सायणोक्त-विनियोगः
(SB) 1पञ्चम ऐन्द्राग्नपश्वादींनां सूक्तान्यभिहितानि । षष्ठे सावित्रादि पशूनां सूक्तान्यभिधीयन्ते । तत्र ‘सावित्रमुपध्वस्तमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ ।
अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः॑ ।
हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
नि॒वे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ।
मूलम्
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ ।
अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः॑ ।
हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
नि॒वे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ।
सायण-टीका
सविता देवः आयातु आगच्छतु । कीदृशः? सुरत्नः शोभनै रत्नैर्युक्तः । अन्तरिक्षप्ताः स्वकीयै रश्मिभिरन्तरिक्षं पूरयिता । अश्वैर्वहमानः स्वकीयैरश्वै रथं वाहयन् । नर्या नरेभ्यो हितानि पुरूणि बहूनि रत्नानि यजमानाय दातुं हस्ते दधानः । भूम बहुलं जगत्प्राणिजातं निवेशयंश्च रात्रौ स्वस्वगृहेऽवस्थापयन्नपि प्रसुवंश्च दिवसे स्वस्वव्यापारेषु प्रेरयन्नपि वर्तत इति शेषः॥
सायणोक्त-विनियोगः
2अथ वपाया याज्यामाह -
विश्वास-प्रस्तुतिः
अ॒भीवृ॑त॒ङ्कृश॑नैर्वि॒श्वरू॑पम् ।
हिर॑ण्यशम्यय्ँयज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथँ॑ सवि॒ता चि॒त्रभा॑नुः ।
कृ॒ष्णा रजाँ॑ सि॒ तवि॑षी॒न्दधा॑नः ।
मूलम्
अ॒भीवृ॑त॒ङ्कृश॑नैर्वि॒श्वरू॑पम् ।
हिर॑ण्यशम्यय्ँयज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथँ॑ सवि॒ता चि॒त्रभा॑नुः ।
कृ॒ष्णा रजाँ॑ सि॒ तवि॑षी॒न्दधा॑नः ।
सायण-टीका
अयं सविता रथमास्थात् आरूढवान् । कीदृशं रथं? कृशनैरभीवृतं कुशनशब्दः सुवर्णवाची सुवर्णैरभितोऽलंकृतमित्यर्थः । विश्वरूपं अनेकैराकारैरुपेतम् । हिरण्यशम्यं युगच्छिद्रे प्रक्षेपणीयः काष्ठविशेषः शम्या सुवर्णमयीभ्यां शम्याभ्यामुपेतम् । बृहन्तं अतिप्तौढम् । कीदृशः सविता? यजतो यष्टव्यः । चित्रभानुः बडुविधरश्मियुक्तः । तविषीं स्वकीयं बलं प्राप्य कृष्णारजांसि दधानः क्वचित्कृष्णानि रूपाणि क्वचिद्रक्तानि रूपाणि धारयन् वर्तते । एतद्रूपान्तराणामप्युपलक्षणम् । अत एव छन्दोगाः - ‘असौ वा आदित्यो देवमधु’ इत्येतस्यां मधुविद्यायां - ‘यदेतदादित्यस्य रोहितं रूप यदेतदादित्यस्य शुक्रं रूपं यदेतदादित्यस्य कृष्णं रूपम्’ इति बहुविधानि रूपाण्यामनन्ति ॥
सायणोक्त-विनियोगः
3अथ पुरोडाशस्य पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
सघा॑ नो दे॒वस्स॑वि॒ता स॒वाय॑ ।
आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि ॥ 40 ॥
वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् ।
म॒र्त॒भोज॑न॒मध॑रासतेन ।
मूलम्
सघा॑ नो दे॒वस्स॑वि॒ता स॒वाय॑ ।
आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि ॥ 40 ॥
वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् ।
म॒र्त॒भोज॑न॒मध॑रासतेन ।
सायण-टीका
सघा स एव सविता देवो वसुपतिः धनपतिर्भूत्वा नोऽस्माकं सवाय कर्मानुष्ठानाय वसूनि धनानि आसाविषत् सर्वतः संपादितवान् । किं कुर्वन् - उरूचीं विस्तीर्णां गतिं अमतिमस्मदीयां मन्दप्रज्ञां विश्रयमाणो विप्रतिषेधन् । अथानन्तरं मर्तभोजनं मनुष्यैर्भोक्तुं योग्यमन्नं न रासतेऽस्मभ्यं ददाति ॥
सायणोक्त-विनियोगः
4अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः
विजना॑ञ्छ्या॒वाश्शि॑ति॒पादो॑ अख्यन् ।
रथँ॒ हिर॑ण्यप्रउगव्ँ॒वह॑न्तः ।
शश्व॒द्दिश॑स्सवि॒तुर्दैव्य॑स्य ।
उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ।
मूलम्
विजना॑ञ्छ्या॒वाश्शि॑ति॒पादो॑ अख्यन् ।
रथँ॒ हिर॑ण्यप्रउगव्ँ॒वह॑न्तः ।
शश्व॒द्दिश॑स्सवि॒तुर्दैव्य॑स्य ।
उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ।
सायण-टीका
श्यावाः श्यामवर्णाः शितिपादः श्वेतैः पादैर्युक्ताः सवितुरश्वा जनान् जन्तून् व्यख्यन् विशेषेण ज्ञापितवन्तः । अश्वेषु गच्छत्सु हि आदित्यो गच्छतीत्येवं जानन्ति । कीदृशा अश्वाः? रथं वहन्तः । कीदृशं रथं? हिरण्यप्रउगम्, ईषाग्रयोर्योगः प्रउग इत्युच्यते, सुवर्णमयः प्रउगो यस्य रथस्य सोऽयं हिरण्यप्रउगस्तम् । दैव्यस्य देवेभ्यो हितस्य सवितुरुपस्थे उत्सङ्गे दिशः प्राच्याद्या विश्वा भुवनानि पृथिव्यादयः स्वे लोकाश्च शश्वत्तस्थुनिरन्तरं तिष्ठन्ति । सवितृप्रकाशमध्ये वर्तमानमेव तदुत्सङ्गावस्थानम् ॥
सायणोक्त-विनियोगः
5अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् ।
ग॒भी॒रवे॑पा॒ असु॑रस्सुनी॒थः ।
क्वे॑दानीँ॒ सूर्य॒ᳵ कश्चि॑केत ।
क॒त॒मान्द्याँ र॒श्मिर॒स्या त॑तान ॥ 41 ॥
मूलम्
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् ।
ग॒भी॒रवे॑पा॒ असु॑रस्सुनी॒थः ।
क्वे॑दानीँ॒ सूर्य॒ᳵ कश्चि॑केत ।
क॒त॒मान्द्याँ र॒श्मिर॒स्या त॑तान ॥ 41 ॥
सायण-टीका
सुपर्णः पक्षिसदृश आदित्यः । आकाशगामित्वात्पक्षिसादृश्यम् । तादृश आदित्यः अन्तरिक्षाणि आकाशप्रदेशविशेषान् व्यख्यत् विशेषेण प्रकाशितवान् । पृतिव्यन्तरिक्षद्युलोकान्सर्वान्प्रकाशयतीत्यर्थः । कीदृशः सविता? गभीरवेपाः, वेपशब्दः कर्मवाची, उदयास्तमयलक्षणगभीरकर्मेत्यर्थः । असुरः प्राणप्रदः । अतएवान्यत्राम्नायते - ‘योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति’ इति । सुनीथः प्रशस्तः । एवंभूत आदित्यः इदानीं रात्रौ क्व प्रदेशे वर्तत इत्येवं कश्चिकेत को वा जानाति । अस्य सूर्यस्य रश्मिः कतमां द्यामाततान कं नामाकाशभागं व्याप्नोतीति को वा जानाति । रात्रौ सूर्यस्य तद्रश्मेश्चावस्थानदेशस्य बुद्धिमद्भिरपि दुर्विज्ञेयत्वादयमचिन्त्यमहिमेत्यर्थः ॥
सायणोक्त-विनियोगः
6अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः
भग॒न्धियव्ँ॑वा॒जय॑न्त॒ᳶ पुर॑न्धिम् ।
नरा॒शँसो॒ ग्नास्पति॑र्नो अव्यात् ।
आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् ।
प्रि॒या दे॒वस्य॑ सवि॒तुस्स्या॑म ।
मूलम्
भग॒न्धियव्ँ॑वा॒जय॑न्त॒ᳶ पुर॑न्धिम् ।
नरा॒शँसो॒ ग्नास्पति॑र्नो अव्यात् ।
आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् ।
प्रि॒या दे॒वस्य॑ सवि॒तुस्स्या॑म ।
सायण-टीका
भगं सौभाग्यं धियं सत्कर्मविषयां प्रज्ञां सवितुः प्रसादात् वाजयन्तः प्राप्नुवन्तो वर्तामहे । नोऽस्माकं पुरन्धिं वहुविषयां प्रज्ञामयं देवः अव्यात् रक्षतात् । कीदृशोऽयं? नराशंसो नरैः शंसनीयः । ग्नास्पतिः छन्दसां पालयिता । ‘छन्दाँसि वै ग्नाः’ इति श्रुत्यन्तरात् । देवपत्न्यो वा ग्नाशब्देनाभिधीयन्ते ‘उतग्नावियन्तु देवपत्नी’ इति मन्त्रवर्णात् । अयशब्द एतव्यं प्राप्तः व्यमाचष्टे । आसमन्तात् अये प्राप्तव्ये रयीणां धनानां संगथे संगमे निमित्तभूते सति वामस्य सर्वेषां वननीयस्य सवितुर्देवस्य वयं प्रियाः स्याम ॥