सायणोक्त-विनियोगः
13अथ ‘मैत्रावरुणीं द्विरूपामालभेत’ इत्यस्य पशोः सूक्ते पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
आ वा॑म्मित्रावरुणा ह॒व्यजु॑ष्टिम् ।
नम॑सा देवा॒वव॑साववृत्याम् ॥ 44 ॥
अ॒स्माक॒म्ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक॑म् ।
वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ।
मूलम्
आ वा॑म्मित्रावरुणा ह॒व्यजु॑ष्टिम् ।
नम॑सा देवा॒वव॑साववृत्याम् ॥ 44 ॥
अ॒स्माक॒म्ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक॑म् ।
वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ।
सायण-टीका
मित्रावरुणा हे मित्रावरुणौ देवौ अवसा अस्मद्रक्षणेन निमित्तभूतेन वां युवयोः हव्यजुष्टिं हविषः प्रीतिं नमसा नमस्कारेण सह आववृत्यां पुनः पुनरावर्तयामि । अतो भवत्प्रसादादस्माकं पृतनासु परकीयसेनासु प्राप्तासु व्रह्म भवदुपदिष्टं मन्त्रजातं सह्याः सहतां परकीयसेना अभिभवतु । किं चास्माकं भवत्प्रसादात् दिवि भवा दिव्या वृष्टिः सुपारा सुष्ठु पारयित्री फलं प्रापयन्ती भवतु ॥
सायणोक्त-विनियोगः
14अथ वपाया याज्यामाह -
विश्वास-प्रस्तुतिः
यु॒वव्ँवस्त्रा॑णि पीव॒सा व॑साथे ।
यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः॑ ।
अवा॑तिरत॒मनृ॑तानि॒ विश्वा॑ ।
ऋ॒तेन॑ मित्रावरुणा सचेथे ।
मूलम्
यु॒वव्ँवस्त्रा॑णि पीव॒सा व॑साथे ।
यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः॑ ।
अवा॑तिरत॒मनृ॑तानि॒ विश्वा॑ ।
ऋ॒तेन॑ मित्रावरुणा सचेथे ।
सायण-टीका
हे मित्रावरुणौ पीवसा अतिस्थूलौ युवं युवामुभौ वस्त्राणि बहुविधानि वसाथे आच्छादयतः । युवोः युवयोः मन्तवः मननरूपा अनुग्रहविशेषाः सर्गाः भवद्विः सृष्टा अच्छिद्राः अछिन्नाः निरन्तरं भवदनुग्रहादस्मासु वर्तन्त इत्यर्थः । विश्वा सर्वाण्यनृतानि अस्मदीयापराधरूपाणि अवातिरतं युवां विनाशितवन्तौ । हे मित्रावरुणौ, ऋतेन सत्येन शास्त्रीयमार्गेण सचेथे अस्मान् संयोजयथः ॥
सायणोक्त-विनियोगः
15अथ पुरोडाशस्य पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
तत्सु वा॑म्मित्रावरुणा महि॒त्वम् ।
ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।
विश्वा॑ᳶ पिन्वथ॒ स्वस॑रस्य॒ धेनाः॑ ।
अनु॑ वा॒मेक॑ᳶ प॒विरा व॑वर्ति ॥ 45 ॥
मूलम्
तत्सु वा॑म्मित्रावरुणा महि॒त्वम् ।
ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।
विश्वा॑ᳶ पिन्वथ॒ स्वस॑रस्य॒ धेनाः॑ ।
अनु॑ वा॒मेक॑ᳶ प॒विरा व॑वर्ति ॥ 45 ॥
सायण-टीका
हे मित्रावरुणौ वां युवयोः तत् महित्वं माहात्म्यं सु अत्यन्तं सुष्ठु वर्तते । किं तन्माहात्म्यमिति तदुच्यते - ईर्मा गमनशीले आदित्ये तस्थुषीः रश्मिद्वारेणावस्थिता अपः अहभिः सर्वेष्वहस्सु दुदुहे युवां दुग्धवन्तौ । आदित्यमण्डले रश्मिद्वारा यो जलसंग्रहः पुनरपि संगृहीतस्य यद्वर्षणं तदुभयमाश्चर्यरूपं भवदीयं माहात्म्यम् । स्वयं सरति सर्वदा गच्छतीति स्वसर आदित्यः तस्य संबन्धिना वृष्टिजलेन धेना धातव्याः पोषणीयाः, विश्वाः सर्वाः प्रजाः पिन्वथ प्रीणयथः । अनु वृष्टिकालानन्तरमेव वां युवयोर्मध्य एको मित्र आदित्यः पविः स्वकीयेनातपेन पङ्कयुक्ताया भूमेः शोषकस्सन् आववर्ति पुनः पुनरावर्तते ॥
सायणोक्त-विनियोगः
16अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः
यद्बँहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू ।
अच्छि॑द्रँ॒ शर्म॒ भुव॑नस्य गोपा ।
ततो॑ नो मित्रावरुणाववीष्टम् ।
सिषा॑सन्तो जीगि॒वाँस॑स्स्याम ।
मूलम्
यद्बँहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू ।
अच्छि॑द्रँ॒ शर्म॒ भुव॑नस्य गोपा ।
ततो॑ नो मित्रावरुणाववीष्टम् ।
सिषा॑सन्तो जीगि॒वाँस॑स्स्याम ।
सायण-टीका
भुवनस्य लोकस्य गोपा रक्षकौ सुराः शोभनस्य फलस्य दातारौ हे मित्रावरुणौ यद्यस्मात्कारणात् बंहिष्ठं अत्यन्तबहुलं अच्छिद्रं विनाशरहितं शर्म सुखं नातिविदे भवदनुग्रहं विना प्रकारान्तरेणास्मभिर्नात्यन्तं लभ्यं ततः कारणात् हे मित्रावरुणौ नोऽस्मान् अवीष्टं रक्षितवन्तौ । सिषासन्तः भवद्दत्तं फलं लब्धुमिच्छन्तः वयं जीगिवांसः जेतुं प्राप्तवन्तः स्याम ॥
सायणोक्त-विनियोगः
17अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
आ नो मित्रावरुणा ह॒व्यदा॑तिम् ।
घृ॒तैर्गव्यू॑तिमुक्षत॒मिडा॑भिः ।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य ।
पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ।
मूलम्
आ नो मित्रावरुणा ह॒व्यदा॑तिम् ।
घृ॒तैर्गव्यू॑तिमुक्षत॒मिडा॑भिः ।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य ।
पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ।
सायण-टीका
हे मित्रावरुणौ युवां हव्यदातिं हविर्दानहेतु नो गव्यूतिं अस्मदीयं गोसमूहं इडाभिः तृणादिभक्ष्यषिशेषैः सह तज्जनितेन घृतेन आज्येन आ समन्तात् उक्षतं सिञ्चतम् । बहुविधगोग्रासद्वारा घृतसंपूर्तिं कुरुतमित्यर्थः । हे मित्रावरुणौ वां युवां अत्र अस्मिन्देशे जनाय सर्वजनोपकारार्थं दिव्यस्य दिवि भवस्य चारोरुद्रः समीचीनस्योदकस्य वरं श्रेष्ठं सारं प्रति पृणतिं प्रतिक्षेत्रं पूरयतम् ॥
सायणोक्त-विनियोगः
18अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः ।
आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ॥ 46 ॥
आ नो॒ जने॑ श्रवयतय्ँ युवाना ।
श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ।
मूलम्
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः ।
आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ॥ 46 ॥
आ नो॒ जने॑ श्रवयतय्ँ युवाना ।
श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ।
सायण-टीका
हे मित्रावरुणौ नो जीवसे अस्माकं जीवनार्थं बाहवा भवदीयौ बाहू प्रसिसृतं प्रसारयतं बाहू प्रसार्यास्मानादाय रक्षतमित्यर्थः । नो गव्यूतिं अस्मदीयं गोसमूहं आ समन्तात् धृतेन उक्षतं सिञ्चतम् । युवाना नित्यतरुणौ परस्परमिश्रितौ वा, युवां नः अस्मात् जने जनमध्ये श्रवयतं प्रख्यापयतम् । हे मित्रावरुणौ मे मदीयं इमा हवा श्रुतमिदमाह्वानं शृणुतम् ॥