिहितानि । नवमे शुक्लकृष्णपश्वादीनां सूक्तान्युच्यन्ते । यदुक्तं सूत्रकारेण - ‘सूर्याचन्द्रमोभ्यां यमौ श्वेतं च कृष्णं चैकयूपे’ इति । यमौ एकस्मिन् गर्भे सहोत्पन्नौ । तयोः पश्वोस्सूक्ते वपयोः पुरोनुवाक्यामाह ।
विश्वास-प्रस्तुतिः ...{Loading}...
ता सू॑र्याचन्द्र॒मसा॑ विश्व॒-भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद् राजतो दि॒वि ।
सामा॑त्माना चरतस् साम-चा॒रिणा॑ +++(न भेद-चारिणौ)+++ ।
ययो॑र् व्र॒तन् न म॒मे जातु॑ दे॒वयोः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ता सू॑र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद्राजतो दि॒वि ।
सामा॑त्माना चरतस्सामचा॒रिणा॑ ।
ययो॑र्व्र॒तन्न म॒मे जातु॑ दे॒वयोः॑ ।
सायण-टीका
ययोः सूर्याचन्द्रमसोर्देवयोः संबन्धि व्रतं कर्म जातु कदाचिदपि न ममे कश्चिदपि मातुं न शक्तः । एतदीयं कर्मैतावता फलेन युक्तमिति न कोऽपि परिच्छेत्तुं शक्रोति । तौ तथाविधौ सूर्याचन्द्रमसौ दिवि राजतः द्युलोके दीप्येते । कीदृशौ? विश्वभृत्तमा अतिशयेन विश्वस्य भर्तारौ पोषकौ अत एव महत् महान्तौ तेजः तेजस्विनौ वसुमत् धनवन्तौ । साम-शब्देन साम-भेदाद्युपायेषु चतुर्षु प्रथमोपायोऽभिधीयते । तदात्मकौ प्रजापालने सामोपायप्रधानावित्यर्थः । अत एव सामचारिणौ साम्नोपायेन सर्वजगदनुग्राहकप्रकाशरूपेण चरणशीलौ चरतः परिभ्रमतः ॥
सायणोक्त-विनियोगः
2अथ वपयोर् याज्याम् आह -
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भाव् अन्तौ॒ परि॑ यात॒ अर्म्या॑+++(=गत्या)+++ ।
दि॒वो न र॒श्मीँस् त॑नु॒तो व्य् अ॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒वि-क्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ता-म॑ती ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या॑ ।
दि॒वो न र॒श्मीँस्त॑नु॒तो व्य॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ।
सायण-टीका
उभावन्तौ पृथिव्याः पूर्वः पश्चिमश् चेत्य् एताव् अवसान-भागौ अर्म्या गत्या परियातः परिक्रमणं कुरुतः
दिवो न दिवीव अर्णवे समुद्र-समाने ऽन्तरिक्षे रश्मीन् वितनुतः प्रसारयतः भुवना भुवन्ती लोकान् भावयन्ताव् उत्पादयन्तौ कविक्रतू कविर्मेधावी, क्रतुः कर्ता, कवी च तौ क्रतू च कविक्रतू हतामती हता विनाशिता प्राणिनाममतिरन्धकारनिमित्तमज्ञानं याम्यां तौ हतामती सूर्या न चन्द्रा सूर्यश्चन्द्रश्चेत्येतावुभौ चरतः संचारं कुरुतः ॥
सायणोक्त-विनियोगः
3अथ पुरोडाशस्य पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
पती॑ द्यु॒मद् वि॑श्व॒-विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 71 ॥
वि॒श्व-वा॑रा वरिवा+++(=पूजितौ)+++ +उ॒भा वरे॑ण्या ।
ता नो॑ ऽवतम् मति॒मन्ता॒ महि॑व्रता ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
पती॑ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 71 ॥
वि॒श्ववा॑रा वरिवो॒भा वरे॑ण्या ।
ता नो॑ऽवतम्मति॒मन्ता॒ महि॑व्रता ।
सायण-टीका
द्युमत् द्युमन्तौ दीप्तिमन्ताबुभौ देवौ विश्वविदा सर्वज्ञौ दिवः पती द्युलोकस्य पालकौ वर्तेते । सूर्याचन्द्रमसा सूर्याचन्द्रमसेत्येतावुभौ विचक्षणा कुशलौ । विश्ववारा विश्वेषां शत्रूणां निवारयितारौ । वरिवा वरिवस्यमानौ सर्वैः परिचर्यमाणावुभौ देवौ वरेण्या वरणीयौ मतिमन्तौ अत्यन्तबुद्धियुक्तौ महिव्रता महता व्रतेन कर्मणा युक्तौ । ईदृशौ तावुभौ नोऽस्मानवतं रक्षतम् ॥
सायणोक्त-विनियोगः
4अथ पुरोडशस्य याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्व॒-वप॑री+++(←वप्)+++ प्र॒तर॑णा तर॒न्ता ।
सु॒व॒र्-विदा॑ दृ॒शये॒ भूरि॑-रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒ष-द॑र्शता ।
म॒न॒स्विनो॒भा ऽनु॑चर॒तो नु॒ सन् दिव॑म् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता ।
सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता ।
म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिव॑म् ।
सायण-टीका
विश्ववपरी विश्वस्मिञ्जगति रश्मीन् आवप्तारौ विस्तारयितारौ प्रहरणा आपदां प्रकर्षेण तारयितारौ तरन्ता आकाशसमुद्रं तरन्ती सुवर्विदा स्वर्गस्य लम्भयितारौ दृशये सर्वलोकस्य दर्शनाय भूरिरश्मी प्रभूतदीप्ती सूर्या हि चन्द्रा सूर्यश्चन्द्रश्चेत्येवं प्रसिद्धौ वसु वासयितारौ त्वेषदर्शता दीप्त्या दर्शनीयौ मनस्विना दृढेन मनसा युक्तौ उभा देवाबुभौ नु क्षिप्रं दिवं द्युलोकमनुसंचरतः ॥
सायणोक्त-विनियोगः
5अथ हविषः पुरोनुवाक्यामाह -
०२ अस्य श्रवो ...{Loading}...
अस्य᳓ +++(→तवेन्द्रस्य)+++ श्र᳓वो नद्यः᳙ सप्त᳓ बिभ्रति
द्या᳓वाक्षा᳓मा पृथिवी᳓ दर्शतं᳓+++(=दर्शनीयं)+++ व᳓पुः ।
अस्मे᳓+++(=अस्मभ्यं)+++ सूर्याचन्द्रम᳓सा ऽभिच᳓क्षे+++(=कथयसि)+++
श्रद्धे᳓+++(=श्रद्धया)+++ क᳓म्+++(=सुखम्)+++ इन्द्र चरतो वि-तर्तुर᳓म्+++(=त्वरया)+++ ॥
002 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
अस्य᳓ श्र᳓वो नदि᳓यः सप्त᳓ बिभ्रति
द्या᳓वाक्षा᳓मा पृथिवी᳓ दर्शतं᳓ व᳓पुः
अस्मे᳓ सूर्याचन्द्रम᳓साभिच᳓क्षे
श्रद्धे᳓ क᳓म् इन्द्र चरतो वितर्तुर᳓म्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
bibhrati ← √bhr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
nadyàḥ ← nadī́- (nominal stem)
{case:NOM, gender:F, number:PL}
saptá ← saptá- (nominal stem)
{case:NOM, gender:M, number:PL}
śrávaḥ ← śrávas- (nominal stem)
{case:NOM, gender:N, number:SG}
darśatám ← darśatá- (nominal stem)
{case:NOM, gender:N, number:SG}
dyā́vākṣā́mā ← dyā́vā-kṣā́mā- (nominal stem)
{case:NOM, gender:F, number:DU}
pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}
vápuḥ ← vápus- (nominal stem)
{case:NOM, gender:N, number:SG}
abhicákṣe ← √cakṣ- (root)
{case:DAT, number:SG}
asmé ← ahám (pronoun)
{case:DAT, number:PL}
sūryācandramásā ← sūryācandramás- (nominal stem)
{case:NOM, gender:M, number:DU}
carataḥ ← √carⁱ- (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:ACT}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
kám ← kám (invariable)
śraddhé ← śrád-√dhā- (root)
{case:DAT, number:SG}
vitarturám ← vitarturám (invariable)
पद-पाठः
अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ ।
अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥
Hellwig Grammar
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- śravo ← śravaḥ ← śravas
- [noun], accusative, singular, neuter
- “fame; glory; ear.”
- nadyaḥ ← nadī
- [noun], nominative, plural, feminine
- “river; nadī; nadī [word]; Premna spinosa Roxb..”
- sapta ← saptan
- [noun], nominative, singular, neuter
- “seven; seventh.”
- bibhrati ← bhṛ
- [verb], plural, Present indikative
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- dyāvākṣāmā ← dyāvākṣam
- [noun], nominative, dual, feminine
- “heaven and earth.”
- pṛthivī
- [noun], nominative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- darśataṃ ← darśatam ← darśata
- [noun], accusative, singular, neuter
- “beautiful; visible; beautiful.”
- vapuḥ ← vapus
- [noun], accusative, singular, neuter
- “body; form; miracle; human body; beauty; look; spectacle; figure; embodiment.”
- asme ← mad
- [noun], dative, plural
- “I; mine.”
- sūryācandramasābhicakṣe ← sūryācandramasā ← sūryācandramas
- [noun], nominative, dual, masculine
- sūryācandramasābhicakṣe ← abhicakṣe ← abhicakṣ ← √cakṣ
- [verb noun]
- śraddhe ← śraddhā ← √dhā
- [verb noun]
- “believe; assent; trust.”
- kam ← kaṃ
- [adverb]
- “kaṃ [word].”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- carato ← carataḥ ← car
- [verb], dual, Present indikative
- “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”
- vitarturam
- [adverb]
सायण-भाष्यम्
अस्य इन्द्रस्य श्रवः यशः कीर्तिं सप्त इमं मे गङ्गे’ इत्यस्यामृचि प्राधान्येन प्रतिपादिता गङ्गाद्याः सप्तसंख्याकाः नद्यः बिभ्रति धारयन्ति । वृत्रहननेन इन्द्रस्य यत् वृष्टेः प्रदातृत्वं तत्प्रभूतजलोपेता नद्यः प्रकटयन्तीत्यर्थः । अपि च द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी इति अन्तरिक्षनाम । अन्तरिक्षं चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयन्ति । किंच हे इन्द्र अस्मे अस्माकम् अभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनि इदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत् पादपूरणम् । तदुभयार्थं सूर्याचन्द्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनः पुनर्गमनं यथा भवति तथा चरतः । वर्तेते । त्वमेव तद्रूपः सन् वर्तसे इत्यर्थः ॥ अस्य । “ उडिदम्’ इति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । ’ दिवो द्यावा’ इति द्यावादेशः । ‘सुपां सुलुक् ’ इति विभक्तेः डादेशः । देवताद्वन्द्वे च ’ इति उभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशि° ’ इत्यादिना अतच् । सूर्याचन्द्रमसा । सूर्यश्च चन्द्रमाश्च । “ देवताद्वन्द्वे च ’ इति पूर्वपदस्य आनङादेशः । ‘सुपां सुलुक् ’ इति विभक्तेः आकारः । चन्द्रमःशब्दो दासीभारादित्वात् पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो ‘देवताद्वन्द्वे च’ इति प्राप्तस्य उभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादावपृथिवी ’ इति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात् संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणात् दधातेर्भावे विच् । चतुर्थ्येकवचने ‘ आतो धातोः’ इति आकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ्लुगन्तात् औणादिकः कुरच्” । बहुलं छन्दसि ’ इति उत्वम् ॥
हे इन्द्र त्वं अस्मे अस्मदर्थं सूर्याचन्द्रमसा एतौ सूयार्चन्द्रमसाव् अभिचक्षे ऽभितः कथयसि ।
श्रद्धे श्रद्धार्थं कं सुखार्थं च विचर्तुरं विशेषेण त्वरा यथा भवति तथा चरतः एताव् उभौ संचरतः ।
अस्य तवेन्द्रस्य श्रवः श्रवणीयं दर्शतं दर्शनीयं च वपुः शरीरं सप्त नद्यः गङ्गायमुनाद्याः सप्तसंख्याकास्सरितः द्यावा क्षामा पृथिवी क्षामशब्दोऽन्तरिक्षमभिधत्ते, त्रयो लोकाश्च बिभ्रति धरयन्ति । अयमर्थः - यदेतद्वृष्टिनिमित्तं जलं तदेतदिन्द्रेणोत्पादितत्वादिन्द्रस्य शरीरं, तच्च सर्वेषां प्राणिनां प्रियत्वाच्छ्रवणीयं दर्शनीयं च । तदिदं जलरूपं शरीरं सप्तनद्युपलक्षिताः सर्वा नद्यः समुद्रास्त्रयो लोकाश्च धारयन्ति । न हि जलमन्तरेण लोकत्रयव्यवहारः सिध्यतीति ॥
Wilson
English translation:
“The seven rivers display his glory; heaven, and earth, and sky display his visible form; the sun and moon, Indra,perform their revolution, that we may see, and have faith in what we see.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ahi and Vṛtra are differently-formed clouds. Rauhina = an asura, possibly, a red cloud
Jamison Brereton
His fame do the seven rivers bear; Heaven and Earth, the Broad One, (bear) his wondrous form, lovely to see.
For us to look upon (it), to put our trust in (him), the Sun and Moon roam, traversing in regular alternation, o Indra.
Jamison Brereton Notes
The phrase dyā́vākṣā́mā pṛthivī́is striking because pṛthivī́‘earth’ either doubles the less common ‘earth’ word kṣā́mā in the du. dvandva or else serves as the epithet (‘the broad’) it historically was. Indeed because pṛthivī́is grammatically ambiguous (sg. or du.), it could modify both heaven and earth, or it could stand as a second elliptical du. referring to both. The same phrase is found in III.8.8 and, with - bhū́mī rather than kṣā́mā, in X.65.4.
I believe that there is a closer connection between the two halves of the verse than the standard tr. seem to. In my opinion the sun and moon roam alternately in order to provide constant illumination, so that we can see Indra’s “wondrous form lovely to see” (darśatáṃ vápuḥ) and therefore put trust in him, that is, in his existence. Remember that a constant source of worried speculation in the RV is whether Indra exists or not – a worry that is regularly alleviated by his epiphany on our ritual ground. Here the mere sight of his form will allay our worries and allow us to trust that he exists. Geldner attributes the actions of cd just to the fact that Indra is the creator of sun and moon, while Renou has us looking at the sky.
Griffith
The Seven Rivers bear his glory far and wide, and heaven and sky and earth display his comely form.
The Sun and Moon in change alternate run their course, that we, O Indra, may behold and may have faith.
Geldner
Seinen Ruhm tragen die sieben Flüsse; Himmel und Erde, das weite Land tragen seine schöne Erscheinung. Sonne und Mond wandeln abwechselnd, uns zum Sehen und an dich zu Glauben, Indra.
Grassmann
Die sieben Ströme wahren schutzreich seinen Ruhm, die weiten Erd’ und Himmel seine schöne Pracht; In stetem Wechsel wandern Sonne hin und Mond, dass wir sie schauen, und, o Indra, dir vertraun.
Elizarenkova
Его славу несут семь рек –
Небо-и-Земля, земной простор (несут) его прекрасный облик.
Солнце и луна движутся поочередно,
Чтобы мы могли видеть (их), чтобы мы верили (в тебя).
अधिमन्त्रम् (VC)
- इन्द्र:
- कुत्स आङ्गिरसः
- स्वराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर और अध्यापक के काम से क्या होता है, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) विद्या और ऐश्वर्य के देनेवाले ! (अस्य) निःशेष विद्यायुक्त जगदीश्वर का वा समस्त विद्या पढ़ानेहारे आप लोगों का (श्रवः) सामर्थ्य वा अन्न और (सप्त) सात प्रकार की स्वादयुक्त जलवाली (नद्यः) नदी (दर्शतम्) देखने और (वितर्त्तुरम्) अनेक प्रकार के नौका आदि पदार्थों से तरने योग्य महानद में तरने के अर्थ (कम्) सुख करनेहारे (वपुः) रूप को (बिभ्रति) धारण करती वा पोषण कराती तथा (द्यावाक्षामा) प्रकाश और भूमि मिलकर वा (पृथिवी) अन्तरिक्ष (सूर्याचन्द्रमसा) सूर्य और चन्द्रमा आदि लोक धरते पुष्ट कराते हैं, ये सब (अस्मे) हम लोगों के (अभिचक्षे) सुख के सम्मुख देखने (श्रद्धे) और श्रद्धा कराने के लिये प्रकाश और भूमि वा सूर्य-चन्द्रमा दो-दो (चरतः) प्राप्त होते तथा अन्तरिक्ष प्राप्त होता और भी उक्त पदार्थ प्राप्त होते हैं ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। परमेश्वर की रचना से पृथिवी आदि लोक और उनमें रहनेवाले पदार्थ अपने-अपने रूप को धारण करके सब प्राणियों के देखने और श्रद्धा के लिये हो और सुख को उत्पन्न कर चालचलन के निमित्त होते हैं परन्तु किसी प्रकार विद्या के विना इन सांसारिक पदार्थों से सुख नहीं होता, इससे सबको चाहिये कि ईश्वर की उपासना और विद्वानों के सङ्ग से लोकसम्बन्धी विद्या को पाकर सदा सुखी होवें ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्रास्य तव श्रवः सप्तनद्यो दर्शतं वितर्त्तुर कं वपुर्बिभ्रति द्यावाक्षामा पृथिवी सूर्य्याचन्द्रमसा च बिभ्रत्येते सर्व अस्मे अभिचक्ष श्रद्धे चरन्ति चरतः चरन्ति चरतो वा ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथेश्वराध्यापककर्मणा किं जायत इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अस्य) अखिलविद्यस्य जगदीश्वरस्य सर्वविद्याध्यापकस्य वा (श्रवः) सामर्थ्यमन्नं वा (नद्यः) सरितः (सप्त) सप्तविधाः स्वादोदकाः (बिभ्रति) धरन्ति पोषयन्ति वा (द्यावाक्षामा) प्रकाशभूमी। अत्र दिवो द्यावा। अ० ६। ३। २९। अनेन दिव् शब्दस्य द्यावादेशः। (पृथिवी) अन्तरिक्षम् (दर्शतम्) द्रष्टव्यम् (वपुः) शरीरम् (अस्मे) अस्माकम् (सूर्याचन्द्रमसा) सूर्यचन्द्रादिलोकसमूहो (अभिचक्षे) आभिमुख्येन दर्शनाय (श्रद्धे) श्रद्धारणाय (कम्) सुखकारकम् (इन्द्र) विद्यैश्वर्यप्रद (चरतः) प्राप्नुतः। (वितर्तुरम्) अतिशयेन विविधप्लवे तरणार्थम्। अत्र यङ्लुङन्तात्तॄधातोरच् प्रत्ययो बहुलं छन्दसीत्युत्वम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। परमेश्वरस्य सर्जनेन पृथिव्यादयो लोकास्तत्रस्थाः पदार्थाश्च स्वं स्वं रूपं धृत्वा सर्वेषां प्राणिनां दर्शनाय श्रद्धायै च भूत्वा सुखं संपाद्य गमनागमनादिव्यवहारहेतवो भवन्ति। नहि कथंचिद् विद्यया विनैतेभ्यः सुखानि संजायन्ते तस्मादीश्वरस्योपासनेन विदुषां सङ्गेन च लोकविद्याः प्राप्य सर्वैः सदा सुखयितव्यम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परमेश्वरनिर्मित पृथ्वी इत्यादी गोल व त्यात राहणारे पदार्थ आपापल्या रूपांना धारण करून सर्व प्राण्यांच्या दर्शनासाठी व श्रद्धेसाठी असून, सुख-दुःख उत्पन्न करून गमनागमन व्यवहारासाठी असतात; परंतु कोणत्याही प्रकारे विद्येशिवाय या सांसारिक पदार्थांनी सुख मिळत नाही. यामुळे सर्वांनी ईश्वराची उपासना व विद्वानांच्या संगतीने गोलांसंबंधी विद्या प्राप्त करून सदैव सुखी व्हावे. ॥ २ ॥
सायणोक्त-विनियोगः
6अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒र्वा॒प॒रञ् च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अ-ध्व॒रम्+++(=अ-हिंसम् →यज्ञम्)+++ ।
विश्वा॑न्य् +++(तयोर्)+++ अ॒न्यो भुव॑ना ऽभि॒ चष्टे॑ ।
ऋ॒तून् अ॒न्यो वि॒दध॑ज् जायते॒ पुनः॑ ।+++(5)+++
सर्वाष् टीकाः ...{Loading}...
मूलम्
पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
विश्वा॑न्य॒न्यो भुव॑नाऽभि॒ चष्टे॑ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।
सायण-टीका
एतौ सूर्याचन्द्रमसौ मायया परमेश्वरस्य शक्त्याऽनुगृहीतौ पूर्वापरं भूमेः प्राक्पश्चिमभागौ प्रति चरतः परिभ्रमणं कुरुतः । शिशू बालकाविव क्रीडन्तौ अध्वरं कस्यापि हिंसा यथा न भवति तथा परियातः ।
अथवा अध्वरमस्माभिरनुष्ठीयमानं यज्ञं प्राप्नुतः ।
उभयोर्मध्येऽन्य एक आदित्यो विश्वानि भुवनानिअभिचष्टे सर्वतः प्रकाशयति । अन्यश्चन्द्रः प्रतिपदादितिथिशुक्लकृष्णपक्षचैत्रादिमासद्वारा ऋतून्विदधत्पुनः पुनर्जायत उदयं गच्छतीत्यर्थः ॥