सायणोक्त-विनियोगः
7अथ ‘वैश्वदेवं बहुरूपमालमेतान्नकामः’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः ।
मि॒त्रो अ॑र्य॒मा वरु॑णस्स॒जोषाः॑ ।
भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ ।
कर॑न्त्सु॒षाहा॑ विथु॒रन्न शवः॑ ।
मूलम्
आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः ।
मि॒त्रो अ॑र्य॒मा वरु॑णस्स॒जोषाः॑ ।
भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ ।
कर॑न्त्सु॒षाहा॑ विथु॒रन्न शवः॑ ।
सायण-टीका
मित्रः अर्यमा वरुण इत्याद्याः सजोषाः समानप्रीतयो विश्वे सर्वे देवा अस्क्रा आभिमुख्येन कर्तारः सन्तो नोऽस्मान्प्रत्यागमन्तु आगच्छन्तु । विश्वे देवा नो वृधासः अस्मान्वर्धयितारो यथा भुवन् भवन्ति शवः अस्मदीयं बलं सुषाहा सुषहं परेषामभिभवितृ विथुरं न अचलितं यथा करन् कुर्वन्ति तथाऽस्मानागच्छन्त्विति पूर्वत्रान्वयः ॥
सायणोक्त-विनियोगः
8अथ वपाया याज्यामाह -
विश्वास-प्रस्तुतिः
शन्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु ।
शँ सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ 42 ॥
शम॑भि॒षाच॒श्शमु॑ राति॒षाचः॑ ।
शन्नो॑ दि॒व्याᳶ पार्थि॑वा॒श्शन्नो॒ अप्याः॑ ।
मूलम्
शन्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु ।
शँ सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ 42 ॥
शम॑भि॒षाच॒श्शमु॑ राति॒षाचः॑ ।
शन्नो॑ दि॒व्याᳶ पार्थि॑वा॒श्शन्नो॒ अप्याः॑ ।
सायण-टीका
विश्वदेवशब्दो वसुरुद्रादिशब्दवद्गणविशेषवाची । विश्वदेवाख्या देवा नोऽस्माकं शं सुखहेतवो भवन्तु । सरस्वती देवी धीभिः बुद्ध्यभिमानिनीभिर्देवताभिः सह शं सुखहेतुरस्तु । अभितः सचन्ते समवयन्तीत्यभिषाचो बान्धवाः ते शं सुखहेतवो भवन्तु । रातिर्मित्रं तेन सचन्त इति रातिषाचो मित्रद्वारा संबध्यमानाः पुरुषा उ तेऽपि शं सुखहेतवो भवन्तु । दिवि भवा दिव्याः पृथिवयं भवाः पार्थिवा अपोऽन्तरिक्षं तत्र भवा अप्याः ‘ये देवा दिव्येकादश स्थ’ इत्यत्र पठिता लोकत्रयवर्तिनो देवाः शं सुखहेतवो भवन्तु ॥
सायणोक्त-विनियोगः
9अथ पुरोडाशस्य पुरोनुवाक्यमाह -
विश्वास-प्रस्तुतिः
ये स॑वि॒तुस्स॒त्यस॑वस्य॒ विश्वे॑ ।
मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।
ते सौभ॑गव्ँवी॒रव॒द्गोम॒दप्नः॑ ।
दधा॑तन॒ द्रवि॑णञ्चि॒त्रम॒स्मे ।
मूलम्
ये स॑वि॒तुस्स॒त्यस॑वस्य॒ विश्वे॑ ।
मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।
ते सौभ॑गव्ँवी॒रव॒द्गोम॒दप्नः॑ ।
दधा॑तन॒ द्रवि॑णञ्चि॒त्रम॒स्मे ।
सायण-टीका
ये विश्वे देवाः सत्यसवस्य सत्यप्रेरणस्य सवितुः मित्रस्य वरुणस्य च संबन्धिनि व्रते कमेणि समागतास्ते सर्वे यूयं सौभगं सौभाग्यं अप्नः कर्मविशेषं द्रविणं धनं च अस्मे दधातन अस्मासु संपादयत । कीदृशं सौभगं? वीरवते बहुभिर्वीरैः पुत्रैर्युक्तम् । गोमत् बहुभिर्गोभिर्युक्तम् । कीदृशं द्रविणं? चित्रं मणिमुक्तादिभेदेन बहुविधम् ॥
सायणोक्त-विनियोगः
10अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः
अग्ने॑ या॒हि दू॒त्यव्ँ॑वारि॑षेण्यः ।
दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
सर॑स्वतीम्म॒रुतो॑ अ॒श्विना॒पः ।
य॒क्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥ 43 ॥
मूलम्
अग्ने॑ या॒हि दू॒त्यव्ँ॑वारि॑षेण्यः ।
दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
सर॑स्वतीम्म॒रुतो॑ अ॒श्विना॒पः ।
य॒क्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥ 43 ॥
सायण-टीका
हेऽग्ने देवानच्छा देवानभिलक्ष्य दूत्यं याहि दूतकर्म कुरु । वारिषेण्यः मा रीरिषः कार्यविघातेनास्मान्मा हिंसीः । कान्देवानभिलक्ष्येति तदुच्यते - ब्रह्म परिवृढमिदं कर्म करोतीति ब्रह्मकृतेन कर्मकारिणा वैश्वदेवगणेन सह सरस्वत्यादीन्देवानभिलक्ष्य दूत्यं कृत्वा रत्नधेयाय रत्नसंपादनाय विश्वान्देवान् यक्षि पूजय ॥
सायणोक्त-विनियोगः
11अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
द्यौᳶ पि॑त॒ᳶ पृथि॑वि॒ मात॒रध्रु॑क ।
अग्ने॑ भ्रातर्वसवो मृ॒डता॑ नः ।
विश्व॑ आदित्या अदिते स॒जोषाः॑ ।
अ॒स्मभ्यँ॒ शर्म॑ बहु॒लव्ँ वि य॑न्त ।
मूलम्
द्यौᳶ पि॑त॒ᳶ पृथि॑वि॒ मात॒रध्रु॑क ।
अग्ने॑ भ्रातर्वसवो मृ॒डता॑ नः ।
विश्व॑ आदित्या अदिते स॒जोषाः॑ ।
अ॒स्मभ्यँ॒ शर्म॑ बहु॒लव्ँ वि य॑न्त ।
सायण-टीका
येयं द्यौस्तद्रूप हे पितस्त्वं अध्रुक् द्रोहरहितः । हे पृथिवि मातः त्वमप्यध्रुक् । हेऽग्ने भ्रातः त्वमप्यध्रुक् हे वसवो यूयमप्यद्रुहः । ते यूयमस्माकं द्रोहमनाचरन्तो ‘नोऽस्मान्मृडत सुखयत । हे विश्वे देवा हे आदित्या हे अदिते यूयं सजोषाः समानप्रीतयोऽस्मभ्यं बहुलं शर्म सुखं वियन्त विषेण यच्छत ॥
सायणोक्त-विनियोगः
12अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः
विश्वे॑ देवाश्शृणु॒तेमँ हव॑म्मे ।
ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।
मूलम्
विश्वे॑ देवाश्शृणु॒तेमँ हव॑म्मे ।
ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।
सायण-टीका
हे विश्वे देवाः मे हवं मदीयमाह्वानं शृणुत । ये यूयमन्तरिक्षे स्थ अन्तरिक्षलोके स्थिताः ये चोप समीपे पृथिव्यां स्थिताः ये च द्यवि दिवि लोके स्थ ये यूयमग्निजिह्वा अग्निद्वारेण हविषः स्वीकर्तारः उत वा अन्येऽपि वा यजत्राः यष्टव्याः ते सर्वेऽप्यस्मिर्न्बीहषि यागे आसद्य उपविश्य मादयध्वं दृप्ता भवत । अस्मानपि हर्षयत ॥