विश्वास-प्रस्तुतिः
सूर्यो॑ दे॒वीमु॒षसँ॒ रोच॑माना॒मर्यः॑ ।
न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ ।
वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् ।
मूलम्
सूर्यो॑ दे॒वीमु॒षसँ॒ रोच॑माना॒मर्यः॑ ।
न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ ।
वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् ।
सायण-टीका
(SB) 1षष्ठे सावित्र्यादिपशूनां सूक्तान्यभिहितानि । सप्तमे सौर्यादि पशूनां सूक्तान्यभिधीयन्ते । तत्र ‘यो ब्रह्मवर्चसकामः स्यात्तस्मा एताँ सौरीं श्वेतां वशामालभेत’ इत्यस्य पशो: सूक्ते वपायाः पुरोनुवाक्यामाह - योऽयं सूर्योऽस्ति सोऽयं रोचमाना दीप्यमानां उषसं उषोभिधां देवीमभिलक्ष्य पश्चादेति पृष्ठभागे गच्छति । तत्र दृष्टान्तः मर्यो न योषा यथा मर्त्यो योषामभिलक्ष्य पृष्ठतो गच्छति तद्वत् । उषा देवी प्रथमं प्रभातं करोति पञ्चात्सूर्य उदेतीत्यर्थः । यत्र यस्यामुषसि प्रवृत्तायां नरः मनुष्या यजमानाः देवयन्तः देवानात्मार्थमिच्छन्तः युगानि दंपतिरूपाणि युग्मानि भूत्वा भद्राय कल्याणाय भद्रं वितन्वते कल्याणं कर्मानुतिष्ठन्ति । यस्यामुषसि कर्मानुष्ठानप्रवृत्तिस्तामुषसमभ्येतीति पर्वूत्रान्वयः ॥
विश्वास-प्रस्तुतिः
भ॒द्रा अश्वा॑ ह॒रित॒स्सूर्य॑स्य ।
चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः ।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः ।
परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ।
मूलम्
भ॒द्रा अश्वा॑ ह॒रित॒स्सूर्य॑स्य ।
चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः ।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः ।
परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ।
सायण-टीका
2अथ वपाया याज्यामाह - एतच्छब्दपर्याय एदग्वशब्दः सूर्यस्याश्वमाचष्टे । अत एव मन्त्रान्तरमाम्नायते - ‘एदग्वेन त्वा सूर्यो देवतां गमयतु’ इति । सूर्यस्य एदग्वा अश्वा दिवः पृष्ठं द्युलोकस्योपरि आस्थुः आस्थितवन्तः । कीदृशा एदग्वाः? भद्राः कल्याणरूपाः अश्वा आशुगामिनः हरितः ‘नीलवर्णाः चित्राः विचित्रगतियुक्ता अनुमाद्यासः रथयोजनमनुहृष्यन्तः नमस्यन्तः नमस्कारमिच्छन्त इव प्रह्वीभूतास्तथाविधा अश्वाः सद्यः तस्मिन्नेव क्षणे द्यावापृथिवी परियन्ति लोकद्वयं परिभ्राम्य गच्छन्ति ॥
विश्वास-प्रस्तुतिः
तत्सूर्य॑स्य देव॒त्वन्तन्म॑हि॒त्वम् ।
म॒ध्या कर्तो॒र्वित॑तँ॒ सञ्ज॑भार ॥ 49 ॥
य॒देदयु॑क्त ह॒रित॑स्स॒धस्था॑त् ।
आद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।
मूलम्
तत्सूर्य॑स्य देव॒त्वन्तन्म॑हि॒त्वम् ।
म॒ध्या कर्तो॒र्वित॑तँ॒ सञ्ज॑भार ॥ 49 ॥
य॒देदयु॑क्त ह॒रित॑स्स॒धस्था॑त् ।
आद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।
सायण-टीका
3अथ पुरोडाशस्य पुरोनुवाक्यामाह - विततं विस्तीर्णं रश्मिजालं कर्तोर्मध्या कृष्यादिक्रियाया मध्ये संजभार संहृतवानिति यदस्ति तदेव सूर्यस्य देवत्वं, प्रकाशकत्वं तदेव महित्वं माहात्म्यम् । अयमर्थः - सूर्यरश्मिसंचारे सति तदीयप्रकाशेनानुगृहीता मनुष्याः सर्वेषु देशेषु बहुविधानि कृष्यादिकर्माण्यारभन्ते तदा यामचतुष्टयमात्रेण सर्वं रश्मिजालं संहृत्यास्तमेति । यतो रश्मिजालस्य जगत्प्रकाशनाय क्षणमात्रेण प्रसारणं पुनः संहरणं च नाल्पमहिम्नः संभवत्यतो महदेतन्माहात्म्यमिति । यदेत् यदैव सधस्थात् कर्मानुष्ठातॄणां सहावस्थानयोग्यादस्माद्देशान्मेरुमतीत्य गन्तुं हरितः स्वकीयानश्वान् अयुक्त सूर्यः स्वरथे योजयति आत् अनन्तरमेव सिमस्मै सर्वस्मै प्राणिजाताय तदुपकारार्थं रात्री वासस्तनुते लोकप्रसिद्धरत्रिनिवासं करोति । अयमर्थः - मेरुं प्रदक्षिणीकुर्वन्नादित्यो यदैवास्मान्मेरुपार्श्वादपरपार्श्वं गन्तुमुद्युक्तस्तदानीमेव रात्रिर्भवतीति ॥
विश्वास-प्रस्तुतिः
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॑ ।
सूर्यो॑ रू॒पङ्कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ ।
कृ॒ष्णम॒न्यद्ध॒रित॒स्सम्भ॑रन्ति ।
मूलम्
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॑ ।
सूर्यो॑ रू॒पङ्कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ ।
कृ॒ष्णम॒न्यद्ध॒रित॒स्सम्भ॑रन्ति ।
सायण-टीका
4अथ पुरोडाशस्य याज्यामाह - अयं सूर्यः द्योरुपस्थे द्युलोकस्योपरि रूपं कृणुते स्वकीयं रूपं करोति प्रादुर्भवतीति यदस्ति तदेतत्प्रादुर्भूतं रूपं मित्रस्य वरुणस्य तदुभयोरुपलक्षितस्य सर्वस्य जगतः अभिचक्षे अभितो दर्शनाय संपद्यते । अस्य सूर्यस्य अनन्तं पाज अत्यधिकं रश्मिजालरूपं बलं अन्यत् वक्ष्यमाणापेक्षया पृथगेव भूत्वा रुशत् दीप्यते । मध्याह्नकालेऽत्यधिकेन तेजसा प्रकाशते । अत एवान्यत्राम्नातम् - ‘बृहस्पतेर्मध्यंदिनः । तत्पुण्यं तेजसाऽहः । तस्मात्तर्हि तेक्ष्णिष्ठं तपति’ इति । अन्यत् पूर्वोक्तान्मध्यंदिनात्पृथगेव रात्रौ कृष्णं रूपं हरितः सूर्यस्याश्वाः संभरन्ति संपादयन्ति । एतेऽश्वा यदा मेरोः पश्चिमभागे गच्छन्ति तदानीमत्र कृष्णं रूपं संपद्यते ॥
विश्वास-प्रस्तुतिः
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य ।
निरँह॑सᳶ पिपृ॒तान्निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् ।
अदि॑ति॒स्सिन्धु॑ᳶ पृथि॒वी उ॒त द्यौः ॥ 50 ॥
मूलम्
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य ।
निरँह॑सᳶ पिपृ॒तान्निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् ।
अदि॑ति॒स्सिन्धु॑ᳶ पृथि॒वी उ॒त द्यौः ॥ 50 ॥
सायण-टीका
5अथ हविषः पुरोनुवाक्यामाह - हे देवा अद्या अस्मिन्दिने सूर्यस्य उदित उदितेनोदयेनास्मान् अंहसः पापान्निष्कृष्य पिपृतात् पालयत । तथा अवद्यात् लौकिकादपि द्वैषान्निष्कृष्य पिपृतात् पालयत । तत् युष्माभिः क्रियमाणमस्मत्पालनं मित्रादयः सर्वे देवा मामहन्तां अतिशयेन पूजयतु अनुमोदन्तामित्यर्थः । सिन्धुर्नदविशेषः समुद्रो वा । उतशब्दः समुच्चयार्थः ।
विश्वास-प्रस्तुतिः
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति ।
दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
नू॒नञ्जना॒स्सूर्ये॑ण॒ प्रसू॑ताः ।
आयन्नर्था॑नि कृ॒णव॒न्नपाँ॑सि ।
मूलम्
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति ।
दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
नू॒नञ्जना॒स्सूर्ये॑ण॒ प्रसू॑ताः ।
आयन्नर्था॑नि कृ॒णव॒न्नपाँ॑सि ।
सायण-टीका
6अथ हविषो याज्यामाह - अयं तरणिः सूर्य उदेति । कीदृशः? दिवो रुक्मः स्वर्गस्य भासकः । उरुचक्षाः उरुषु विस्तीर्णेषु पृथिव्यादिलोकेषु प्रकाशकः । दूरेअर्थः दूरदेशविषयेऽर्थो गमनरूपं प्रयोजनं यस्यासौ दूरेअर्थः ।
बहुदूरगमनं च पुराणे स्मर्यते -
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ इति ।
तादृशोऽयं भ्राजमानो दीप्यमानो वर्तते । नूनं वश्यं जनाः सर्वे सूर्येण प्रसूताः प्रेरिताःसन्तः अर्थानि अर्थ्यमानानि कृष्यादिफलानि आयन् प्राप्नुवन्ति । अपांसि वैदिकानि कर्माणि कृणवन् कुर्वन्ति ॥
विश्वास-प्रस्तुतिः
शन्नो॑ भव॒ चक्ष॑सा॒ शन्नो॒ अह्ना॑ ।
शम्भा॒नुना॒ शँ हि॒मा शङ्घृ॒णेन॑ ।
यथा॒ शम॒स्मै शमस॑द्दुरो॒णे ।
तत्सू॑र्य॒ द्रवि॑णन्धे॒हि चि॒त्रम् ।
मूलम्
शन्नो॑ भव॒ चक्ष॑सा॒ शन्नो॒ अह्ना॑ ।
शम्भा॒नुना॒ शँ हि॒मा शङ्घृ॒णेन॑ ।
यथा॒ शम॒स्मै शमस॑द्दुरो॒णे ।
तत्सू॑र्य॒ द्रवि॑णन्धे॒हि चि॒त्रम् ।
सायण-टीका
7अथ तस्मिन्नेव हविषि विकल्पितामन्यां पुरोनुवाक्यामाह - हे सूर्य त्वं नोऽस्माकं चक्षसा चक्षुरनुग्रहेण शं सुखहेतुर्भव । तथा नोऽस्माकं अह्ना दिननिष्पादनेन शं भव । भानुना रश्मिरूपप्रकाशनेन शं भव । हिमा हिमेन रश्मीनुपसंहृत्य शैत्यप्रदानेन शं भव । घृणेन घर्मदानेन शं भव । वसन्तग्रीष्मयोः शेत्यप्रदानमृत्वन्तरेषु घर्मप्रदानमिति विवेकः । प्रणिनां हि वसन्तादौ शैत्यापेक्षा वर्षादिष्वौष्ण्यापेक्षा अतस्तदुभयं प्रार्थ्यते । अस्मै यजमानाय गृहाद्बहिः संचरते यथा शमसत् येन प्रकारेण सुखं भवति, दुरोणे गृहे च यथा शमसत् येन प्रकारेण सुखं भवति, हे सूर्य तद्धेहि तथा कुरु । किंच चित्रं मणिमुक्तादिरूपेण नानाविधं द्रविणं धेहि संपादय ॥
विश्वास-प्रस्तुतिः
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ 51 ॥
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।
मूलम्
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ 51 ॥
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।
सायण-टीका
8अथ हविषो विकल्पितामन्यां याज्यामाह - चित्रं ताम्रारुणबभ्रुत्वादिरूपेण विचित्रं सूर्यमण्डलं उदगात् उदयं प्राप्नोत् । तदेव वैचित्र्यमन्यत्राम्नातम् - ‘असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः’ इति । कीदृशं मण्डलं? देवानामनीकं दीप्यमानबहुरश्मिरूपाणां देवानां सैन्यसदृशम् । तथा मित्रावरुणाग्न्यादीनां सर्वेषां दृष्ट्यनुग्राहकत्वेन चक्षुस्स्थानीयम् । जगतो जङ्गमस्य प्राणिजातस्य तस्थुषश्च स्थावरस्यापि आत्मा प्रत्यगात्मत्वेन हृदयेऽवस्थितः सूर्यो लोकत्रयं आप्राः सर्वतः स्वचैतन्येन स्वरश्मिना च पूरितवान् ॥
विश्वास-प्रस्तुतिः
त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीप॑म् ।
मूलम्
त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीप॑म् ।
सायण-टीका
9अथ ‘त्वाष्ट्रं वडबमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोडाशस्य याज्यानुवाक्ययोश्चत्वारि प्रतीकानि दर्शयति - ‘त्वष्टा दधदिन्द्राय’ इति वपाया: पुरोनुवाक्या । सा चेयं ‘समिद्ध इन्द्र उषसाम्’ इत्यत्र व्याख्याता ।
‘तन्नस्तुरीपमध पोषयित्नु’ इति वपाया याज्या । सा च ‘अग्निना रयिमश्नवत्’ इत्यत्र व्याख्याता ।
-
मन्त्रः तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णस्स्य॑स्व ।
यतो॑ वी॒रः [35] क॒र्म॒ण्य॑स्सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ।- टीका 6तत्रैव याज्या - तन्न इति त्रिष्टुप् ॥ ‘सुदक्षः’ इति तृतीयपादान्तः । तत् धनं तुरीपं तूर्णमाप्नोतीति तुरीपं । पृषोदरादिः । पोषयित्नु पोषयितृ । हे देव त्वष्टः रराणः दानशीलस्त्वम् । व्यत्ययेन रातोरात्मनेपदम् शपश्श्लुः । नः अस्मभ्यं अधेदानीं विष्यस्व विसृज विमुच्य देहीत्यर्थः । व्यत्ययेनात्मनेपदम् । तदित्युक्तं, किं तदित्याह - यतः यस्माद्धनाल्लब्धात् वीरः विक्रान्तः कर्मण्यः कर्मणि साधुः कुशलः सुदक्षः सुष्ठु शीघ्रः उत्साही । दक्ष शीघ्रकरणे, ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । युक्तग्रावा युक्ता ग्रावाणो यस्य तादृशः । ग्रावभिः तत्साध्यं कर्मोपलक्ष्यते कर्मशील इत्यर्थः । अत एव देवकामः । देवान् कामयते इति ‘शीलिकामि’ इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । देवैः काम्यते इति वा देवकामः । दासीभारादिर्द्रष्टव्यः । ईदृशः पुरुषः यस्माद्धनाज्जायते तत्पशुलक्षणं धनं देहीति ॥
विश्वास-प्रस्तुतिः
त्वष्टा॑ वी॒रम्पि॒शङ्ग॑रूपः ।
मूलम्
त्वष्टा॑ वी॒रम्पि॒शङ्ग॑रूपः ।
सायण-टीका
‘त्वष्टा वीरं देवकामम्’ इति पुरोडाशस्य पुरोनुवाक्या । सा च ‘समिद्धो अञ्जन्’ इत्यत्र व्याख्याता ।
-
मन्त्रः त्वष्टा॑ वी॒रन्दे॒वका॑मञ्जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
त्वष्टे॒दव्ँविश्व॒म्भुव॑नञ्जजान ब॒होᳵ क॒र्तार॑मि॒ह य॑क्षि होतः ।- टीका
9नवमी - त्वष्टेति ॥ त्वष्टा देवः वीरं विक्रान्तं देवकामं देवान् कामयमानम् । ‘शीलिकामि’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । जजान जनयति । तस्मादेवं बहोः सर्वस्य कर्तारं त्वष्टारं हे होतः! इह अस्मिन् कर्मणि यक्षि यज । लेटि ‘बहुलं छन्दसि’ इति शपो लुक् ॥
- टीका
‘पिशङ्गरूपः सुभरः’ इति पुरोडाशस्य याज्या । सा च ‘अग्निना रयिमश्नवत्’ इत्यत्र व्याख्याता ॥
-
मन्त्रः पि॒शङ्ग॑रूपस्सु॒भरो॑ वयो॒धाश्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
प्र॒जान्त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।- टीका 8अथ याज्या - पिशङ्गरूपः इति त्रिष्टुप् ॥ पिशङ्गरूपः चित्ररूपः । त्रिवर्गस्य सेविता सुभरः शोभनभरणः स्वजनस्य सम्यग्भर्तेत्यर्थः । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - देवैस्सुखेन भरणीयः । खल्प्रत्ययात्पूर्वस्योदात्तत्वम् । वयोधाः वयसोन्नस्य दाता धाता वा । श्रुष्टी क्षिप्रकारीत्येके । सत्यवादीत्यन्ये । श्रोतृषु स्त्यायते श्रुष्टी । पृषोदरादिः । वीरो देवकामश्च इत्येवंगुणः जायते त्वष्टुः प्रसादात् । तस्मादीदृशीं प्रजां त्वष्टा अस्मे अस्मभ्यं विष्यतु विमुच्य ददातु नाभिं नहनीं कुलस्य । ‘नहोभश्च’ इति । ‘सुपां सुलुक्’ इति अस्मच्छब्दात्परस्या विभक्तेस्स्मे आदेशः । अथानन्तरं देवानामपि पाथोन्नं सामर्थ्यद्देवानामपि एतु अस्मान् प्राप्नोतु । यद्वा - कर्मणि षष्ठी । पाथोन्नं हवीरूपं देवानप्येतुप्रविशतु । यागाश्च यथोक्तमनुष्ठीयन्तामित्यर्थः ॥
विश्वास-प्रस्तुतिः
दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भ॑म् ।
अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् ।
ति॒ग्मानी॑कँ॒ स्वय॑शस॒ञ्जने॑षु ।
वि॒रोच॑मान॒म्परि॑षीन्नयन्ति ।
मूलम्
दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भ॑म् ।
अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् ।
ति॒ग्मानी॑कँ॒ स्वय॑शस॒ञ्जने॑षु ।
वि॒रोच॑मान॒म्परि॑षीन्नयन्ति ।
सायण-टीका
10अथ हविषः पुरोनुवाक्यामाह - प्राच्याद्या दश दिशः इममग्निं गर्भस्थानीयं त्वष्टुः सकाशात् जनयन्त उदपादयन् । पुरा कदाचित्सर्वत आन्ध्ये सति प्रकाशार्थं दशस्वपि दिक्षु त्वष्टा वह्निमुत्पादितवानित्याख्यायिका ब्राह्माणान्तरे द्रष्टव्या । कीदृश्यो दिशः? अतन्द्रासः प्राणिधारणरूपे स्वव्यापारे कदाचिदप्यालस्यरहिताः । युवतयः नित्यतरुणस्वभावाः । कीदृशमग्निं? बिभर्त्रं दाहपाकप्रकाशप्रदानेन सर्वस्य जगतः पोषकम् । तिग्मानीकं तीक्ष्णज्वालारूपेण सैन्योपेतम् । स्वयशसं स्वतःप्रसिद्धयशोयुक्तम् । जनेषु प्राणिषु विरोचमानं उदराग्निरूपेण बहिष्प्रकाशकत्वेन च विशेषेण दीप्यमानम् । तादृशमग्निं परिषीं परितोऽवस्थितासु तत्तद्ग्रहसीमासु सर्वे प्राणिनो नयन्ति ॥
विश्वास-प्रस्तुतिः
आविष्ट्यो॑ वर्धते॒ चारु॑रासु ।
जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे॑ ॥ 52 ॥
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् ।
प्र॒तीची॑ सिँ॒हम्प्रति॑जोषयेते ।
मूलम्
आविष्ट्यो॑ वर्धते॒ चारु॑रासु ।
जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे॑ ॥ 52 ॥
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् ।
प्र॒तीची॑ सिँ॒हम्प्रति॑जोषयेते ।
सायण-टीका
11अथ हविषो याज्यामह - आविष्ट्यः आविर्भूतः चारुः शोभनः सूर्य आसु जिह्मानां आसां कुटिलानां तिर्यगवस्थितानां दिशां मध्ये उपस्थे उपरिभागे स्वयशाः स्वाधीनयशस्को वर्धते । योऽयमादित्यरूपेणोपरि वर्तते स एवाग्निरूपेण त्वष्टुः सकाशाज्जायते । जायमानात्तस्मादग्नेरुभे द्यावापृथिव्यौ बिभ्यतुः भीते आस्ताम् । अत्यन्तदहननिमित्तेयं भीतिः । ते च भीते सत्यौ प्रतीची प्रतीच्यामभिमुखे भूत्वा सिंह सिंहसदृशं दुनरासदमग्निं प्रतिपद्य जोषयेते प्रीणयतः । ततः प्रीतोऽग्निर्नात्यन्तं धक्षतीति तयोरभिप्रायः ॥
विश्वास-प्रस्तुतिः
मि॒त्रो जना॒न्प्र स मि॑त्र ।
मूलम्
मि॒त्रो जना॒न्प्र स मि॑त्र ।
सायण-टीका
12अथ ‘मैत्रँश्वेतमालभेत’ इत्यस्य पशोः सूक्तं वपाया याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘मित्रो जनान्यातयति’ इति पुरोनुवाक्या । ‘प्रसमित्र मर्तो अस्तु’ इति याज्या । एतच्चोभयं ‘त्वमग्ने बृहद्वयः’ इत्यत्र व्याखतम् ॥
-
मन्त्रः मि॒त्रो जना॑न्यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रᳵ कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यङ्घृ॒तव॑द्विधेम । -
टीका 16तत्रैव याज्या - मित्र इति त्रिष्टुप् ॥ मित्रो देवः जनान् सर्वान् यातयति चेष्टयति प्रजानन् तत्तदधिकारानुरूपविधानज्ञः मित्र एव पृथिवीमपि द्यामपि दाधार धारयितुं प्रभवति । ध्रियतेः छन्दसि लिटि तुजादित्वादभ्यासस्य दीर्घत्वम् । मित्र एव कृष्टीः मनुष्यान् विशेषेण अनिमिषा अनिमिषेणादरेणाभिचष्टे आभिमुख्येन पश्यति उपकरोतीत्यर्थः । दर्शनमुपकारः, तथाहि - ‘वक्तारो भवन्ति, सुपश्यति’ इति । मिषतेर्भावे क्विप् । यद्वा - अनिमिषाः देवाः । इगुपधलक्षणः कः, ‘सुपां सुलुक्’ इति शस आकारः । मनुष्यान् देवाश्च विशेषेण पश्यतीति । तस्मात्तस्मै सत्यायामोघफलाय देवाय हव्यं चरुलक्षणं घृतवत् घृतसंयुक्तं विधेम कुर्मः ददाम इत्यर्थः । विदधातिर्दानकर्मा, विध विधाने, तौदादिकः ॥
-
मन्त्रः प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मँहो॑ अश्ञो॒त्यन्ति॑तो॒ न दू॒रात् ।- टीका 17अथ तत्रैव याज्या विकल्प्यते - प्र स मित्रेति त्रिष्टुप् । ‘प्रयस्वान्’ इति प्रथमपादान्तः, ‘त्वोतः’ इति तृतीयपादान्तः ॥ हे मित्र स मर्तः मनुष्यः प्रयस्वान् अन्नवान् प्रास्तु प्रकर्षेण भवतु । क इत्याह – हे आदित्य अदितेः पुत्र यस्तव प्रीतेन कर्मणा यागादिना शिक्षति शक्तो भवितुमिच्छति अविघ्नेनान्वतिष्ठदित्यथः । शकेः ‘सनि मीमा’ इत्यादिना इस् । यद्वा - शिक्ष विद्योपादाने । व्रतेनेति, व्यत्ययेन द्वितीयाबहुवचनस्य स्थाने तृतीयैकवचनम् । व्रतानि शिक्षति पुनःपुनरभ्यस्यतीति । कस्मादेवमुच्यते इत्यत आह - न हन्यते न पीड्यते शत्रुभिः, व्याध्यादिभिश्च । न जीयते नाभिभूयते दारिद्र्यादिभिः । कः ? त्वोतः त्वया ऊतो रक्षितः । पृषोदरदत्वादिष्टस्वररूपसिद्धिः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । किं च - नैनं त्वया रक्षितं अंहः पापं अन्तितः अन्तितः अन्तिके समीपे सन्तं न दूरात् सन्तम् । ‘दूरान्तिकार्थेभ्यो द्वितीया च’ इति पञ्चमी, ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । अतस्त्वामेव परिचरेमेति ॥
विश्वास-प्रस्तुतिः
अ॒यम्मि॒त्रो न॑म॒स्य॑स्सु॒शेवः॑ ।
राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य ।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
मूलम्
अ॒यम्मि॒त्रो न॑म॒स्य॑स्सु॒शेवः॑ ।
राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य ।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
सायण-टीका
13अथ पुरोडाशस्य पुरोनुवाक्यामाह - अथ पशुना पूज्यमानो मित्रः देवः नमस्यः सर्वैर्नमस्कार्यः । सुशेवः सुष्ठु सेवितुं शक्यः । राजा सर्वेषां स्वामी । सुक्षत्त्रः शोभनबलयक्तः । वेधाः प्राणिनां विधाता भूत्वा अजनिष्ट प्रादुर्भूतः । यज्ञियस्य यज्ञयोग्यस्य तस्य मित्रस्य सुमतावनुग्रहरूपायां बुद्धौ वयं स्याम अवस्थिता भूयास्म । अपि च भद्रे कल्याणे सौमनसे चित्तस्वास्थ्ये स्याम अवस्थिता भूयास्म ॥
विश्वास-प्रस्तुतिः
अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः ।
मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ 53 ॥
व॒यम्मि॒त्रस्य॑ सुम॒तौ स्या॑म ।
मूलम्
अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः ।
मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ 53 ॥
व॒यम्मि॒त्रस्य॑ सुम॒तौ स्या॑म ।
सायण-टीका
14 अथ पुरोडाशस्य याज्यामाह - वयं यजमानाः मित्रस्य देवस्य सुमतौ अनुग्रहबुद्धौ स्याम सर्वदाऽवस्थिता भूयस्म । कीदृशा वयं? अनमीवासः रोगाहिताः । इडया मदन्तः अन्नसमृद्ध्या हृष्यन्तः । मितज्मवः भूमाववस्थितजानुकाः । लोके हि स्वामिनः संनिधौ विज्ञापनां कुर्वन्तो भृत्यास्तथा वर्तन्ते । पृथिव्याः संबन्धिनि वरिमन् वरिष्ठे दवयजने आ समन्तात् आदित्यस्य मित्रनाम्न आदित्यविशेषस्य संबन्ध्येतत्पशुरूपं कर्म उपक्ष्यन्तः अनुतिष्ठन्तः ॥
विश्वास-प्रस्तुतिः
मि॒त्रन्न ईँ शिम्या॒ गोषु॑ ग॒व्यव॑त् ।
स्वा॒धियो॑ वि॒दथे॑ अ॒प्स्वजी॑जनन् ।
अरे॑जयताँ॒ रोद॑सी॒ पाज॑सा गि॒रा ।
प्रति॑ प्रि॒यय्ँय॑ज॒तञ्ज॒नुषा॒मवः॑ ।
मूलम्
मि॒त्रन्न ईँ शिम्या॒ गोषु॑ ग॒व्यव॑त् ।
स्वा॒धियो॑ वि॒दथे॑ अ॒प्स्वजी॑जनन् ।
अरे॑जयताँ॒ रोद॑सी॒ पाज॑सा गि॒रा ।
प्रति॑ प्रि॒यय्ँय॑ज॒तञ्ज॒नुषा॒मवः॑ ।
सायण-टीका
15अथ हविषः पुरोनुवाक्यामाह - स्वाधियः स्वतन्त्रबुद्धयः ऋत्विजः न: अस्मदीये ईं विदथे अस्मिन्यज्ञे शिम्या अनुष्ठानेन जनयितव्यासु अप्सु निमित्तभूतामु सतीषु मित्रं देवं अजीजनम् उत्पादितवन्तः अस्मिन्कर्मण्याहुतवन्त इत्यर्थः । तत्र दृष्टान्तः - गोषु गव्यवत्, यथा गोषु गव्यं क्षीरादिकं जनयन्ति तथाऽस्मिन्कर्मणि मित्रं हविर्भोक्तृत्वेनोत्पादितवन्तः । रोदसी द्याव्यापृथिव्यौ पाजसा मित्रस्य बलेन अरेजयतां अकम्पतां मित्रस्याज्ञया वर्तेते इत्यर्थः । यजतं यजनीयं प्रियं मित्रं प्रति जनुषां जन्मवतामस्माकं अदः रक्षणं गिरा वाचा प्रार्थयामह इति शेषः ॥
विश्वास-प्रस्तुतिः
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यः॑ ।
या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म् ।
अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ।
मूलम्
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यः॑ ।
या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म् ।
अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ।
सायण-टीका
16अथ हविषो याज्यामाह - य आदित्यः अदितेः पुत्रः मित्रः महान् आकारेण बहुलः । नमसोपसद्यः नकस्कारेण सेवनीयः । यातयज्जनः एतदाराधनार्थं प्रयत्नं कारयद्भिर्जनैर्युक्तः । गृणते स्तुतिं कुर्वते यजमानाय सुशेवः सुखेन सेवितुं शक्यः । पन्यतमाय अतिशयेन स्तुत्याय तस्मै पूर्वोक्तगुणयुक्ताय मित्राय जुष्टं प्रियं एतत् हविः अग्नौ आहवनीये, हे ऋत्विज आजुहोत ॥
विश्वास-प्रस्तुतिः
आ वाँ॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ 54 ॥
हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।
घृ॒तव॑र्तनिᳶ प॒विभी॑रुचा॒नः ।
इ॒षाव्ँ वो॒ढा नृ॒पति॑र्वा॒जिनी॑वान् ।
मूलम्
आ वाँ॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ 54 ॥
हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।
घृ॒तव॑र्तनिᳶ प॒विभी॑रुचा॒नः ।
इ॒षाव्ँ वो॒ढा नृ॒पति॑र्वा॒जिनी॑वान् ।
सायण-टीका
17अथ ‘आश्विनं धूम्रमालभेत’ इत्यस्य पशोः सूक्ते वपाया पुरोनुवाक्यामाह - हेऽश्विनौ वां युवयोः रथोऽश्वैर्युक्त आयातु अस्मद्यज्ञं प्रत्यागच्छतु । कीदृशो रथः? रोदसी द्यावापृथिव्यौ बद्बधानः अतिशयेन बाधमानः । हिरण्ययः सुवर्णमयः । घृतवर्तनिः धृतं वर्तन्यां मार्गे यस्य रथस्य सोऽयं घृतवर्तनी रथमार्गः, सर्वोऽपि धृतसमानेन जलेन पूर्ण इत्यर्थः । पविभिः वज्रसमानैरायुधैः रुचानः दीप्यमानः रथस्योपरि बहून्यायुधानि तिष्ठन्तीत्यर्थः । इषां भक्तेभ्यो देयानामन्नानां वोढा । नृपतिः नृणां पालयिता । वाजिनीवान् वाजिनीभिरन्नहेतुभिर्युक्तः । कीदृशैरश्चैः? वृषभिः सेचनसमर्थैः ॥
विश्वास-प्रस्तुतिः
स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ ।
त्रि॒व॒न्धु॒रो मन॒साया॑तु यु॒क्तः ।
विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॑ ।
कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ।
मूलम्
स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ ।
त्रि॒व॒न्धु॒रो मन॒साया॑तु यु॒क्तः ।
विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॑ ।
कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ।
सायण-टीका
18अथ वपाया याज्यामाह - स रथो मनसा युक्त आयातु स्मरणमात्रेणास्मदीयं यज्ञमागच्छतु । कीदृशो रथः? पञ्चभूम अभिपप्रथानः भूमशब्दो भुवनवाची, पञ्चसंख्याकानि भुवनानि पृथिव्यन्तरिक्षद्युलोकपाताललोकजनलोकरूपाण्यभिलक्ष्य पप्रथानः अतिशयेन प्रथमानः । बन्धुरशब्देन सारथिस्थानमुच्यते । त्रीणि बन्धुराणि यस्यासौ त्रिबन्धुरः रथे बह्वश्वेषु योजितेषु कक्ष्यात्रये सारथय उपविश्य तान् सर्वानश्वान् प्रेरयन्ति । हे अश्विनौ युवां येन रथेन देवयन्तीः देवानात्मन इच्छन्तीः विशः प्रजा गच्छथ स रथः पूर्वोक्तगुणकः । हे अश्विनौ कुत्राचिन् यत्र क्वापि यामं गमनं दधाना मनसि धारयन्तो तेनैव रथेन गच्छथ इति शेषः ॥
विश्वास-प्रस्तुतिः
स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् ।
दस्रा॑ नि॒धिम्मधु॑मन्तम्पिबाथः ।
वि वाँ॒ रथो॑ व॒ध्वा॑ याद॑मानः ॥ 55 ॥
अन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ।
मूलम्
स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् ।
दस्रा॑ नि॒धिम्मधु॑मन्तम्पिबाथः ।
वि वाँ॒ रथो॑ व॒ध्वा॑ याद॑मानः ॥ 55 ॥
अन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ।
सायण-टीका
19 अथ पुरोडाशस्य पुरोनुवाक्यामाह - हे दस्रौ अश्विनौ स्वश्वा शोभनैरश्वैर्युक्तौ तथा यशसा युक्तौ अर्वागायातं अस्मदभिमुखमागच्छतम् । आगत्य च मधुमन्तं माधुर्ययुक्तं निधिं निधिसमानं वपादिकं पिबाथः भक्षयथः । वध्वा सहितयोः वां युवयोरयं रथो यादमान इतस्ततो भ्रमन् वर्तनिभ्यां चक्रधाराभ्यां चक्रमार्गाभ्यां वा दिवोऽन्तान् द्युलोकस्य पर्यन्तान् विशेषेण बाधते ॥
विश्वास-प्रस्तुतिः
यु॒वोश्श्रिय॒म्परि॒ योषा॑वृणीत ।
सूरो॑ दुहि॒ता परि॑तक्मियायाम् ।
यद्दे॑व॒यन्त॒मव॑थ॒श्शची॑भिः ।
परि॑घ्रँ॒ सवा॒म्मना॑वाव्ँ॒वयो॑गाम् ।
मूलम्
यु॒वोश्श्रिय॒म्परि॒ योषा॑वृणीत ।
सूरो॑ दुहि॒ता परि॑तक्मियायाम् ।
यद्दे॑व॒यन्त॒मव॑थ॒श्शची॑भिः ।
परि॑घ्रँ॒ सवा॒म्मना॑वाव्ँ॒वयो॑गाम् ।
सायण-टीका
20अथ पुरोडाशस्य याज्यामाह - हेऽश्विनौ सूरो दुहिता सूर्यस्य कन्यका या योषाऽस्ति सा परितक्मियायां परितो गमनलक्षणायां क्रियायां युवोः श्रियं युवयोराश्रयभूतं रथं परिवृणीत परितो वृतवती । अयमर्थः - सूर्यस्य दुहितरं परिवरितुं सर्वे देवाः कांचिन्मर्यादां चक्रुः तस्यामश्विनौ जितवन्तौ । तदानीमियं दुहिता गमनार्थं तदीयं रथं वव्र इति । इदमुपाख्यानं शाखान्तरे द्रष्टव्यम् । यद्देवयन्तं यस्मात्कारणाद्देवान्कामयमानं यजमानं हे अश्विनौ शचीभिः स्वशक्तिभिः अवयः रक्षथः तस्मात्कारणात्परिघ्रंस घस्रो दिनमित्यर्थः तस्य परितः सायंप्रातःकालयोरित्यर्थः । तयोः कालयोर्वा युवां वयो हविर्लक्षणमन्नं गां गच्छतु । कीदृशं वयः? वां मना युवयोर्मननीयम् ॥
विश्वास-प्रस्तुतिः
यो ह॒स्यवाँ॑ रथिरा॒वस्त॑ उ॒स्राः ।
रथो॑ युजा॒नᳶ प॑रि॒याति॑ व॒र्तिः ।
तेन॑ न॒श्शय्ँयोरु॒षसो॒ व्यु॑ष्टौ ।
न्य॑श्विना वहतय्ँ य॒ज्ञे अ॒स्मिन् ।
मूलम्
यो ह॒स्यवाँ॑ रथिरा॒वस्त॑ उ॒स्राः ।
रथो॑ युजा॒नᳶ प॑रि॒याति॑ व॒र्तिः ।
तेन॑ न॒श्शय्ँयोरु॒षसो॒ व्यु॑ष्टौ ।
न्य॑श्विना वहतय्ँ य॒ज्ञे अ॒स्मिन् ।
सायण-टीका
21अथ हविषः पुरोनुवाक्यामाह - हे रथिरौ रथयुक्तावश्विनौ वां युवयोः सबन्धी यो ह यः खलु रथोऽस्ति स्यः स एष रथः उस्राः उस्रैः स्वनिष्ठमणिमुक्तादिरश्मिभिः वस्ते स्वात्मानमाच्छादयति मण्यादिभिरलंकृत इत्यर्थः । स च रथो युजानः अश्वयुक्तस्सन् वर्तिन्यां मार्गे परियाति परितो गच्छति । तेन रथेन नः अस्माकं शं सुखप्राप्तिहेतुं योः दुःखवियोगहेतुं च उषसो व्युष्टौ व्युष्टायामुषसि प्रातःकाले अस्मिन्यज्ञे हे अश्विनौ निवहतं तदुभयं नितरां प्रापयतम् ॥
विश्वास-प्रस्तुतिः
यु॒वम्भु॒ज्युमव॑विद्धँ समु॒द्रे ॥ 56 ॥
उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।
प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ ।
दँ॒सना॑भिरश्विना पा॒रय॑न्ता ।
मूलम्
यु॒वम्भु॒ज्युमव॑विद्धँ समु॒द्रे ॥ 56 ॥
उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।
प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ ।
दँ॒सना॑भिरश्विना पा॒रय॑न्ता ।
सायण-टीका
22अथ हविषो याज्यामाह - हे अश्विनौ युवं युवामुभौ समुद्रे अवविद्धं निमग्नं भुज्युं कंचिद्राजानं भुज्युनामकं अर्णस उदकात् दूहथुः ऊर्ध्वमानीतवन्तौ । केन साधनेनेति तदुच्यते - अस्रिधानैः अमन्दवेगैः पतत्रिभिः पक्षिविशेषैः । अश्रमैः श्रमरहितैः । अव्यथिभिः भयरहितैः । कीदृशावश्निनौ? दंसनाभिः व्यापारविशेषैः पारयन्ता तीरं प्रापयन्तौ । भुज्युनाम्नो राज्ञोऽश्विभ्यां समुद्रादुद्धरणमन्यत्रापि ‘तमूहथुर्नौभिरात्मन्वतीभिः’ इति मन्त्रे स्पष्टमाम्नातम् ॥
विश्वास-प्रस्तुतिः
अग्नी॑षोमा॒ यो अ॒द्य वा॑म् ।
इ॒दव्ँवच॑स्सप॒र्यति॑ ।
तस्मै॑ धत्तँ सु॒वीर्य॑म् ।
गवा॒म्पोषँ॒ स्वश्वि॑यम् ।
मूलम्
अग्नी॑षोमा॒ यो अ॒द्य वा॑म् ।
इ॒दव्ँवच॑स्सप॒र्यति॑ ।
तस्मै॑ धत्तँ सु॒वीर्य॑म् ।
गवा॒म्पोषँ॒ स्वश्वि॑यम् ।
सायण-टीका
23अथ तृतीयकाण्डोक्तस्य ‘अग्नीषोमीयामालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - हे अग्नीषोमौ योऽयं यजमानोऽस्मिन्कर्मणि वां युवां इदं वचः अनेन वचसा प्रयुज्यमानेन मन्त्रेण सपर्यति परिचरति, तस्मै यजमानाय सुवीर्यं शोभनसामर्थ्यं गवां पोषं गोसमृद्धिं स्वश्वियं शोभनाश्वसमूहं च धत्त संपादयतम् ॥
विश्वास-प्रस्तुतिः
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् ।
दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
तस्य॑ व्र॒तँ र॑क्षतम्पा॒तमँह॑सः ॥ 57 ॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
मूलम्
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् ।
दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
तस्य॑ व्र॒तँ र॑क्षतम्पा॒तमँह॑सः ॥ 57 ॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
सायण-टीका
24अथ वपाया याज्यामाह - हेऽग्नीषोमौ यः यजमानः हविषा पशुरूपेण सपर्यात् परिचरति, यश्च देवद्रीचा देवान्प्राप्नुवता मनसा मननीयेन घृतेन परिचरति तस्य यजमानस्य व्रतं इदं कर्म विघ्नेभ्यो रक्षतम् । तं च यजमानं अंहसः पापात् पातं रक्षतम् । विशे प्रजायुक्ताय यजमानाय जनाय मनुष्याय यजमानाय महि शर्म महत्सुखं यच्छतम् ॥
विश्वास-प्रस्तुतिः
अग्नी॑षोमा॒ य आहु॑तिम् ।
यो वा॒न्दाशा॑द्ध॒विष्कृ॑तिम् ।
स प्र॒जया॑ सु॒वीर्य॑म् ।
विश्व॒मायु॒र्व्य॑श्ञवत् ।
मूलम्
अग्नी॑षोमा॒ य आहु॑तिम् ।
यो वा॒न्दाशा॑द्ध॒विष्कृ॑तिम् ।
स प्र॒जया॑ सु॒वीर्य॑म् ।
विश्व॒मायु॒र्व्य॑श्ञवत् ।
सायण-टीका
25अथ पुरोडाशस्य पुरोनुवाक्यामाह - हेऽग्नीषोमौ योऽयं यजमान आहुतिं दाशात् दद्यात् । तदेव पुनर्वाक्यान्तरेण स्पष्टीक्रियते - यः यजमानः वां युवाभ्यां हविष्कृतिं हविर्योग्येन संस्कारेण संस्कृतामाहुतिं दाशात् दद्यात्, मन्त्रेण क्रियया चाविकलं यथा भवति तथाऽनुतिष्ठेदित्यर्थः । स यजमानः प्रजया पुत्रपौत्रादिरूपया सह सुवीर्यं शोभनसामर्थ्ययुक्तं विश्वमायुः शतसंवत्सरपर्यन्तमायुः व्यश्नवत् विशेषेण प्राप्नोति ॥
विश्वास-प्रस्तुतिः
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यव्ँ॑वाम् ।
यदमु॑ष्णीतमव॒सम्प॒णिङ्गोः ।
अवा॑तिरत॒म्प्रथ॑यस्य॒ शेषः॑ ।
अवि॑न्दत॒ञ्ज्योति॒रेक॑म्ब॒हुभ्यः॑ ।
मूलम्
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यव्ँ॑वाम् ।
यदमु॑ष्णीतमव॒सम्प॒णिङ्गोः ।
अवा॑तिरत॒म्प्रथ॑यस्य॒ शेषः॑ ।
अवि॑न्दत॒ञ्ज्योति॒रेक॑म्ब॒हुभ्यः॑ ।
सायण-टीका
26अथ पुरोडाशस्य याज्यामाह - हेऽग्नीषोमौ पणिं पणिनाम्नः कस्यचिदसुरस्य गोः यावत्यो गावः सन्ति ताः सर्वाः अमुष्णीतं युवामपहृतवन्ताविति यदेतदस्ति तदेतत् वां वीर्यं युवयोः शौर्यं चेति चेतसि सर्वो जनो विजानाति । पागिनामकः कश्चिदसुरो देवेभ्यो भीतः स्वकीया गाः स्वीकृत्य क्वचित्पलायनमकरोत् । तदानीमेतावग्नीषोमौ ताः सर्वा गा बलादानीतवन्तौ । सेयमाख्यायिका शाखान्तरे द्रष्टव्या । हेऽग्नीषोमौ तथा युवां प्रथयस्य प्रथयनाम्नः: कस्यविदसुरस्य शेषः शेषमपत्यं वृत्रनामानमसुरं अवातिरतं इन्द्रद्वारा विनाशितवन्तौ । ततस्तमोरूपस्यासुरस्य वृत्रस्य नाशात् बहुभ्यः बहुयजमानोपकारार्थं ज्योतिरेकं संपूर्णं चन्द्रमण्डलरूपं ज्योतिः प्रकाशं अविन्दतं लब्धवन्तौ । इदं च वृत्रवधाख्यानं ‘त्वष्टा हतपुत्रः’ इत्यनुवाके प्रपञ्चितम् । तत्र हि ‘ध्नन्ति वा एनं पूर्णमासः’ इति वाक्ये तमोरूपस्य वृत्रस्य वधे सति पौर्णमासदिने संपूर्णचन्द्रफलरूपस्य प्रकाशस्याविर्भावः श्रुतः, तत्सर्वमत्र संगृह्योक्तम् ॥
विश्वास-प्रस्तुतिः
अग्नी॑षोमावि॒मँ सु मेऽग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य ॥ 58 ॥
मूलम्
अग्नी॑षोमावि॒मँ सु मेऽग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य ॥ 58 ॥
सायण-टीका
27अथ हविषो याज्यानुवाकयोः प्रतीके दर्शयति - ‘अग्नीषोमाविमँसुमे शृणुतम्’ इति पुरोनुवाक्या ।
-
मन्त्रः अग्नी॑षोमावि॒मँ सु मे॑ शृणु॒तव्ँवृ॑षणा॒ हव॑म् ।
प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तन्दा॒शुषे॒ मयः॑ । -
टीका 9अग्नीषोमीयमष्टाकपालं निर्वपेत् ब्रह्मवर्चसकामः’ इत्यस्य पुरोनुवाक्या - अग्नीषोमावित्यनुष्टुप् ॥ हे अग्नीषोमौ वृषणा कामानां वर्षितारौ । ‘सुपां सुलुक्’ इत्याकारः । इमं मे हवं आह्वानं सुशृणुतं सुष्ठु शृणुतं आह्वानप्रयोजनं यथावत्कुरुतमिति यावत् । ‘भावेनुपसर्गस्य’ इति ह्वयतेः अप् सम्प्रसारणं च । किञ्च - श्रुत्वाह्वानं अस्माकं सूक्तानि प्रतिहर्यतं मनसा प्रतिगृह्णीतम् । हर्य गतौ । तथा कृत्वा दाशुषे हविर्दत्तवते तस्मै यजमानाय मयः सुखहेतू भवतम् ॥
‘अग्नीषोमा हविषः प्रस्थितस्य’ इति याज्या । एतच्चोभयं ‘सप्रत्नवं निकाव्य’ इत्यत्र व्याख्यातम् ॥
-
मन्त्रः अग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य वी॒तम् [52] हर्य॑तव्ँवृषणा जु॒षेथा॑म् ।
सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तय्ँ॒यज॑मानाय॒ शय्ँयोः । -
टीका 11 अथ याज्याविकल्पः - अग्नीषोमा हविष इति त्रिष्टुप् ॥ हे अग्नीषोमौ हविषः प्रस्थितस्य उपस्थितस्य प्रारब्धस्य वा वीतं खादतम् । वी गत्यादिषु, आदादिकः । हर्यतं मनसा प्रत्रिगृह्णीतं स्पृहयतम् । ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । जुषेथां नित्यं सेवेथाम् । पूर्ववल्लसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । हे वृषणा वर्षितारौ कामानां युवां सुशर्माणा सुशर्माणौ सुग्रहौ सुसुखौ वा स्ववसा स्ववसौ शोभनरक्षणौ । उभयत्र पूर्ववदात्वम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । ईदृशौ युवां यजमानो भूतं भवतम् । ‘बहुळं छन्दसि’ इति शपो लुक्, ‘हि च’ इति निघाताभावः । अथानन्तरं यजमानाय धत्त दत्तं शं शमनं रोगाणां योः यावतश्च आगामिनां भयानाम् । शाम्यतियौतिभ्यां व्यत्ययेन भावे विचि वचनव्यत्ययः । यौतेर्वा असुनि अडादेशाभावः । अपदान्तेपि पूर्ववद्रुत्वं, णिद्वद्भावाभावश्च । ब्रह्मवर्चसिनं च कुरुतमिति ॥
अत्र विनियोगसंग्रहः-
सूर्यो देवी श्वेतसौर्ये ब्रह्मवर्चसकामिनः ।
शं नो भवेति मन्त्रौ द्वौ पूर्वत्रैव विकल्पितौ ॥ १ ॥
त्वष्टा दधदिति त्वाष्ट्रवडवे पशुकामिनः ।
मित्रो जनेति मैत्रे स्यात्सङ्ग्रामे समयार्थिनः ॥ २ ॥
आ वां रथ इति त्वेतदाश्विने धूम्रलाञ्छिते ।
अग्नीषोमा वशायां स्यादन्नजयामन्नकामिनः ॥ ३ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके सप्तमोऽनुवाकः ॥